-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ज्यौतिषोपनिषदध्याय: -13


कपालयन्त्रम्। Kapalyantram

अथ कपालाख्यं जलयन्त्रमाहं—

ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि।
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्।।23।।

यत्‌ ताम्रघटितं पात्रमधश्छिद्रम् अधोभागे छिद्रं यस्य तत्। अमलाम्भसि निर्मलं जलं विद्यते यस्मि्न् तादृशे कुण्डे बृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे षष्टि: षष्टिवारमेव न न्यूनाधिकं मज्जति। अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्नं भवति। तत् कपालकं कपालमेव कपालकं घटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्द्धाकारं यन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम्। तद्घ्टिनं तु। शुल्वस्य दिग्भिर्विहितं पलैर्यत् षडंगुलोच्चं द्विगुणायतास्यम्। तदम्भसा षष्टिपलै: प्रयूर्य्य पात्रं घटार्द्धप्रतिमं घटी स्यात्।। सत्र्यंशमाषत्रयनिर्मिता या हेम्न: शलाका चतुरङ्गुला स्यात्। विद्धं तया प्राक्तनमत्रपात्रं प्रयूर्य्यते नाडिकयाम्बुभिस्तत्।। इति व्यक्तम्। भगवता तु सूक्ष्ममुक्तम्।।23।।