-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ भूगोलाध्याय:—12


दिनेशव्यवस्था/ दिनव्यवस्था। Dineshavyewastha / Dinvyewastha

इति प्रश्नस्यो।त्तरं श्लोकाभ्यामाह—

मन्दादध: क्रमेण स्युश्चतुर्था दिवसाधिया:।
वर्षाधिपतयस्तद्वत् तृतीया: परिकीर्तिता:।।78।।
तृतीयाश्च प्रकीर्तिता: इति पाठ: ब0प्र0मि0सं0
ऊर्ध्वक्रमेण शशिनो मासानामधिपा: स्मृता:।
होरेशा: सूर्यतनयादधोऽध: क्रमशस्तथा।।79।।

शने: सकाशादध: कक्षाक्रमेण चतुर्थसंख्याकाग्रहा दिनाधिपतयो वारेश्वरा भवन्ति। यथा शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत् क्रम:। वर्षस्य षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्मन्दादध: क्रमेण तृतीयसंख्याका ग्रहा उक्ता:। च: समुच्चयार्थे। तत् क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरुसूर्यबुधा इति। चन्द्रात् सकाशादूर्ध्वकक्षाक्रमेण ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिन: कथिता:। तत्क्रमश्च चन्द्रबुध शुक्ररविभौमगुरुशनय इति। शने: सकाशादध:। अध: क्रमेण होरेशा:। होरेति लग्नं भगणस्य चार्द्धम्।

इति पञ्चदशभागात्मकहोराणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशतिहोराणामित्यर्थ:। होरा सार्द्धद्विनाडिका। इति षष्टिघटिकात्मकेऽहोरात्रे। चतुर्विंशतिहोराणामित्यन्ये स्वामिनस्त्था मासेश्वरवदव्यवहिता: कथिता। यथा तत्क्रम: शनिगुरुभौमरविशुक्रबुधचन्द्रा इति। अत्र शने: सर्वोर्द्धस्थत्वाच्चन्द्रस्य सर्वाध:स्थत्वात् ताभ्यामध ऊर्ध्वक्रम: क्रमेणोक्त:। अन्य ग्रहस्यावधित्वाभ्युपगमे विनिगमनाविरहापत्ते:। न तु शनेराद्यावधित्वेन सृष्ट्यादौ दिन-वर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्वखण्डकोक्तानीततदीशैर्विरोधापत्ते:।

अत्रोपपत्ति:। होरारूपलग्नानां क्रान्तिवृत्तेऽध: क्रमेण मेषादीनां सम्भवादूर्ध्वं कक्षातोऽध: क्रमेण होरेशत्वं युक्तम्। एवमहोरात्रे चतुर्विंशतिहोरा: सप्ततष्टास्त्रयो होरेशा गता:। चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथमहोरेशत्वाद् द्वितीयदिनेश:। एवमुत्तरत्रापि एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा इति पूर्ववर्षेशादग्रिमवर्षेशोऽध: कक्षाक्रमेण तृतीय उत्तरोत्तरम्। एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिकाविति कक्षोर्ध्वक्रमे वारक्रमेण एकान्तरितत्वात् कक्षोर्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपन्नं मन्दादित्यादिश्लोकद्वयम्।।78-79।।

अथ ग्रहर्क्षकक्षा: किं मात्रा:। इति प्रश्नस्योत्तरं विवक्षु: प्रथमं नक्षत्राणां कक्षामानमाह—

भवेद् भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्।
सर्वोपरिष्टाद् भ्रमति योजनैस्तैर्भमण्डलम्।।80।।

सूर्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्। खखर्थैकसुरार्णवा:। इति वक्ष्यमाणं षष्ट्या गुणितं सन्नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात्। तैर्नक्षत्रकमितैर्योजनैर्भमण्डलं नक्षत्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादि सप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभित: परिभ्रमति। अत्रोपपत्ति:। नक्षत्राणां गत्यभावाच्छनेरप्यत्यूिर्ध्वं नक्षत्रमण्डलं तत्र सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽपि एककला गतिकल्पनयानुपातान्यथानुपपत्तितया। कल्प्यो हरो रूपमहारराशे:। इतीच्छाह्रासे फलवृद्धयपेक्षितत्वाद्व्यस्तानुपातो लाघवात् सूर्यगति: षष्टिकलामिता च भगवता कृता। नक्षत्रगतेरभावाच्च इति षष्टिताडितमित्युपपन्नम्।।80।।

अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम्। कियती तत्करप्राप्ति:। इति प्रश्नस्योत्तरमाह—

कल्पोक्तचन्द्रभगणा: गुणिता: शशिकक्षया।
आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवे:।।81।।

कल्पोक्तचन्द्रभगणा:। "एते सहस्रगुणिता: कल्पे स्युर्भगणादय:" इत्युक्त्या युगचन्द्रभगणा: सहस्त्रगुणिता: कल्पचन्द्रभगणा इत्यर्थ:। चन्द्रकक्षया खत्रयाब्धिद्विदहना इति वक्ष्यमाणया गुणिता सा तन्मिताकाशकक्षापरिधिरूपा ज्ञेया। धीमतेति शेष:। ननु अनन्ताकाशस्य कथं परिधिरित्यत आह। करव्याप्तिरिति। सूर्यस्य किरणप्रचारस्तथाकाशकक्षापरिमित इत्यर्थ:। तथा च यद्देशावच्छेदेन सूर्यकिरण प्रचारस्तद्देशावच्छिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भाव:। अत्रोपपत्ति:। समनन्तरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यात् इत्युक्तेर्भगणकक्षाघात: खकक्षा सिद्धा। अतश्चन्द्रभगणकक्षयोर्घात: खकक्षातुल्य एवेति दिक्।।81।।

अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं च आह—

सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्।
कुवासरैर्विभज्याह्न: सर्वेषां प्राग्गति: स्मृता।।82।।

सार्ककरव्याप्तिरूपाकाशकक्षा यत्कल्पभगणैर्यस्य कल्पभगणैर्भक्ता प्राप्तं फलं सर्वेषामुक्तभगणसम्बन्धिनां ग्रहादीनामह्नो दिवसस्य दिनसम्बन्धिनीत्यर्थ:। प्राग्गतिर्योजनात्मिका कथिता। अत्रोपपत्ति:। कल्पभगणकक्षा घातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा स्यादेव। कल्पे खकक्षामितयोजनानि ग्रह: क्रामतीति कल्परविसावनदिनै: आकाशकक्षामितयोजनानि तदैकरविसावनदिनेन कानीत्यनुपातेन पूर्वगतिर्योजनात्मिका प्रत्यहं तुल्येत्युपपन्नम्।।82।।

अथ योजनात्मकगते: कलात्मकगतिं स्वीयामाह—

भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा।
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका:।।83।।

गतियोजनोत्पन्ना या संख्या सा संख्या चन्द्रस्य भ्रमणसगुंणा कक्षया गुणिता स्वकक्षयाप्ताभिमत् ग्रहस्य कक्षया भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता। तुकारात् फलं तस्याभिमतग्रहस्य गतिकला भवन्ति। अत्रोपपत्ति:। कक्षायोजनैश्चक्रकलास्तदा गतियोजनै: का इत्यनुपातेन गतिकला:। तत्रापि चन्द्रकक्षा पञ्चदशभक्ताश्चक्रकला इति चक्रकलास्वरूपं धृतमित्युपपन्नम्।।83।।

अथ किमुत्सेधा इति प्रश्नस्योत्तरमाह—

कक्षा भूकर्णगुणिता महीमण्डलभाजिता।
तत्कर्णो भूमिकर्णोना ग्रहौच्च्यं स्वं दलीकृत:।।84।।

ग्रहाणां योजनात्मिका कक्षा भूकर्णेन योजनानि शतान्यष्टौ भूकर्णो द्विगुणानीत्युक्तभूव्यासेन षोडशशतेन गुणिता भूपरिधिना तदवगतेन भक्ता फलं तस्या: कक्षाया: कर्णा व्यासा भवन्ति। एते भूव्यासेन हीना अर्द्धिता: सन्त: स्वगृहीतव्याससम्बन्धिग्रहौच्च्यं ग्रहस्योच्चता भूमे: सकाशाद्भवति।

अत्रोपपत्ति:। भूपरिधिना भूव्यासस्तदा कक्षायोजनै: क इत्यनुपातेन कक्षाव्यासास्तेऽर्द्धिता: कक्षाव्यासार्द्धं भूगर्भकक्षापरिधिप्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्द्धेन हीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोना अर्द्धिता: कृता:। उभयथा समत्वात्। कक्षौच्च्यमेव ग्रहौच्च्यं ग्रहस्य तत्राधिष्ठानादिति। एतेन सिद्धग्रहौच्च्येभ्य: परस्परान्तरगतज्ञानं सुगममिति। किमन्तरा इति पश्नस्योत्तरं स्वत: सिद्धमेवेति दिक्।।84।।

अथोर्ध्वक्रमेण सिद्धा: कक्षा विवक्षु: प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां च आह—

खत्रयाब्धिद्विदहना: कक्षा तु हिमदीधिते:।
ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्तत:।।85।।

चन्द्रस्य कक्षा सहस्त्रगुणितसिद्धरामा:। तुकारादागमप्रामाण्येनाङ्गीकार्य्या। अन्यथान्योन्याश्रयापत्तेस्ततश्चन्द्रादूर्ध्वं बुधशीघ्रोच्चस्य कक्षा नवखदन्तवेददिश:। यद्यपि बुधशीघ्रोच्चमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथापि बुधशीघ्रोच्चभगणानीतकक्षायां गत्यनुरोधेन चन्द्रोर्ध्वगायां बुधो भ्रमति। पूर्वम्। सूर्यशुक्रेन्दुजेन्दव: इति क्रमोक्ते:। अन्यथा भगणैक्यादेककक्षायां रविवुधशुक्राणामवस्थितौ मण्डलभङ्गपत्तेरिति सूचनार्थमुक्ता।।85।।

अथ शुक्रशीघ्रोच्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां च आह—

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमा:।
ततोऽर्कबुधशुक्राणां खखार्थैकसुरार्णवा:।।86।।

तदूर्ध्वं शुक्रशीघ्रोच्चस्य कक्षाद्रित्र्यङ्गवेदषड्रसपक्षा: शुक्रावस्थानसूचनार्थमुक्ता:। ततस्तदूर्घ्वं सूर्यबुधशुक्राणां भगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धय:। यद्यपि बुधशुक्रयो: सूर्य्याध:स्थत्वात् केवलं सूर्यकक्षैव वक्तुमुचिता तथापि कक्षयैको भगणस्तदा कल्परविसावनदिनै: खकमितयोजनानि तदाहर्गणेन कानीत्यनुपातागतयोजनै: क इत्यनुपातेन सूर्यबुधशुक्राणामभिन्नत्वसिद्ध्यर्थं बुधशुक्रयोरत्युपक्ता। अन्यथा समत्वानुपपत्तेरिति।।86।।

अथ भौमस्य कक्षां चन्द्रमन्दोच्चस्य कक्षां च आह—

कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमा:।
चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नय:।।87।।

भौमस्य। अपिशब्दात् सूर्य्यादूर्ध्वकक्षा नवखनवषडिन्द्रसर्पा:। चन्द्रमन्दोच्चस्य कक्षा वेदाहिवेदसर्पपक्षरामनाग रामा:। इयमाप्याकाशे न दृश्या तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता।।87।।

अथ गुरुराह्वो: कक्षे आह—

कृत्तर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरो:।
स्वर्भानोर्वेदतकोष्टद्विशैलार्थखकुञ्जरा:।।88।।

बृहस्पते: भौमाच्चन्द्रोच्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनि पञ्च्स्वरराम चन्द्रशरा:। राहो:। कक्षा वेदाङ्गगजयमसप्तपञ्चाशीतय:। इयमदृश्यापि राहोर्गतियोजनै: ज्ञानार्थमुक्ता। अत्रापि पातस्य चक्रशुद्धत्वमवधेयम्।।88।।

अथ शने: कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षां च आह—

पञ्चबाणाक्षिनागर्तुरसाद्रयर्का: शनेस्तत:।
भानां रविखशून्याङ्कवसुरन्ध्रशराश्विन:।।89।।

ततो बृहस्पते राहोर्वोर्ध्वं शने: कक्षा पञ्चपञ्चद्वयष्टषड्रससप्तार्का:। नक्षत्राणां गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि।

भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्। इत्यनेन भकक्षाया द्वादशान्तरिततत्वादयुक्तत्वं तथापि सैव यत्क्ल्पभगणैरित्यनेने सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि मकक्षार्थं भगवता ग्रहीतच्वाददोष: एतोनाधो वयवस्यार्द्धन्यूनत्वेन त्यागोऽर्द्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमिति सूचितम्।।89।।

ननु चन्द्रकक्षाया आगमप्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामाण्यापत्या। सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत। इति कक्षानयनं व्यर्थम्। अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैवागमप्रमाण्येनाङ्गीकार्य्येति वसन्ततिलकयाह—

खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्रा:।
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसार:।।90।।

वेदाङ्गाष्टाशीतिनखभूसप्तधृतय: प्रयुतगुणिता योजनानि पूर्वार्द्धोक्तानि। ब्रह्माण्डसम्पुटपरिभ्रमणं ब्रह्माण्डगोलस्य परिधि:। कल्पभगणकक्षाहतित्वेनाकाशकक्षाया: पूर्वं स्वरूपोक्तेरिति न पौनरुक्त्यम्। अभ्यन्तरे ब्रह्माण्डगोलान्त: सूर्यस्याभित: किरणानां प्रसार: सूर्यकिरणप्रचारदेशस्य परिधिस्तत्त्‍तुल्य:। एतेन ब्रह्माण्डगोलान्त: परिधिर्न बाह्य इति सूचितम्।।90।।