-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ज्यौतिषोपनिषदध्याय: -13


अन्त्या/चरज्या:। Antya/charjyah

अथ त्रिप्रश्नाधिकारोक्तान्त्याया: स्वरूपं स्पष्टाधिकारोक्तचरज्याया: स्वरूपं च आह—

मध्यक्षितिजयोमोर्मध्ये या ज्या साऽन्त्याऽभिधीयते।
ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम्।।14।।

या उत्तरगोले त्रिज्याचरज्या युतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता। अन्त्या सा मध्यं याम्योत्तरवृत्तं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तं तयोर्मध्येऽन्तरालेऽहोरात्रवृत्तस्य एकदेशप्रदेशे ज्या। उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि सूत्ररूपा ज्यासूत्रानुकारा न तु ज्या। अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्यास-सूत्रत्वाभावात्। अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका सङ्गच्छते। अभिधीयते गोलज्ञै: कथ्यते। ननु अन्त्योपजीव्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह। ज्ञेयेति। उन्मण्डलं च विषुवण्‍मण्डलं परिकीर्त्यते।

इति त्रिप्रश्नाधिकारोक्तेन द्वयो: शब्दयोरेकार्थवाचकत्वात् तिर्य्यगाधार वृत्तानुकारं स्थिरं निरक्षक्षितिजवृत्तमुन्मण्डलं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम्। चकारो विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैकदेशस्यार्धज्यारूपमृजुसूत्रयोरन्तर विशेषात्मकम् तथा च स्वनिरक्षदेशस्वदेशयोरू ध्यास्तसूत्रयोरन्तर मूर्ध्वाधरमिति फलितार्थ:। चरदलज्या तदन्तरालस्थिताहोरात्रवृत्तैकदेशरूपचराख्यखण्डकस्य। न तु दलमर्द्धम्। ज्या चरज्येत्यर्थ:। गोलज्ञैर्ज्ञातव्या।।14।।

ननु पूर्वश्लोकद्वयोक्तं क्षितिजस्याज्ञानाद्दुर्बोधमित्यत: श्लोकार्द्धेन क्षितिजस्वरूपमाह—

कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्।।15।।

भूगोले स्वकं स्वीयं स्थानं भूप्रदेशैकदेशरूपमुपरि सर्वप्रदेशेभ्य ऊर्ध्वं कृत्वा प्रकल्प्य मध्ये तादृशभूगोल उर्ध्वाध: खण्डसन्धौ यद्वृत्तं तत्क्षितिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं संसक्तं कार्यमिति भाव:।।15।।

अथैन दृष्टान्तगोलं सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा प्रकारमाह—

वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम्।
अमृतस्रवयोगेन कालभ्रमणसाधनम्।।16।।

बहि:। गोलोपरीत्यर्थं:। गोलाकारेण वस्त्रेण छन्नं छादितं दृष्टान्तगोलम्। चकाराद्वस्त्रोपरि तत्तद्वृत्तानामङ्कनं कार्य्यम्। लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थवृत्तेन क्षितिजास्येन संसक्तम्। अपि समुच्चयो स्तेन क्षितिजं वस्त्रच्छन्नं न कार्य्यं किं तु वस्त्रोपरि क्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा भवति तथा कार्य्यमिति तात्पर्य्यम्। अमृतस्रावयोगेनैतादृशं गोलं कृत्वा जलप्रवाहधोघातेन कालभ्रमणसाधनं षष्टिनाक्षत्रघटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवति तथा साधनं कारणं कार्य्यं स्वयंवहगोलयन्त्रं कार्य्यमित्यर्थ:। एतदुक्तं भवति। दृष्टान्तगोलंवस्त्रच्छन्नं कृत्वा तदाधारयष्टयग्रे दक्षिणोत्तरभित्तिक्षिप्तनलिकयो: क्षेप्ये। यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात्। ततो यष्ट्यग्रर्जुमार्गगतजलप्रवाहेण पूर्वाभिमुखेन तस्याध: पश्चाद्भागे घातोऽपि यथा स्यात् तथा स्यादर्शनार्थमेव वस्त्रच्छन्नमुक्तम्। अन्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघात दर्शनभ्रमेण चमत्कारानुत्पत्ते:। आकाशाकारता सम्पादनार्थमपि वस्त्रच्छन्नमुक्तम्। इदं वस्त्रामार्द्रं यथा न भवति तथा चिक्कणवस्तुना मदनादिना लिप्तं कार्य्यम्। क्षितिजवृत्ताकारेणाधो गोलो दृश्यो यथा स्यात् तथा परिखारूपा भित्ति: कार्य्य परन्तु दक्षिणयष्टिभागस्तत्र शिथिलो यथा भवति। अन्यथा भ्रमणानुपपत्ते: पूर्वदिक्स्थपरिखाविभागादूर्तहर्जलप्रवाहोडदृश्य: कार्य इति स्वबुद्ध्यैव ज्ञेयमिति। इत्यादि स्वबुध्यैव ज्ञेयमिति।।16।।

अथ यदि जलप्रवाहस्तत्र न सम्भवति तदा कथं स्वयंवहो दृष्टान्तगोलो भवतीत्यतस्तत्स्व यं वहार्थ मुक्तं च गोप्यं कार्य इत्याह—

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्।
ग्ज्ञैप्यमेतत् प्रकाशोक्तं सर्वगम्यं भवेदिह।।17।।

दृष्टान्तगोलरूपं यन्त्रं तुङ्गवीजसमायुक्तं तुङ्गो महादेवस्तस्य बीजं वीर्य्यं पारद इत्यर्थ:। तेन योजितं सत् प्रसाधयेत्। गणक: शिल्पज्ञ:। प्रकर्षेण यथा नाक्षत्रषष्टिघटीभिर्गोलभ्रमस्तथा पारदप्रयोगेण सिद्धं कुर्य्यादित्यर्थ:।

एतदुक्तं भवति। निबद्धगोलबहिर्भूतयष्टिप्रान्तयोर्यथेच्छया स्थानद्वये स्थानत्रये वा नेमिं परिधिरूपामुत्कीर्य्य तां तालपत्रादिना चिक्कणवस्तुलेपेनाच्छाद्य तत्र छिद्रं कृत्वा तन्मार्गेण पारदोऽर्द्धपरिधौ पूर्णो देय इतरार्द्धपरिधौ जलं च देयं ततो मुद्रितच्छिद्रं कृत्वा यष्ट्यग्रे भित्तिस्थनलिकयो: क्षेप्ये यथा गोलाऽन्तरिक्षो भवति। तत: पारदजलाकर्षितयष्टि : स्वयं भ्रमति। तदाश्रितो गोलश्च। एतत्पक्षे वस्त्रच्छन्नमाकाशाकारतासम्पादनार्थमेव चेत् क्रियत इति। ननु इय स्वयंवहक्रिया व्यक्ता नोक्तेत्यत आह। गोप्यमिति। एतत् स्वयंवहकरणं गोप्यमप्रकाश्यं कुत इत्यत आह। प्रकाशेक्तमिति। अतिव्यक्ततयोक्तं स्वयंवहकरणमिह भूलोके सर्वगम्यं सर्वजनगम्यं भवेत्। तथा च सर्वज्ञेये वस्तुनि चमत्कारानुत्पत्तेश्चमत्कृत्यर्थं सर्वत्र न प्रकाश्यमित्याशयेन तत्करणं व्यक्तं नोक्तमिति भाव:।।17।।

ननु त्वया गोप्यत्वेनोक्तं मया कथमवगन्तव्यं मादृशैरन्यैश्च कथमवगन्तव्यमित्यत: सार्द्धश्लोकेन आह—

तस्माद् गुरूपदेशेन रचयेद् गोलमुत्तमम्।
युगे युगे समुच्छिन्ना रचनेयं विवस्वत:।।
प्रसादात् कस्यचिद् भूय: प्रादुर्भवति कामत:।।18।।

तस्मात् स्वयंवहकरणस्य गोप्यत्वात् गुरुपदेशेन परम्परा प्राप्तगुरोर्निर्व्यजकथनेन गोलं दृष्टाष्टान्तगोलमुत्तमं स्वयंवहात्मकं गणक: कुर्य्यात्। तथाच मया तुभ्यमुक्ता ग्रन्थे गोप्यत्वेनातिव्यक्ता नोक्तेतिभाव:। अन्यै: कथं ज्ञेयमिदमित्यत आह। युग इत्यादि । विवस्वत: सूर्य्यमण्डलाधिष्ठातुर्जीवविशेषस्येयं स्वयंवहरूपा रचना क्रिया युगे युगे बहुकाल इत्यर्थ:। समुच्छिन्ना लोके लुप्ता कस्यचित् मादृशस्य प्रसादादनुग्रहाद्भूय: वारंवारमिच्छया प्रादुर्भवति व्यक्ता भवतीत्यर्थ:। तथाच यथा मत्तस्त्वयावगतं तथान्यस्मान्मादृशादन्यैरवगन्तव्यं कालस्य निरवधित्वात् सृष्टेरनादित्वाच्चेति भाव:।।18।।

अथोक्तस्वयंवहक्रियारीत्या स्वयंवहगोलातिरिक्तान्यस्वयंवहयन्त्राणि कालज्ञानार्थं साध्यानि तत्साधनं रहसि कार्य्यमिति च आह—

कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्।
एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि।।19।।

तथा यथा स्वयंवहगोलयन्त्रं साधितं तद्वदित्यर्थ:। कालसंसाधनार्थाय कालस्य दिनगतादे: सूक्ष्मज्ञाननिमित्तं यन्त्राणि स्वयंवहगोलातिरिक्तानि स्वयंवहयन्त्राणि साधयेत्। गणक: शिल्पादिस्वकौशल्येन कारयेत्। यन्त्रे कालसाधके विस्मयकारिणि स्वयंवहरूपतया लोकानामुत्पन्नाश्चर्य्यस्य कारणभूते बीजं स्वयंवहतासम्पादकं कारणमेकाकी एकव्यक्तिकोऽद्वितीय: सन् योजयेत्। शिल्पज्ञतया स्वयमेव निष्पादयेदित्यर्थ:। अन्यथा द्वितीयस्य तज्ज्ञानेन तन्मुखात् तद्यन्त्रहार्दस्य लोकश्रवणगोचरतायां कदाचित् सम्भावितायां विस्मयानुत्पत्ते:।।19।।

अथैषां स्वयंवहयन्त्राणां दुर्घटत्वाच्छङ्क्वादियन्त्रै: कालज्ञानं ज्ञेयमित्याह—

शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा।
गुरुपदेशाद् विज्ञेयं कालज्ञानमतन्द्रितै:।।20।।

शङ्कुयष्टिधनुश्चक्रै: प्रसिद्धैश्छायायन्त्रैश्छायासाधकयन्त्रैरनेकधा नानाविधगणित-प्रकारैर्गुरुपदेशात् स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमै: पुरुषै: कालज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम्। एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्य्यै: स्पष्टीकृतम्। तत्र शंकुस्वरूपम्। समतलमस्तकपरिधिर्भ्रमसिद्धो दन्तिदन्तज: शंकु:। तच्छायात: प्रोक्तं ज्ञानं दिग्देशकालानाम्।। इति। यष्टियन्त्रं च।

त्रिज्याविष्कम्भार्द्धं वृत्तं कृत्वा दिगङ्कितं तत्र। दत्वाग्रां प्राक् पश्चात् द्युज्यावृत्तं च तन्मध्ये।। तत् परिधौ षष्टयङ्कं यष्टिर्नष्टद्युतिस्तत: केन्द्रे। त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत्। तावत्या मौर्व्या यद्द्वितीयवृत्ते धनुर्भवेत् तत्र। दिनगतशेषा नाड्य: प्राक् पश्चात् स्यु: क्रमेणैवम्।। इति। चक्रयन्त्रं तु। चक्रं चक्रांशाङ्कं परिधौ श्लथश्रृंखलादिकाधारम्। धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्र भार्द्धं च।। तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम्। भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ता:।। तत्खार्द्धान्तश्च नता उन्नतलवसंगुणं द्युदलम्। द्युदलोन्नतांशभक्तं नाड्य: स्थूला: परै: प्रोक्ता:।। इति। धनुर्यन्त्रं तु। दलीकृतं चक्रमुशन्ति चापम्। इति। अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादिविचारश्चोपेक्षित इति मन्तव्यम्।।20।।

अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साधयेदिति कालसाधनमुपसंहरति—

तोययन्त्रकपालाद्यैर्मयूरनरवानरै:।
ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत्।।21।।

जलयन्त्रं च तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्बालुकायन्त्रप्रभुतिभि: सापेक्षघटीयन्त्रैर्मयूरनरवानरै:। मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोदिदष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतै: ससूत्ररेणुगर्भै: सूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तै: सूत्रप्रोता: षष्टिसंख्याका मृद्घटिका मयूरोदरस्थान मुखाद् घटिकान्तरेण स्वत एव नि:सरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थ:। यद्वा सूत्राकारेण रेणव: सिकतांशा गर्भे उदरे यस्य एतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्। तेन सहितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण च इति सिद्धोऽर्थ:। चकारस्तोय यन्त्रकपालाद्यैरित्यनेन समुच्चयार्थक:। कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेन इत्यर्थ:। जानीयादित्यर्थ:।।21।।

ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारो बहवो दुर्गमाश्च सन्तीत्याह—

पारदाराम्बुसूत्राणि शुल्वतैलजलानि च।
बीजानि पासवस्तेषु प्रयोगास्तेऽपि दुर्लभा:।।22।।

तेषु मयूरादियन्त्रेषु स्वयंवहार्थमेते प्रयोगा: प्रकर्षेण योज्या:। प्रकर्षस्तु यावदभिमतसिद्धे:। एते क इत्यत आह। पारदाराम्बुसूत्राणीति। पारदयुक्ता आरा:। यथा च सिद्धान्तशिरोमणौ। लघुकाष्टजसमचक्रे समसुषिरारा: समान्तरा नेम्याम्। किञ्चिद्वक्रा योज्या सुषिरस्यार्द्धे पृथक् तासाम्।। रसपूर्णे तच्चक्रं द्वयाधाराक्षस्थितं स्वयं भ्रमति। इति। अम्बु जलस्य प्रयोग:। सूचाणि सूत्रसाधनप्रयोग:। शुल्वं शिल्पनैपुण्यम्। तैलजलानितैलयुक्तजलस्य प्रयोग:। चकारात् तयो: पृथक् प्रयोगोऽपि। यथा च सिद्धान्तशिरोमणौ। उत्कीर्य्य नेमिमथवा परितो मदनेन संलग्नम्। तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत् तावत्।। यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति। पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जलाकृष्टम्।। ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य। एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहि:।। युगपन्मुक्तं चेत् कं नलेन कुण्डाद्वहि: पतति। नेम्यां बध्वा घटिकाश्चक्रं जलयन्त्रवत् तथा धार्य्यम्।। नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये। भ्रमति ततस्तत् सततं पूर्णघटीभि: समाकृष्टरम्।। चक्रच्युतं स्वमुदकं कुण्डे याति प्रणालिकया। इति। बीजानि केवलं तुङ्गबीजप्रयोग:। पांसवो धूलिप्रयोगास्तैर्युक्ता: प्रयोगा:। अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थ:। दुर्लभा: साधारणत्वेन मनुष्यै: कर्त्तुमशक्या इत्यर्थ:। अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्य्यापत्ते: इयं स्वयंवहविद्या समुद्रान्तर्निवासिजनै: फिरङ्याय ख्यै: सम्यगभ्यस्तेति। कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेप:।।22।।