SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ राशीन् नक्षत्राणि च आह—
पुनर्द्वादशधाऽऽत्मानं व्यमजद् राशिसंज्ञकम्।
नक्षत्ररूपिणं भूय: सप्तविंशात्मकं वशी।।25।।
पुनरनन्तरमात्मानं द्वादशधा द्वादशस्थानेषु राशिसंज्ञकं व्यमजत्। मन: कल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोत् इत्यर्थ:। भूयो द्वितीयवारमात्मानं नक्षत्ररूपिणं सप्तविंशात्मक व्यमजत् मन: कल्पितं तदेव वृत्तं सप्तविंशतिविभागं च अकरोदित्यर्थ:। ननु न्यूनाधि विभागा: कथं न कृता उक्तसंख्यायां नियामकाभावात् इत्यत आह। वशीति। इच्छाविषयं वशं विद्यते यस्येति वशी सप्तन्त्रेच्छस्य नियोगानर्हत्वात्। स्वेच्छया तत्संख्याका विभागा: कृता इति भाव:। सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि तारात्मकानि निर्मितानि इत्यर्थसिद्धम्।।25।।
अथ चराचरं जगदकरोदित्याह—
ततश्चराचरं विश्वं निर्ममे देवपूर्वकम्।
उर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्य: प्रकृती: सृजन्।।26।।
तत: स चक्रग्रहसर्जनानन्तरमूर्ध्वमध्याधरेभ्य: श्रेष्ठमध्याधमेभ्य: स्त्रोतोभ्यो व्यक्तिभ्य: प्रकृती: सत्वरजस्तमोविभेदात्मक प्रकृती: सृजन् निर्मायन् देवपूर्वकं देवमनुष्यासुरादिकं विश्वं जगच्चराचरं चेतनाचेतनात्मकं निर्ममे कृतवान्।।26।।
अथ रचितपदार्थानामवस्थानं कृतवानित्याह—
गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात्।
विभागं कल्पयामास यथास्वं वेददर्शनात्।।27।।
गुणा:सत्वरजस्तमोरूपा। कर्म पूर्वजन्मार्जितं सदसत कर्म। अनयोर्विभागेन एकीकरणात्मकेन प्राग्वच्चन्द्रसूर्य्यादि प्रागुक्तसृष्टिरित्यनुक्रमात् सृष्ट्वा देवमनुष्यासुरभूमिपर्वतादिकचरा चरसर्जनं कृत्वा वेददर्शनात् वेदोक्तप्रकारात् यथास्वं यथादेशं यथाकालं विभागमवस्थानविभागं कल्पयामास कृतवान्।।27।।
कोषामित्यत आह—
ग्रहनक्षत्रताराणां भूमेविर्श्वस्य या विभु:।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्।।28।।
विभुर्नियोजनसमर्थो ब्रह्या ग्रहनक्षत्रयोर्विम्बानां पृथिव्यास्त्रैलोक्यस्य। वाकार: समुच्चये। आकाशेऽवस्थानं कृतवान्। तत्र ग्रहनक्षत्राणां यथाकालम् अनियतावस्थानम्। पृथिव्यास्तु नियतावस्थानम्। पृथिव्यां तु त्रैल्ज्ञैक्यस्य यथादेशमवस्थानम्। तत्र यथाक्रमं यथायोग्यं देवासुरमुनष्याणां सिद्धानाम्। च: समुच्चये। अवस्थानं यथा देशं कृतवान्।।28।।
ननु सर्वत्र आकाशस्य सत्वाद् ब्रह्मणा ग्रहनक्षत्राणां भूमेश्च अवस्थानं ब्रह्माण्डवहिराकाशे कृतमथवा ब्रह्माण्डान्तराकाशे कृतमित्यत आह—
ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम्।
कटाहद्वितयस्यैव सम्पुटं गोलकाकृति:।।29।।
एतत् प्रागुक्तं ब्रह्यणाधिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं तत्र अवकाशे इदं जगत् भूर्भुवादिकं भुर्भुव: स्वर्गात्मकमवस्थितं न बहि:। ननु अण्डस्य गोलाकारत्वेनान्तरवकाशात्मकत्वम् असम्भवतीत्यत आह। कटाहद्वितयस्येति। कटोहाऽर्द्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं समं तस्य। एवकारो न्यूनाधिकव्यवच्छेदकार्थ:। सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्गेलाकार: स्यात्। तथा च न क्षति:।।29।।
अथ ब्रह्माण्डान्त: परिधिं वदन् तदन्तर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति श्लोकाभ्यामाह—
ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधीयते।
तन्मन्ध्ये भ्रमणं भानामधोऽध: क्रमशस्तथा।।30।।
मन्दामरेज्य-भूपुत्र-सूर्य-शुक्रेन्दुजेन्दव:।
परिभ्रमन्त्यधोऽध:स्था: सिद्धविद्याधरा घना:।।31।।
ब्रह्माण्डात: परिधिस्तुल्यवृत्तमानं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते। तन्मध्ये ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वत्तस्तुल्योर्ध्वान्तरितानां भ्रमणं भवति। तथा तुल्योर्ध्वान्तरेण अधो नक्षत्रेभ्योऽधोध: क्रमात् शनिबृहस्पतिभौमार्कशुक्रबुधचन्द्रा अधस्तात् परिभ्रमन्ति। सिद्धा विद्याधराश्च अधस्थाश्चन्द्रात् अधस्थिता अधोऽध: क्रमेण आकाशे स्थिता:। एषां प्रवहवायौ अवस्थानाभावाच्चन्द्रवन्न परिभ्रम:।।30-31।।