SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ त्रिप्रश्नाधिकारोक्त्ल्ग्नमध्यलग्नयो: स्वरूपमाह—
उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात्।
लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्।।13।।
उदयक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थ:। लग्नं क्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं तत्प्रदेशो मेषाद्यवधि भोगेनोदयलग्नमुच्यत इत्यर्थ:। प्रसङ्गादस्तलग्नस्वरूपमाह। अस्तमिति। तद्वशादुददयलग्ना नुरोधादस्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक् प्रदेशमित्यर्थ:। क्रान्तिवृत्तं गच्छत् यत्प्रदेशेन प्रवहवायुना संल्लग्नं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थ:। तथाच क्षितिजोर्ध्वं सदा क्रान्तिवृत्तस्य सद्भावादुदयास्त लग्नयो: षड्राश्यन्तरं सिद्धं लङ्कोदयैर्निरक्षदेशीयराश्युदयासुभि:। यथा त्रिप्रश्नाधिकारोक्तप्रकारेण यत्संख्यामितं सिद्धं निष्पन्नम्। मध्यमं मध्यमलग्नं तत् खमध्योपरि खस्य दृश्याकाश विभागागस्यमध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशशरूपं न तु खमध्यं भास्कराचार्य्याभिमतं खस्वस्तिकं तल्लग्नस्य कदाचित्कत्वेन सदानुत्पत्ते:। तस्य उपरिस्थितं क्रान्तिवृत्तं याम्योत्तरवृत्ते यत्प्रदेशेन लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति तात्पर्य्यार्थ:।।13।।