SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ शंकुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह—
नरयन्त्रं तथा साधु दिवा च विमले रवौ।
छायासंसाधनै: प्रौक्तं कालसाधनमुत्तमम्।।24।।
विमले मेघादिव्यवधानरूपमलेन रहिते सूर्य्य एतद्रूपे दिने। चकार एवकारार्थस्तेन साभ्रदिनव्यवच्छेद:। नरयंत्रं द्वादशाङ्गुलशङ्कुयन्त्रं तथा घटीयन्त्रवत् कालसाधकं साधु सूक्ष्मं रात्रौ नेत्यर्थसिद्धम्। ननु शङ्कोश्छायासाधकत्वं न कालसाधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो यन्त्रत्वप्रतिपादनादित्यत आह। छायासंसाधनैरिति। इदं शंकुरूपनरयन्त्रं छायाया: सम्यक् सूक्ष्मत्वेन साधनैरवगमै: कृत्वा कालसाधनं दिनगतादिकालस्य कारणमुन्तमम्। अन्य यन्त्रेभ्योऽस्मान्निरन्तरतयातिश्रेष्ठम्। तथाच छायासाधकत्वेनैव छायाद्वारा शङ्को: कालसाधकत्वमिति न यन्त्रत्वव्याघात:। अतएव साभ्रदिने रात्रौ चानुपयुक्त:। नरस्य छाया यन्त्रोपलक्षणत्वात् यष्टिधनुश्चक्राण्यपि तथेति ध्येयम्।।24।।
अथादित एतदन्तग्रन्थज्ञानस्यैकफलकथनेन विभक्तमपि खण्डद्वयं क्रोडयति—
ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वत:।
ग्रहलोकमवाप्नोति पर्यायेणात्मवान् नर:।।25।।
ग्रहनक्षत्राणां चरितं गणितविषयकं ज्ञानं ग्रन्थपूर्वखण्डरूपं गोलं भूगोलभगोलस्वरूपप्रतिपादकग्रन्थं ग्रन्थोत्तरार्द्धान्तर्गतम्। चकार: समुच्चये। तत्त्वत: वस्तुस्थितिसदभावेन सार्वविभक्तिकस्तसिरित्येके। ज्ञात्वावगम्य नर: पुरुष:। ग्रहलोकं चन्द्रादिग्रहाणां लोकं तल्लोकाधिष्ठितस्थानं ग्रहोपलक्षणान् नक्षत्राधिष्ठितस्थानमपि इति ध्येयम्। प्राप्नोति। ननु ग्रहालोकप्राप्त्या क: पुरूषार्थ इत्यतो मोक्षरूपं पुरूषार्थफलमाह। पर्य्यायेणेति। जन्मान्तरेण पुरुष आत्मवानात्मज्ञानी भवति। तथाच आत्मज्ञानान् मोक्षप्राप्तिरेवेति भाव:।।25।।