SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह—
भगणांशाङ्गुलै: कार्यादलितास्तस्त्र एव ता:।
स्वाहोरात्रार्धकर्णैश्च् तत्प्रमाणानुमानत:।।5।।
क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरै:।
स्वै: स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात्।।6।।
कक्षा: प्रकल्पयेत् ताश्च कर्क्यातदीनां विपर्ययात्।
तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमत:।।7।।
याम्यगोलश्रिता: कार्या: कक्षाधाराद् द्वयोरपि।
याम्योदग् गोलसंस्थानां भानामभिजितस्तथा।।8।।
सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत्।
मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता।।9।।
भगणांशांगुलै: द्वादशराशिभागै: षष्ट्यधिकशतत्रयपरिमितांगुलै:दलितै: समविभागेन खण्डितै: अंकितैरित्यर्थ:। ता: कक्षा: वंशशलाकावृत्तात्मिकास्तिस्र: त्रिसंख्याका:। एवकारादङ्कने वृत्ते च न्यूनाधिकव्यवच्छेद:। शिल्पज्ञेन गोलगणितज्ञेन कार्य्या:। एता: पूर्ववृत्तप्रमाणेन न कार्य्या इत्यभिप्रायेणाह। स्वाहोरात्रार्द्धकर्णैरिति। स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्द्धकर्णो व्यासार्द्धं द्युज्या ताभिरित्यर्थ:। चकारात् कार्य्या:। स्वस्वद्युज्यामितेन व्यासार्द्धेन मेषादित्रयाणां वृत्तत्रयं कुर्य्यादित्यर्थ:। ननु स्पष्टाधिकारोक्ताहोरात्रार्द्धकर्णानयने युक्त्यभावात् तैर्वृत्तनिर्माणं कुत: कार्य्यमित्यत आह। तत्प्रमाणानुमानत इति। विषुवत्कक्षाप्रमाणानुमानाद् वृत्तत्रयं कार्य्यम्। यथा विषुवद् वृत्तं पूर्ववृत्तसमम्। तथा तदनुरोधेन मेषान्तवृत्तमल्पं तदनुरोधेन वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तवृत्तमल्पमित्युत्तरोत्तरमल्पव्यासार्द्धवृत्तम्। तत्वहोरात्रवृत्तमिति द्युज्याव्यासार्द्धेन वृत्तनिर्माणं युक्तियुक्तं सिद्धं क्रान्तिज्यावर्गोनात् त्रिज्या वर्गान्मूलस्याहोरात्रवृत्तव्यासार्द्धत्वादिति भाव:। वृत्तत्रयं कृत्वा दृष्टान्तगोले निबघ्नाति। क्रान्तिविक्षेपभागैरिति। क्रान्तिवृत्तस्य विषुवद् वृत्तप्रदेशाद्भक्षिप्तप्रदेशा यैरंशै:। चकारादाधार वृत्तस्थैर्दलितै: समविभागेन खण्डितैरङ्किवतै:। दक्षिणोत्तरै: विषुवद्वृत्तक्रान्तिवृत्तप्रदेशयो: दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणै: स्वकीयै: स्वराशिसम्बद्धैरपक्रमै: स्पष्टाधिकारानीतक्रान्त्यंशैर्मेषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्त मिथुनान्तानाम् इत्यर्थ:। तिस्रस्त्रिसंख्याका: प्राङ्निर्मिता वृत्तरूपा:कक्षा:। अपक्रमात्। अपशब्दस्य उपसर्गत्वात् क्रमादित्यर्थ:। प्रकल्पयेत्। शिल्पज्ञगणको विषुवद् वृत्तानुरोधेनाधारवृत्तद्वय उत्तरतो निबन्धयेदित्यर्थ:। कर्कादीनामाह। ता इति। मेषादिकक्षानिबद्धा: कर्कादीनां कर्कसिंहकन्यानामादि प्रदेशानां विपर्य्ययात् व्यत्यासात्। चकार: समुच्चये। तेन प्रकल्पयेदित्यर्थ:। मिथुनान्तवृत्तं कर्कादेर्वृषान्तवृतं सिंहादेर्मेषान्तवृत्तं कन्यादेरिति फलितम्। तुलादीनामाह। तद्वदिति। तुलादीनां तुलावृश्चिकधन्विनां तिस्त्र: अन्यास्त्रिसंख्याका: कक्षास्तद्वदेकद्वित्रिराशिक्रान्त्यंशैस्तुलान्तवृश्चिकान्तधनुरन्तानां याम्यगोलश्रिता:। विषुवद्वृत्ताद् दक्षिणभाग आधारवृत्तद्वये निबद्धा: कार्य्या: गणकेनेति शेष:। मकरादीनामाह। मृगादीनामिति। विलोमत उत्क्रमात् तुलादिसम्बद्धा: कक्षा मकरादीनां भवन्ति। धनुरन्तवृत्तं मकरादेवृश्चिकान्तवृत्तं कुम्भादेस्तुलान्तवृत्तं मीनादेरिति फलितम्। ताराणां कक्षानिबन्धनमाह। कक्षाधारादिति। भानामश्विन्यादिसप्तविंशतिनक्षत्रबिम्बानां याम्योदग्गोलसंस्थानां विषुवद्वृत्ताद् दक्षिणोत्तरभागयो: यथायोग्यमवस्थितानां यन्नक्षत्रध्रुवकस्पक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानां येषां स्पष्टक्रान्तिर्दक्षिणा तेषां दक्षिणभागावस्थितानामित्यर्थ: द्वयोर्दक्षिणोत्तरभागयो:। अपिशब्दो याम्योत्तरनक्षत्रक्रमेण व्यवस्थार्थक:। कक्षाधारात् क्क्षाणामाधारवृत्तद्वयात् तयोरित्यर्थ:। सप्तम्यर्थे पञ्चमी। कक्षा: स्वस्पष्टक्रान्तिज्योत्पन्नद्युज्याव्यासार्द्धप्रमाणेन वृत्ताकारा: प्रकल्पयेत्। शिल्पज्ञो निबन्धयेत्। अन्येषामप्याह। अभिजित् इति। अभिजिन्नक्षत्रविम्बस्य सप्तर्षिविम्बानामगस्त्यनक्षत्रविम्बस्य ब्रह्मसंज्ञकताराद्युक्तलुब्धकापांवत्सादिनक्षत्रविम्बानां चकारोऽनुसन्धेय:। तथा कक्षा यथायोग्यं प्रकल्पयेदित्यर्थ:। निबन्धनप्रकारमुपसहंरति। मध्य इति। सर्वासामुक्तकक्षाणां मध्ये तुल्यभागेऽनाधारवृत्तमध्यप्रदेशे। एवकारादन्ययोगव्यवच्छेद:। वैषुवतीकक्षा विषुवसम्बन्धिनी वृत्तरूपा संस्थितावस्थिता भवति। तथा शिल्पज्ञ: कक्षां निबन्धयेदित्यर्थ:। विषुवदृवृत्तात् स्वस्पष्टक्रान्त्यन्तरेण स्वद्युज्याव्यासार्द्धप्रमाणेन अहोरात्रवृत्तमाधारवृत्तयो: निबन्धयेदिति निष्कृष्टोऽर्थ:।।5-9।।
अथ गोले मेषादिराशिसन्निवेशं सार्द्धश्लोकेन आह—
तदाधारयुतेरूर्ध्वमयने विषुवद्द्वयम्।
विषुवत्स्थानतो भागै: स्फुटैर्भगणसञ्चरात्।
क्षेत्राण्येवमजादीनां तिर्यग्ज्याभि: प्रकल्पयेत्।।10।।
तदाधारयुतेस्तद्विषुवद्वृत्तमाधारवृत्तं तयोर्युते: सम्पातादूर्ध्वमुपरि। अन्तिमाहोरात्राधारवृत्तयो: सम्पातेऽयने दक्षिणोत्तरायणसन्धिस्थाने भवत:। अत्रोर्ध्वपदसञ्चारादाधारवृत्तमूर्वाधरं ग्राह्यं न तिर्य्यगुन्मण्डलाकारम्। तेनैतत् फलितम्। विषुवद्वृत्तस्योर्ध्वाधराधारवृत्त ऊर्ध्वमधश्च सम्पातस्तत्रोर्ध्वसम्पातान्मकराद्यहोरात्रवृतं चतुर्विंशत्यशैस्तदाधारवृत्ते दक्षिणतो यत्र लग्नं तत्रोत्तरायण सन्धिस्थानम्। एवमध:सम्पातात् कर्काद्यहोरात्रवृत्तं चतुर्विशत्यंशैस्तदाधारवृत्त उत्तरतो यत्र लग्नं तत्र दक्षिणायनसन्धिस्थानमिति। अयनाद्विषुवस्य विपरीतस्थितत्वात् उर्ध्वशब्दद्योतितविपरीताध: शब्दसम्बन्धाद्विषुवद्वयं भवति। तात्पर्यार्थस्तु तिर्य्यगुन्मण्डलाकाराधारवृत्तविषुवद्वृत्तसम्पातौ पूर्वापरौ क्रमेण मेषादितुलादिरूपौ विषुवत्स्थाने विषुवत् स्थाने भवत इति। अथ राशि साकल्य सन्निवेशमाह । विषुवत्स्थानात् इति। विषुवतप्रदेशात् स्फुटै:राशिसम्बन्धिभिस्त्रिंशन्मितै: अंशैर्भगणसञ्चराद्राशिसाकल्यसन्निवेशात् तिर्य्यग्ज्याभिरुक्तवृत्तानुकारातिरिक्तानुकार सूत्रवृत्तप्रदेशैरजादीनाम् मेषादीनाम् एवमयनविषुर्वकल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानि सुधीर्गणक: प्रकल्पयेदङ्कयेत्। तद्यथा पूर्वदिक्स्थविषुवस्थानात् गोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे यत्र स्थानं तत्र म्षान्तस्थानं तस्मात् तदन्तरेण वृषान्ताहोरात्रव्त्ते तदन्तरेण वृषान्तस्थानमस्यादयनसन्धिस्थानं तत्प्रदेशान्तरेण मिथुनान्तस्थानमस्मात् पश्चिमभागे कर्कान्ताहोरात्रवृत्ते तदन्तरेण कर्कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिद्धान्तस्था नमस्मादपि तदन्तरेण पश्चिमविषुवस्थानं कन्यान्तस्थानमस्मािदपि प ूर्वभागे तुलान्ताहोरात्रवृत्ते तदन्तरेण तुलान्तस्थानमस्मादपि वृश्चिकान्ताहोरात्रवृत्ते तदन्तरेण मकरान्तस्थानमस्मादपि तदन्तरेणायनसन्धिस्थानं धनुरन्तस्थानमस्मात् कुम्भाद्यहोरात्रवृत्ते तदन्तरेण मकरान्तस्थानमस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानं मीनादिस्थानं च। अस्मादपि पूर्वविषुवे मीनान्तस्थानं मेषादिस्थानं च तदन्तरेण इति व्यक्तम्।।10।।