-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ भूगोलाध्याय:—12


समुद्रावस्थानम्। Samudravasthanam

अथ भूगोले समुद्रावस्थानमाह—

तत: समन्तात् परिधि:क्रमेणायं महार्णव:।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत्।।36।।

दण्डाकारमेरो: सकाशादभितोऽयं प्रत्यक्षो महार्णवो महासमुद्र: क्रमेण निरन्तरालक्रमेण परिधिरूपो भूम्या मेखलेव काञ्चीरूपो देवासुरविभागकृत् देवदैत्ययोर्भूमिगोले विभागयोरवधिरेखारूप इत्यर्थ:। तेन समुद्रादुत्तरं भूगोलस्यार्द्धं जम्बूद्वीपं देवानां समुद्राद्दक्षिणं समुद्रातिरिक्तं भूमिगोलस्यार्द्धं षडद्वीपषट्समुद्रोभयात्मकं दैत्यानामिति सिद्धम्। मेरुदण्डानुरुद्धभूगोलमध्ये परिधिरूपो लवणसमुद्रोऽस्ति। उत्तरगोलार्द्धं दक्षिणभूगोलार्द्धान्तर्गतसमुद्रस्य प्रान्तपरिधिस्पृष्टमिति मेखलाया: कट्यध: स्थितत्वेन तात्पर्य्यार्थ:।।36।।

अथ समुद्रोत्तरतटे परिधिरूपे जम्बूद्वीपारम्भे चतुर्विभागे चत्वारि नगराणि सन्तीत्याह—

समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधे:।
द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिता:।।37।।
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता।
भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा।।38।।
याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता।।39।।
उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथा:।।40।।

मेरुमध्यात् दण्डाकारमेरोर्मध्यप्रदेशाद् भूगोलगर्भात्मकादिति त्वर्थ:। समन्तादभितो भूगोलपृष्ठे तोयधे: परिधिरूपसमुद्रस्य तुल्यभामेषु समभागेषु द्वीपेषु जम्बूद्वीपारम्भेषु दिक्षु चतुर्विभागेषु चतुर्दिक्षु पूर्वादिनगर्य्यो मेरो: पूर्वदक्षिणपश्चिमोत्तरदिक्क्रमेण चतु: पुर्य्यो देवनिर्मिता देवै: कृता: सन्तीति शेष:। समुद्रोत्तरतटे जम्बूद्वीपस्यादिभागरूपे तुल्यान्तरेण चत्वारि नगराणि भूगोलस्य कल्पितपूर्वादिदिशासु सन्तीति तात्पर्यार्थ:।।37।।

अथासां नामानि द्वीपोत्थितस्य जम्बूद्वीपादिभागस्थित वर्षाख्यपारिभाषिक विभागेषु। इत्यर्थं च श्लोकत्रयेण विशदयति।

भूगोल उभयत्र दण्डाकारो मेरुर्यत्र निर्गतस्तत् स्थानाभ्यां वृत्ताकारसूत्रेणोर्ध्वाधरेण भूगोलस्य खण्डद्वयं पूर्वापरं तिर्य्यग्वृत्ताकारं सूत्रेणोर्ध्वाधो भूमे: खण्डद्वयं तेन भूगोले वप्राकाराश्चत्वारो भूम्यंशास्तत्रोर्ध्वस्थपूर्ववप्रे भूम्यां य: समुद्रपरिधिस्तस्य चतुर्थांशे भद्राश्वसंज्ञकवर्षे पूर्वस्मिन्नूर्ध्वाध: शकलसन्धौ सुवर्णघटिका: प्रसादास्तोरणानि च यस्यामेतादृशी पुरी यमकोटीति संज्ञया विश्रुता विख्याता याम्यायामूर्ध्वशकलद्वयसन्धौ मेरुस्तस्य दक्षिणत्वात् भारतसंज्ञवर्षे लङ्कासंज्ञा महानगरी तद्वत् स्वर्णप्रकारतोरणा विश्रुतेत्यर्थ:। पश्चिमे पश्चिमशकलाधस्थशकलसन्धौ केतुमालसंज्ञे वर्षे रोमकसंज्ञा नगरी। उक्ता। उदक्। अध: शकलद्वयसन्धौ कुरुसंज्ञकवर्षे सिद्धपुरी नाम नगरी प्रोक्ता। अस्या: पुर्य्या: सिद्धपुरीत्वमन्वर्थमित्याह। तस्यामिति। सिद्धपुर्य्यां सिद्धा योगाभ्यासका अस्मदादिभ्यो महानुत्कृष्ट आत्मा येषां ते गतव्यथा दु:खरहिता निरन्तरा वसन्ति।।38-40।।

अथोक्तानां चतुर्णां पुराणां परस्परमन्तरालमव्यवहितं मेरोरासामन्तरं च आह—

भूवृत्तपादिविवरास्ताश्चान्योन्यं प्रतिष्ठिता:।
ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रय:।।41।।

ता उक्तनगर्य्योऽन्योन्यं परस्परं भूवृत्तपादविवरा भूगोलवृत्तपरिधिचतुर्थांशान्तराला: प्रतिष्ठिता: स्थिता: सन्तीत्यर्थ:। चकार: पूर्वोक्तेन समुच्चयार्थक:। ताभ्य उक्तपुरीभ्य: सकाशादुत्तरग उत्तरदिक्स्थो मेरु: पूर्वोक्त: सुराश्रय: देवैरधिष्ठितस्तावान् भूपरिधिचतुर्थाशांन्तरेण स्थित:। एवकारो न्यूनाधिकव्यवच्छेदार्थ:। चकार: श्लोकपूर्वार्द्धेन समुच्चयार्थ:।।41।।

अथ तेषां पुराणां निरक्षत्वमस्तीत्याह—

तासामुपरिगो यांति विषुवस्थो दिवाकर:।
न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते।।42।।

तासामुक्तनगरीणां विषुवस्थो विषुवदवृत्तस्थो यददिने समरात्रिन्दिवं यदिदने यन्मार्गेण भ्रमति तद्विषुवद्वृत्तं तत्रस्थ इत्यर्थ:। सूर्य उपरिग: सन् याति भ्रमति। अत: कारणात् तासु नगरीषु विषुवच्छायाक्षभा न भवति तन्नगराणां विषुवद् वृत्ताभिन्नपूर्वापरवृत्तसद्भावात्। तत्रस्थ सूर्य्ये मध्याह्ने छायाभावोपलम्भात्। अतएव तेषु नगरेषु अक्षध्रुवस्योन्नतिरुच्चताक्षांशरूपा नेष्यते न अङ्गीक्रियते। अक्षांशाभावात् निरक्षदेशत्वं तेषां सिद्धमिति भाव:।।42।।

अथ मेरौ उक्तपुरीषु च क्रमेण लम्बांशाक्षांशाभावौ उपपत्या प्रतिपिपादयिषुस्तयो: प्रथमं ध्रुवस्थितिमाह—

मेरोरुभयतो मध्ये ध्रुवतारे नभ: स्थिते।
निरक्षदेशसंस्थानामुभये क्षितिजाश्रये।।43।।

मेरोरुभयतो दक्षिणोत्तराग्रयो: आकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्य आकाशमध्ये भवत:। निरक्षदेशसंस्थाना प्रागुक्तनगरस्थितमनुष्याणाम् उभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रये तद्भूगर्भक्षितिजवृत्तस्थे भवत इत्यर्थ:।।43।।

अथ अतएव तेषु अक्षांशाभावलम्बांशपरमत्वमिति वदन् मेरौ अक्षांशपरमत्वमित्याह—

अतो नाक्षोच्छ्रयस्तासु ध्रुवयो: क्षितिजस्थयो:।
नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा।।44।।

तासु उक्तनगरीषु। अत उभये क्षितिजाश्रये इति कारणात्। अक्षोच्छ्रयो ध्रुवौच्च्यंल न। तथा च क्षिजिजाद्ध्रुवौच्चयमक्षांशा इति तदभावात् तदभाव इति भाव:। तुकारात् तन्नगरीषु ध्रुवयो: क्षितिजस्थयो: सतोर्लम्बांशा नवति: शून्याक्षांशोन नवतेर्लम्बांशत्वात्। खमध्याद् ध्रुवान्तरस्य लम्बांशस्वरूपत्वाच्च मेरौ अक्षांशास्तथा नवति:। ध्रुवस्य परमोच्चत्वात् यथा निरक्षदेशेऽक्षांशाभावाल्लम्बांशा: परमास्तथा मेरौ अक्षांशपरमत्वाल्लम्बांशाभाव इत्यर्थसिद्धम्।

एतेन पुरान्तरं चेदिदमुत्तरं स्यात्, तदक्षविश्लेषलवैस्तदा किम्। चक्रांशकैरित्यनुपातयुक्त्या, युक्तं निरुक्तं परिधे: प्रमाणम्।। 2.14 इति भास्कराचार्य्योक्तं प्रथमप्रश्नस्योत्तरं सूचितम्। स्पष्ट परिधिसाधनं च कल्पितैकमध्य स्थानानुरोधेन अपचीयमानं मेरौ अभावात्मकं न अनुपपन्नमिति च सूचितम्।।44।।

अथ अहोरात्रव्यवस्थां च इत्यादिप्रश्नोत्तरं विवक्षुर्देवासुरयो: दिनारम्भं प्रथममाह—

मेषादौ देवभागस्थे देवानां याति दर्शनम्।
असुराणां तुलादौ तु सर्यस्तद्भागसञ्वर:।।45।।

वृत्तं जम्बूद्वीपलवणसमुद्रसन्धौ परिधि भूगोलमध्ये तत्समसूत्रेण आकाशे विषुवद् वृत्तं तत्र कान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरत:। मकरादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तरे दक्षिणत:। तत् स्वस्थाने प्रवहवायुना भ्रमति। एवं क्रान्तिवृत्तप्रदेशा: स्वस्वस्थाने प्रवहवायुना भ्रमन्ति। तत्र मेषादौ देवभागस्थो जम्बूद्वीपं देवानां देवासुरविभागकृदिति पूर्वोक्ते:। तत्सम्बद्धा मेषादिकन्यान्ता राशय उत्तरगोल:। तत्रस्थ:। सूर्य्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासानन्तरं प्रथमदर्शनं याति गच्छति। प्राप्नोतीत्यर्थ:। विषुवद्वृत्तस्य तत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेन एव उक्तम्। तद्भागसञ्चरौ दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येतादृशसूर्यस्तुलादिप्रदेशे तुकारात् अदर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थ:। तेषाम् अपि विषुवद् वृत्तक्षितिजत्वात्।।45।।

अथ प्रसङ्गात् ग्रीष्मे तीव्रकर इत्याद्यर्द्धोक्तप्रश्नस्य उत्तरमाह—

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवे:।
देवभागेऽसुराणां तु हेमन्ते, मन्दताऽन्यथा।।46।।

तेन। उत्तरदक्षिणगोलयो: सूर्यस्य उत्तरदक्षिण-सञ्चाररूपकारणेन इत्यर्थ:। देवभागे जम्बूद्वीपे। अत्यासन्नतया सूर्यस्य अत्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मर्त्तौ सूर्यस्य तेजोगोलकस्य किरणास्तीक्ष्णा अत्युष्णा असुराणां देवभाग इत्यस्यासन्नतया भाग इत्यस्य समन्वयात् दैत्यानां भागे समुद्रादिदक्षिण प्रदेशे हेमन्ते हेमन्तर्तौ तुकारात् सूर्यस्यात्युष्णा: किरणा: सूर्यस्यात्यासन्नत्वात्। अन्यथा सूर्यस्य दूरस्थत्वेन मन्दता किरणानामत्युष्णताभाव:। देवभागे हेमन्तर्तौ कराणां मन्दता। अतएव तत्र शीताधिक्यं दैत्यभागे ग्रीष्मे कराणां मन्दता शीताधिक्यं च। तथाच देवभागे दक्षिणगोले सूर्यस्य दूरस्थत्वमुत्तरगोले निकटस्थत्वं मध्याह्ननतांशानां क्रमेणाधिकाल्पत्वदिति भाव:।।46।।

अथ मेषादौ देवभागस्थ इत्युक्तं देवासुराहोरात्रकथनव्याजेन विशदयति—

देवासुरा विषुवति क्षितिजस्थं दिवाकरम्।
पश्यन्त्यन्योऽन्यमेतेषां वामसव्ये दिनक्षपे।।47।।

विषुवति काले देवदैत्या: सूर्य्यं क्षितिजस्थं पश्यन्ति। विषुवद्वृत्तस्य तयो: स्वनाद्भूगोलमध्यस्थत्वेन क्षितिजत्वात्। एतेषां देवदैत्यानामन्योन्यं परस्परं ये वामसव्ये अपसव्यसव्ये ते क्रमेण दिनक्षपे दिवसरात्री भवत:। अयं भाव:। देवानां भूमेरुत्तरभाग: स्वकीयत्वात् सव्यमतो दैत्यानामपसव्यं स्वकीयत्वाभावात्। एवं दैत्यानां भूमेर्दक्षिणभाग: स्वकीयत्वात् सव्यं देवानां स्वकीयत्वाभावात् अपसव्यमतो दैत्यानां वामसव्यभागौ उत्तरदक्षिणगोलौ देवानां क्रमेण दिनरात्री। देवानां वामसव्यभागौ दक्षिणोत्तरगोलौ दैत्यानां दिनरात्री। अन्यथान्योन्यं वामसव्ये इत्यनयो: सङ्गतार्थानुपपत्ते:। अतएव पूर्वं मेषादौ इत्याद्युक्तमिति।।47।।

अथ पूर्वश्लोकोत्तरार्द्धस्य सन्दिग्धषत्वं शङ्कया दिनपूर्वापरार्द्ध कथनच्छलेन तदर्थं श्लोकाभ्यां विशदयति—

मेषादावुदित: सूर्यस्त्रीन् राशीनुदगुत्तरम्।
सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्।।48।।
कर्कादीन् सञ्चरस्तद्वदह्न: पश्चार्द्धमेव स:।
तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम्।।49।।

मेषादौ विषुवद्वृत्तभागे रेवत्यासन्न उदितो दर्शनतां प्राप्त: सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत्। त्रीन् राशीनुदगुत्तरभागस्थान् मेषवृषमिथुनान् सञ्चरन्नतिक्रामन् सन् मेरुस्थानां देवानां प्रागहर्मध्यं प्रथमं दिनस्यार्द्धं पूरयेत् पूर्णं करोति इत्यर्थ:। मिथुनान्ते सूर्य्ये मेरुस्थानां मध्याह्नं स्यात् इति फलितार्थ:। कर्कादीन् त्रीन् राशीन् कर्कसिंहकन्यास्तद्वत् क्रमेण इत्यर्थ:। अतिक्रामन् सन् सूर्य्यो दिवसस्य पश्चार्द्धमपरदलम्। एवकारोऽन्ययोगव्यवच्छेदार्थ:। पूरयेत्। कन्यान्ते सूर्य्ये मेरुस्थानां सूर्य्यास्तो भवतीति फलितार्थ:। अथ दैत्यानामाह। तुलादीनिति। सुरद्विषां मेरोर्दक्षिणाग्रवर्तिनां दैत्यानामित्यर्थ:। तुलादींस्त्रीन् राशींस्तुलावृश्चिकधनुराख्यान् मृगादींस्त्रीन् राशीन् मकरकुम्भमीनांस्तद्वत् क्रमेण अतिक्रामन् सूर्य:। चकारस्तुलामृगादि क्रमेण पूर्वापरार्द्धमित्यर्थक:। एवकार उक्तातिरिक्तव्यवच्छेदार्थ:। दिनं पूरयतीत्यर्थ:। धनुरन्ते सूर्य्ये दैत्यानां मध्याह्नं मीनान्ते सूर्य्ये सूर्य्यास्तो भवतीति फलितार्थ:।।48-49।।

अथातो देवासुराणामिति प्रश्नस्योत्तरं सिद्धमित्याह—

अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात्।
अहोरात्रप्रमाणं च भानोर्भगणपूरणात्।।50।।

अत उक्तकारणात् तेषां देवदैत्यानामन्योन्यं परस्परं हि निश्चयेन विपर्य्ययात् व्यत्यारसात् दिनरात्रौ स्त इति फलितम्। एतत् फलितार्थस्तु पूर्वं बहुधोक्त:। अथ तत् कथं वा स्यात्। भानोर्भगणपूरणादिति प्रश्नस्यापि उत्तरं फलितमित्याह। अहोरात्रप्रमाणमिति। सूर्यस्य मेषादिद्वादशराशिभोगात् देवदैत्यानामहोरात्रमानं भवति। चकार: पूर्वार्द्धेन समुच्चयार्थस्तेन द्वयो: पूर्वोक्तमेकं कारणमिति स्पष्टम्।।50।।

अथ मेषादावुदित इत्यादिश्लोकद्धयस्य फलितार्थं तदुपपत्तिं च आह—

दिनक्षपार्धमेतेषामयनान्ते विपर्ययात्।
उपर्यात्मानमन्योऽन्यं कल्पयन्ति सुरासुरा:।।51।।

एतेषां देवदैत्यानामयनान्तेऽयनसन्धौ विपर्य्ययात् व्यत्यासाददिनक्षपार्द्धं दिनार्द्धं रात्र्यर्द्धं च भवति। यत्र देवानां मध्याह्नं रात्र्यर्द्धं तत्र दैत्यानां क्रमेण रात्र्यर्द्धं मध्याह्ने यत्र च दैत्यानां मध्याह्नरात्र्यर्द्धे तत्र देवानां क्रमेण रात्र्यर्द्धमध्याह्ने इति फलितार्थ:। अत्र हेतुमाह। उपरीति। देवदैत्या मेरोरुत्तर दक्षिणाग्रवर्तिनोऽन्योन्यमात्मानं स्वमुपरिभागे ऊर्ध्वभागे कल्पयन्ति अङ्गीकुर्वन्ति। वस्तुतो भूमेर्गोलकत्वेन सर्वत्र तुल्यत्वान्निर-पेक्षोर्ध्वाधोभागयो:। अनुपपत्ते:। यथा च देवा दैत्यापेक्षयोर्ध्वस्थत्वं मन्यमाना दैत्यानध: स्थानङ्गीकुर्वन्ति। दैत्याश्च देवस्थानापेक्षयोर्ध्वस्थं मन्यमाना देवानध: कुर्वन्तीति तात्पर्य्यार्थ:। एवं च देवदैत्ययो: विपरीतावस्था नादिदनरात्र्योर्वैपरीत्यं युक्तमेव इति भाव:।।51।।

अथ देवदैत्ययोरूर्ध्वाधोरीतिमन्यत्रापि सदृष्टान्तमतिदिशति—

अन्येऽपि समसूत्रस्था मन्यन्तेऽध: परस्परम्।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुरस्थिता:।।52।।

अन्ये देवदैत्यभिन्ना भूगोलस्था:। अपिशब्दो देवदैत्ययो: समुच्चयार्थक:। समसूत्रस्था भूव्यासान्तरिता नरा: परस्परमधो मन्यन्ते। तत्रोदाहरति। भद्राश्वकेतुमालस्था इति। भद्राश्वकेतुमालशब्दौ स्वान्तर्गतयमकोटिरोमकनगर विशेषाभिधायकौ स्पष्टभूव्यासान्तरस्थत्वाङ्गीकारे तु यथा श्रुतं परस्परमधो मन्यन्ते तुर्य्यचरणस्तु व्यक्त एव।।52।।

अथोक्तं काल्पनिकमेवेति द्रढयन्नाह—

सर्वत्रैव महीगोले स्व्स्थानमुपरि स्थितम्।
मन्यन्ते खे यतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यध:।।53।।

भूगोले सर्वत्र सर्वप्रदेशेषु मध्ये स्वस्थानं निजाधिष्ठितस्थानमूर्ध्वस्थितं तदधिष्ठिता मनुष्या: स्वाभिमानेनाङ्गीकुर्य्यु:। अत: कारणाद्भूगोले सर्व एव उर्ध्वस्था:। अध: स्थास्तु न भवन्त्येव। स्वापेक्षतयोर्ध्वाध: स्थत्वं न वस्तुत इति तत्वम्। अन्यथाध:स्थत्वेन पतनशङ्कया भूगोले मनुष्याद्यवस्थानानुपपत्ते:। अत्र कारणमाह। ख इति। यत: कारणात् खे ब्रह्माण्डाकाशमध्यभागे भूगोलोऽस्ति। तथाच भूगोलादभितस्तुल्यत्वाद्भूगोले तत्त्वतयोर्ध्वाधोभागादे: असम्भव इति भाव:। स्वाभिप्रायं स्पष्टयति। तस्येति। भूगोलस्य आकाशमध्यस्थस्य समन्तादाकाशे क्व कस्मिन् भाग उर्ध्वमूर्ध्वत्वम्। कस्मिन् भागे। वा समुच्चये। अधोऽधस्त्वम्। अपिरूर्ध्वत्वेन समुच्चयार्थक:। तथाच समन्तात् आकाशस्य तुल्यत्वेन भूमेरूर्ध्वाधोभागौ निर्वचनी कर्त्तुमशक्यौ याम्यामूर्ध्वाधोलोका नियता: स्युरिति भूमेरूर्ध्वाधोभागाद्यसम्भवादिति भाव:।।53।।

ननु इयं भू: समादर्शाकारा प्रत्यक्षा कथं गोलाकारेत्यत आह—

अल्पकायतया लोका: स्वस्थानात् सर्वतो मुखम्।
पश्यन्ति वृत्तामप्येनां चक्राकारां वसुन्धराम्।।54।।

जना: स्वाधिष्ठितप्रदेशात् सर्वत: सर्वदिक्षु। अभिमुखं वृत्तां गोलाकारामेतां प्रत्यक्षां पृथ्वी चक्राकारां मण्डलकारां समां पश्यन्ति। एवकारार्थेऽपिशब्द:। तेन भूमे: वस्तुतो गोलकारत्वेऽपि तदाकारेण अदर्शनं मुकुराकारतया दर्शंन च न विरुद्धम्। अत्र हेतुमाह। अल्पकायतयेति। ह्रस्वशरीरत्वेन इत्यर्थ:। तथाच महती भूस्तत्पृष्ठस्थस्य मनुष्यस्य अति ह्रस्वस्य अल्पदृष्टिप्रचारात् गोलाकारतया न भासते किन्तु सममण्डलतया भासते। गोलवृत्तशतांशस्य समत्वेन भानात्। अन्यथा प्रथमज्यायाश्चापसमत्वानुपपत्तिरिति भाव:।।54।।

अथ निरक्षादिदेशेषु मेरुव्यतिरिक्तान्यदेशेषु दिनरात्र्योर्मानं विवक्षुर्मेरोर-ग्रभागयोर्निरक्षदेशेषु भचक्रभ्रमणमाह—

सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्।
उपरिष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुख: सदा।।55।।

अयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरोरुत्तराग्रवर्तिनां सव्यम्। पूर्वादिक्रममार्गेण इत्यर्थ:। भ्रमति भ्रमपरिवर्तं करोतीत्यर्थ:। दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण। पूर्वोत्तरपश्चिमदक्षिणक्रमेण इत्यर्थ:। नक्षत्राधिष्ठितगोलो भ्रमति। व्यक्षे निरक्षदेशेषु जात्यभिप्रायेण एकवचनम्। उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोल: पश्चान्मुख: पश्चिमदिगभिमुख: सदा नित्यं परिभ्रमति। भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात्। तयोस्तत्र क्षितिजवृत्तस्थत्वाच्च।।55।।

अथ निरक्षे दिनरात्र्योर्मानं कथयन्नन्यत्रापि ततो न्यूनाधिकं मानं भवतीत्याह—

अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा।
हासवृद्धी सदा वामं सुरासुरविभागयो:।।56।।

अतो निरक्षे मस्तकोर्ध्वं भगोलो भ्रमतीति कारणात् तत्र निरक्षदेशे त्रिशंन्नाडिकं त्रिंशद्घटीमितं दिनं स्यात्। शर्वरी रात्रिस्तथा त्रिंशद्धटीपरिमिता स्यात्। तत्क्षितिजवृत्तस्य ध्रुवद्वयसंलग्नतया गोलमध्यस्थत्वाद्दि्नरात्र्योस्तुल्यत्वं युक्तमेव इति भाव:। सुरासुरविभागयो: जम्बूद्वीप-समुद्रादि दक्षिणदेशयो: सदा विषुवत्क्रमणातिरिक्तकाले क्षयवृद्धी दिनरात्र्यो: प्रत्येकं वामं व्यस्तं यथा स्यात तथा ज्ञेयम्। एतदुक्तं भवति। जम्बूद्वीपे दिनह्रासे रात्रिवृद्धिस्तदा दक्षिणदेशे दिनरात्र्यो: क्रमेण वृद्धिहानी। जम्बूद्वीपे दिनवृद्धौ रात्रिहानिस्तदा दक्षिणदेशे दिनरात्र्यो: क्रमेण हानिवृद्धी। एवं दक्षिणदेशे हानिवृद्धयोर्जम्बूद्वीपे वृद्धिहानी दिने रात्रौ वा यथायोग्यमिति। अत्रोपपत्ति:। तत्क्षितिजवृत्तस्य ध्रुवसम्बन्धाभावेन गोलमध्यस्थत्वाभावात् दिनरात्र्यो: सदा विषुवत् दिनव्यतिरिक्तेन तुल्यत्वं किन्तु न्यूनाधिकत्वमहोरात्रस्य षष्टिघटिकात्मकत्वात् इति।।56।।

अथ एतत् श्लोकोत्तरार्द्धार्थं श्लोकाभ्यां विशदयति—

मेषादौ तु दिवावृद्धिरुदगुरुदगुत्तरतोऽधिका।
देवांशे च क्षपाहानिर्विपरीतं तथाऽऽसुरे।।57।।

मेषादौ प्रत्यहमिति पाठान्तरमपि न0प्र0सं0, सदा वृद्धि: इति मूल पाठस्तम, दिवावृद्धिरिति रा0चं0पा0सं0

तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे।
देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्।।58।।

मेषादौ षड्भे उद्गुत्तरगोले सूर्य्ये उत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने तुकारात् यथोत्तरं सूर्यस्योत्तरगमने यथोत्तरं दिने वृद्धि: परमोत्तरगमनात् परावर्तते। यथोत्तरं न्यूनावृद्धिरित्यर्थ:। क्षपाहानी रात्रे: अपचय:। च: समुच्चये। आसुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्यो: क्षयवृद्धी विपरीतं व्यस्तम्। दिने हानी रात्रौ वृद्धिरित्यर्थ:। तुलादौ षड्भे दक्षिणगोले सूर्येरा सति तयोर्जम्बूद्वीपसमुद्रादिदक्षिणभागयो: दिनरात्र्योरुभे द्वे क्षयवृद्धी उपचयापचयौ वामं व्यस्तम्। अयमर्थ:। जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्त:। समुद्रादिदक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौ स्त इति। ननु क्षयवृद्ध्यो: कियन्मितत्वमित्यत: पूर्वोक्तं स्मारयति। देशक्रान्तिवशादि। तद्विज्ञानं तयो:क्षयवृद्ध्योर्ज्ञानं संख्याज्ञानं नित्‍यं प्रत्यहं देशक्रान्तिवशात्। देशपलभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्वखण्डस्पष्टाधिकारे। क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशेद्धृता। त्रिज्यागुणाहोरात्रार्द्धकर्णाप्ता चरजासव:।।

तत्कार्मुकमित्यनेन दिनरात्र्योरर्द्धं उक्तम्। तद्द्विगुणं दिनरात्र्योरित्यर्थसिद्धम्। अत्रोपपत्ति:। निरक्षदेशे ध्रुवद्वयलग्नं क्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोल मध्यस्थमुत्तरध्रुवादधोदक्षिणधुरवाच्चोच्चमित्यत उत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमिति पञ्चदशघटिका निरक्षदेशदिनार्द्धं क्षितिजान्तररूपचरेण गोलक्रमेण युतहीनं दिनार्द्धं रात्र्यर्द्धं च विपरीतम्। एवं दक्षिणभागेऽभीष्टदेशे क्षितिजमुत्तरध्रुवादुन्नतं दक्षिणध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणोर्ध्वाध इत्युत्तरभागात् व्यस्तम्।।57-58।।

अथोक्तस्यावधिदेशं विवक्षु: प्रथमं तदुपयुक्तानि क्रान्त्यंश योजनान्याह—

भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरि स्थित:।।59।।

भूवृत्तं भूपरिधियोजनमानं प्रागुक्तमभीष्ट क्रान्त्यशैर्गुणितं द्वादशराशिभागै: षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनै: कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत उत्तरतो वा याति गच्छति। क्रान्त्यभावे तु निरक्षदेशोपर्य्येव परिभ्रमति। अत्रोपपत्ति:। निरक्षदेशान्मेरोरुत्तरदक्षिणाग्राभिमुखं सूर्य: क्रान्त्यंशैर्गच्छति। तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा क्रान्त्यंशै: कानीत्यनुपातेन इत्युपपन्नम्।।59।।

अथ दिनमानानयनगणितस्यावधि देशज्ञानं श्लोकाभ्यामाह—

परमापक्रमादेवं योजनानि विशोधयेत्।
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तै:।।60।।
अयनान्ते विलोमेन देवासुरविभागयो:।
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा।।61।।

परमक्रान्तिभागाच्चतुर्विंशन्मितात्। एवं पूर्वोक्तरीत्या योजनानि जातानि। भूपरिधे: पूर्वोक्तस्य चतुर्थांशात् परिवर्जयेत्। अवशिष्टानि यानि यत्संख्यामितानि योजनानि भवन्ति तैर्योजनैर्देवासुरविभागयो: निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौ देशौ तयोरित्यर्थ:। अयनान्त उत्तर दक्षिणायनसन्धौ कर्कादिस्थे सूर्य्ये दक्षिणोत्तरायनसन्धौ मकरादिस्थे सूर्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटीषष्ट्याहर्दिनमानं भवति। अस्मिन्नेतादृशे देशे तस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा षष्टिघटीमिता विलोमेन रात्रिर्भवति। अपिशब्दो दिनेन समुच्चयार्थ:। एतदुक्तं भवति। कर्कादिस्थे सूर्य्ये निरक्षदेशादुत्तरतद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशात् दक्षिणतद्योजनान्तरितदेशे षष्टिघटीमिता रात्रि:। मकरादिस्थे सूर्य्ये तादृशोत्तरभागे षष्टिघटीमिता रात्रिर्दक्षिणभागे तादृशे षष्टिमितं दिनमिति। अत्रोपपत्ति:। परमक्रान्तियोजनानि भूवृत्तचतुर्थांशयोजनेभ्यो हीनानि। निरक्षदेशात् तन्मितयोजनान्तरितो यो दक्षिणोत्तर देशस्तस्मान्मेरोर्दक्षिणोत्तराग्रं क्रमेण परमक्रान्ति योजनान्तरितम्। अतस्तत्र लम्बांशाश्चतुर्विंशति: पलांशाश्च षट्षष्टिरिति। तद्देशे क्रान्तिवृत्तानुकारं क्षितिजमित्ययनान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चरमत उक्तरीत्या दिनार्द्धं रात्र्यर्द्धं वा उक्तरीत्या यथायोग्यं त्रिंशत् तद्द्विगुणं षष्टि घटीमिततन्मानं गणितरीत्योपपन्नम्। युक्तं च एतत्। अयनान्ताहोरात्रवृत्तस्य एकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वात् द्विधा संलग्नत्वाभावात् प्रवहभ्रमितसूर्यपरिवर्त्तपूर्ति: षष्टिघटीभिर्दशनमदर्शनं यथायोग्यं तद्गोलस्थित्या प्रत्यक्षसिद्धमेव इति।।60-61।।

अथ उक्तदिनरात्रिमानगणितं तदवधिदेशपर्य्यन्तं दक्षिणोत्तरभागयोर्नाग्र इत्याह—

तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशो:।
परतो विपरीतोऽयं भगोल: परिवर्तते।।62।।

तदन्तरे निरक्षदेशोक्तावधिदेशयो: अन्तरालदक्षिणोत्तरविभागदेशे षष्ट्यन्ते षष्टिघटीमध्ये क्षयवृद्धी अपचयोपचयौ उक्तरीत्या दिनरात्र्यो: यथायोग्यं भवत:। परतोऽवधिदेशात् अग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राद्यधिष्ठितो मूर्त्तो गोलो विपरीतोऽवधिदेशान्तर्गत देशसम्बन्धिगणितविरुद्ध: परिवर्तते भ्रमति। तत्र उक्तरीत्या दिनरात्र्यो: वृद्धिक्षयौ न भवत इत्यर्थ: त्रिज्याधिकाच्चरानयनानुपपत्ते:। चरस्वरूपासम्भवाच्च।।62।।

अथ विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति—

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनै:।
धनुर्मृगस्थ: सविता देवभागे न दृश्यते।।63।।
तथैवासुरभागे तु मिथुने कर्कटे स्थित:।
नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत्।।64।।

द्विराशिज्यया ये क्रान्त्यंशस्तेषां योजनै: पूर्वावगतैर्भूपरिधिचतुर्थांशे हीने कृते सति। तुकारान्निरक्षदेशात् तद्योजनान्तरिते देशे देवभाग उत्तरभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते। धनुर्मकरस्थेऽर्के तेषां रात्रि: सदा स्यादित्यर्थ:। असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे। च: समुच्ययार्थ:। तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते। नष्टच्छायामहीवृत्तपादे। अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे सूर्यस्य दर्शनं सदा कथयेत्। यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थ:। तथाच निरक्षदेशात् तद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते तद्योजनान्तरित दक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यत इति फलितार्थ:। अतएव । त्र्यंशयुङ्नवरसा: पलांशका यत्र तत्र विषये कदाचन। दृश्यते न मकरो न कार्मुकं किञ्च कर्किमिथुनौ सदोदितौ।। इति भास्कराचार्योक्तं संगच्छते।।63-64।।

अथ अन्यत्रापि विपरीतस्थितिं श्लोकाभ्यां दर्शयति—

एकज्यापक्रमानीतैर्योजनै: परिवर्जिते।
भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनै:।।65।।
धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते।
देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये।।66।।

एकराशिज्याया: क्रान्त्यशेभ्यो भूपरिधिचतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टै: योजनै:। तुकारादन्तरिते देशे देवभाग उत्तरभागेधनुर्मकरवृश्चिक कुम्भराशिषु स्थित: सूर्यस्तद्देशवासिभिर्न दृश्यते। असुराणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागे वृषादिके राशिचतुष्टये स्थितोऽर्कस्तद्देशवासिभिर्न दृश्यते। तुकारादुत्तरभागेवृषाचितुष्टय स्थितोऽर्कस्तद्देशवासिभिर्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देशवासिर्दृश्यत इत्यर्थ:। अतएव। यत्र साङ्घ्रिगजवाजिसम्मिता: तत्र वृश्चिकचतुष्टयं न च। दृश्यते च वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते।। इति भास्कराचार्योक्तं च संगच्छते।।65-66।।

अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽवगतमेर्वग्रभागयोरपि स्थितिवैलक्षण्यमाह—

मेरौ मेषादिचक्रार्धे देवा: पश्यन्ति भास्करम्।
सकृदेवोदितं तद्वदसुराश्च तुलादिगम्।।67।।

मेरावुत्तराग्रावस्थिता देवा मेषादिचक्रार्द्धे मेषादिराशिषट्केऽवस्थितमर्कं सकृदेकवारम्। एवकारादनेकवारनिरासनिश्चय:। उदितमदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति। असुरा मेरुदक्षिणाग्रस्था दैत्या:। च: देवै: समुच्चयार्थ:। तुलादिराशिषट्कस्थं तद्वत् सकृदुदितं निरन्तरं पश्यन्ति।।67।।

अथ निरक्षदेशादयनसन्धौ कियदिभर्योजनैरूर्ध्वमर्को भवति तदाह—

भूमण्डलात् पञ्चदशे भागे देवेऽथवाऽसुरे।
उपरिष्टाद्व्रजत्यर्क: सौम्ययाम्यायनान्तग:।।68।।

देवे उत्तरभागे। अथवासुरे दक्षिणभागे। निरक्षदेशाद्भूपरिधे: पञ्चदशे भागे तत्फलयोजनान्तरिते देशे क्रमेण सौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्तस्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्रमति। यथा गोलसन्धौ निरक्षदेशे तथा अत्र भागद्वय इति फलितार्थ:। अत्रोपपत्ति:। अयनान्तस्थे परमक्रान्तिश्चतुर्विंशत्यंशास्तद्योजनानि। भूवृत्तं क्रान्तिभागघ्नं भगणाशविभाजितम्। इत्यत्र चतुर्विंशतिमितगुणभगणांशमितहरौ गुणेनापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशे भाग इत्युक्तमुपपन्नम्।।68।।

अथ निरक्ष देशाद्भूपरिधि पञ्चदशभागपर्य्यन्तं सूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति—

तदन्तरालयोश्छाया याम्योदक् सम्भवत्यपि।
मेरोरभिमुखं याति परत: स्वविभागयो:।।69।।

तदन्तरालयोर्निरक्षदेशात् पञ्चदशभाग मध्यस्थित दक्षिणोत्तर देशयोश्छायाद्वादशांगुलशङ्कोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणाग्रमुत्तराग्रं वा सम्भवति। एतदुक्तं भवति निरक्षदेशात् पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम्। नतांशानामुत्तरत्वे छायाग्रं दक्षिणम्। एवं निरक्षदेशात् पञ्चदशभागान्तरालस्थितदक्षिणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं दक्षिणं दक्षिणस्थत्वे छायाग्रमुत्तरमिति। परत: पञ्चदशभागान्तरालदेशे स्वविभागयो: दक्षिणोत्तर विभागयोर्मेरोरभिमुखं मेर्वग्रयो: सम्मुखं क्रमेण दक्षिणाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थ:। छाया याति गच्छति भवतीत्यर्थ:। अपिशब्द: पूर्वार्द्धार्थेन समुच्चयार्थक:।।69।।

अथ कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्योत्तरं श्लोकाभ्यामाह—

भद्राश्वोपरिग: कुर्याद् भारते तूदयं रवि:।
रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा।।70।।
भारतादिषु वर्षेषु तद्वदेव परिभ्रमन्।
मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्।।71।।

भद्राश्ववर्षोपरिगत: सूर्य्यो भारतवर्षे स्वोदयं कुर्य्यात्। तुकाराद्भद्राश्ववर्षे मध्याह्नं कुर्य्यात्। तदा तस्मिन् काले केतुमालर्षेऽर्द्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्य्यात्। तुकारादुक्तवर्षयोरन्तराले दिनस्य गतं शेषं वा रात्रेश्च तद्यथायोग्यं कुर्य्यादित्यर्थ:। अतिस्थूलदेशग्रहणे यथाश्रुतमिदं भव्यं किञ्चित् सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुराणि अन्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि।

लङ्कापुरेऽर्कस्य यदोदय: स्यात् तदा दिनार्द्धं यमकोटिपुर्य्याम्।

अधस्तदा सिद्धपुरेऽस्तकाल: स्याद्रोमके रात्रिदलं तदैव।। इति भास्कराचार्य्योक्तं भूगोल उक्तनगराणां भूपरिधिचतुर्थांशान्तरत्वात् सङ्गच्छते। अथ भारतादिषु त्रिषु वर्षसंज्ञेषु भारतकेतुमाल कुरुवर्षेष तद्वद्भद्राश्व वर्षोपरिगवत्। एवकारात् तन्यूनाधिकव्यवच्छेद:। परिभ्रमन् परिभ्रमेण स्वस्वाभिमत् स्थानोपरिस्थितिं कुर्वन् सूर्य: प्रदक्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थानादिक्रमेणेति यावत्। उक्त चतुर्वर्षेषु मध्योदयार्द्धरात्र्यस्तकालान्मध्याह्नोदयार्द्धरात्र्यस्तसंज्ञान कालान् कुर्य्यात। एतदुक्तं भवति। भारतवर्षोपरि गतेऽर्के भारतकेतुमालकुरुभद्रश्ववर्षे क्रमेण मध्याह्नसूर्य्योदयार्द्धरात्रास्ता: स्यु:। केतुमालवर्षोपरि गतेऽर्के केतुमाल कुरुभद्राश्व भारतवर्षेषु क्रमेण मध्याह्न सूर्य्योदयार्द्धरात्रास्ता:। कुरुवर्षोपरि गतेऽर्के कुरुभद्राश्वभारतकेतुमालवर्षेषु क्रमेण मध्याह्न सूर्य्योदयार्द्धरात्रास्ता भवन्तीति ।।70-71।।

ननु ग्रहाणां गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनं प्रतिक्षणं च विलक्षणं भासतां परन्तु नक्षत्राणां गत्यभावात् प्रतिक्षणं भ्रमेणैकत्रावस्थाना-भावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न। एवं ध्रुवयो: परिभ्रमस्याप्यभावात् सदा सर्वत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह—

ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यत:।
निरक्षाभिमुखं यातुर्विपरीते नतोन्नते।।72।।

मेरुं मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतो गच्छत: पुरुषस्य ध्रुवोन्नति: क्रमेणोत्तरदक्षिणयोर्ध्रुवयोरौच्च्यं भवति। भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभागवृत्तस्य नति: क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति। निरक्षदेशाभिमुखं गच्छत: पुरुषस्य नतोन्नते पूर्वोक्ते व्यस्ते भवत:। उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छत: पूर्वोक्तस्थानापेक्षयोत्तरध्रुवस्य नतत्वं पूर्वस्थानापेक्षया भचक्रस्योन्नतत्वम्। एवं दक्षिणभागस्थपुरुषस्य निरक्षाभिमुखं गच्छत: पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वं भचक्रस्योन्नतत्वमिति।।72।।

अथ कुत एवमित्यत:। कथं पर्य्येति भगण: सग्रहोऽयं किमाश्रय:। इति प्रश्नस्योत्तरं भचक्रभ्रमणवस्तुस्थितिमाह—

भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलै:।
पर्येत्यजस्त्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्।।73।।

भचक्रं नक्षत्राधिष्ठितमूर्त्तगोलरूपं ध्रुवयोर्दक्षिणोत्तरस्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोलाकारेण प्रतिबद्धं प्रवहानिलै: प्रवहवाय्वंशै: स्वस्वस्थानस्थैराक्षिप्तं स्वस्वस्थानाभिघातं प्राप्तं सदजस्रं निरन्तरं पर्य्येति। पश्चिमाभिमुखं भ्रमतीत्यर्थ:। ननु नक्षत्रचक्रं वायुना भ्रमति ग्रहास्त्वधोऽध:स्था: सम्बन्धाभावात् कथं भ्रमतीत्यत आह। तन्नद्धा इति। ग्रहाणां शन्यादीनां कक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गताकाशस्था यथाक्रमधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे वायुसूत्रेण निबद्धा अतो भचक्रेण सह भ्रमन्ति। तत्रस्था ग्रहा अपि भ्रमन्तीति किं चित्रम्। तथाच प्रवहवायुगोलमध्यस्थविषुवद्वृत्तपूर्वापरनिरक्षदेशे ध्रुवयो: क्षितिजस्थत्वाद् भचक्रस्य मस्तकोपरि भ्रमणाच्च मेर्वग्राभिमुखं प्रयातुर्ध्रुव उच्चो भवति। तत आसन्नत्वाद्भचक्रं नतं भवति। ततो दूरत्वादिति सर्वं युक्तम्।।73।।

उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि। स हि भ्रमन् भ्रामयते नित्यं चन्द्रादित्यौ ग्रहै: सह।। अथ पित्र्यं मासेन भवतीति प्रश्नयोरुत्तरमाह—

सकृदुद्गतमब्दार्धं पश्यन्त्यर्क सुरासुरा:।
पितर: शशिग: पक्षं स्वदिनं च नरा भुवि।।74।।

यथा देवदैत्या एकवारमुदितं सूर्य्यं सौरवर्षार्द्धपर्य्यन्तं पश्यन्ति। तथा पितरश्चन्द्रविम्बगोलोर्ध्वस्थिता: पक्षं पञ्चदशतिथिपर्य्यन्तं पश्यन्ति। तथा पितरश्चन्द्रगोलार्ध्वस्थिता: पक्षं पञ्चदशतिथिपर्य्यन्तं पश्यन्ति। नरा भूमौ स्वदिनपर्य्यन्तमर्कं पश्यन्त्यत:। पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्। इति सर्वं युक्तमेव। विधूर्ध्वभागे पितरो वसन्त: स्वाध: सुधादीधितिमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद्द्युदलं तदैषाम्। भार्द्धान्तरत्वान्न विधोरध: स्थं तस्मान्निशीथ: खलु पौर्णमास्याम्। कृष्णे रवि: पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्‌।

इति भास्कराचार्य्येण विस्तीर्य्योक्तं सङ्गच्छते।।74।।

अथ प्रसङ्गादूर्ध्वस्थस्याल्पभगणानामध:स्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थं प्रथमं कक्षाया ऊर्ध्वाध: क्रमेण महदल्पत्वं तत्रस्थभागानां महदल्पप्रदेशत्वं च आह—

उपरिस्थस्य महती कक्षाऽल्पाऽध: स्थितस्य च।
महत्या कक्षया भागा महान्तल्यास्तथाल्य या।।75।।

उर्ध्वस्थस्य ग्रहस्य कक्षा वायुवृत्तमार्गरूपा महती महापरिधिप्रमाणा। अध:स्थस्य ग्रहस्य कक्षाल्पाल्पपरिधिप्रमाणा। चो निश्चयार्थे। लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चान्तर्गतलघुकक्षात्वेन उर्ध्वाध:स्थयो: महदल्पपरिधिके कक्षे। अन्यथोक्तं स्वरूपानुपपत्ते:। एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थलात्मका लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मका: क्रमेण एकैकभागप्रमाणमधिकाल्पं न समं चक्रांश पूर्त्यनुपत्तेरिति तात्पर्य्यम्।।75।।

अथ ऊर्ध्वाध: क्रमेण ग्रहभगण भोगकालयो: महदल्पत्वमाह—

कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रित:।
ग्रह: कालेन महता मण्डले महति भ्रमन्।।76।।

अल्पभ्रमणं परिधिमानं यस्या: साल्पभ्रमणाध: स्थकक्षा। तत्स्थो ग्रहोऽल्पेन समयेन भगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते। महति मण्डले। ऊर्ध्वस्थ कक्षयामित्यर्थ:। भ्रमन् गच्छन् महता बहुना समयेन द्वादशराशीन् भुङ्क्ते। वक्ष्यमाण योजनगतेरभिन्नत्वात्।।76।।

अथ अतएवोर्ध्वाध: क्रमेण ग्रहयो: भगणास्तुल्यकालेऽल्पा बहवो भवन्तीति सोदाहरणमाह—

स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधिति:।
महत्या कक्षया गच्छन् तत: स्वल्पं शनैश्चर:।।77।।

स्व्ल्पप्रमाणया कक्षया। तुकारादतिक्रामंश्चन्द्रो बहुप्रमाणान् भगणान् बहुवारं द्वादशराशीनित्यर्थ:। भुङ्क्ते। महाप्रमाणया कक्षया गच्छन शनिस्ततश्चन्द्रात् स्वल्पं भगणमल्पप्रमाणान् भगणान्। जात्यभिप्रायेण एकवचनम्। अल्पवारं द्वादशराशीन् भुङ्क्ते। अतएव शनैश्चर इति।।77।।