-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ पाताधिकार:- 11


गण्डान्तभसन्धी । Gandantabhasandhi

अथ प्रसङ्गादेतत् तुल्यनिषिद्धे गण्डान्तभसन्धी विवक्षु:तयो: स्वरूपज्ञानमाह—

सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्या: पादा भसन्धय:।
तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते।।21।।

आश्लेषाज्येष्ठा रेवती नक्षत्राणाम् अन्त्या: चतुर्थाश्चरणा: नक्षत्रसन्धयो भवन्ति। तदग्रभेषु तेषामाश्लेषाज्येष्ठारेवतीनक्षत्राणाम् अग्रिमनक्षत्रेषु मघामूलाश्विनीनक्षत्रेषु इत्यर्थ:। प्रथमचरणो गण्डान्तं नाम प्रसिद्धमुच्यते। यद्यपि आश्लेषाज्येष्ठारेवतीनक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणाम् आदिमं घटिकाद्वयम् इति चतस्रोऽन्तरघटिका गण्डान्तम्। एतदतिरिक्तो नक्षत्रसन्धि:। पूर्वनक्षत्रान्तरघटिकोत्तरनक्षत्रादिमघटिकेत्यन्तरालघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन घटिका: सार्द्धद्वयमिति संहिताविरूद्धं तथापि सूर्योक्तस्य स्वत: प्रामाण्यान्न क्षति:। अथवा एकवाक्यतार्थं पादशब्द:। करनेत्रादिवत् द्विसंख्यावाचक:। घटिका इत्यध्याहारश्च। तथा च द्विसंख्यामिता अन्त्यघटिका नक्षत्रसन्धय:। प्रथमद्विघटिकामित: कालो गण्डान्तमित्यर्थ:। अत्रापि गण्डान्तत्वात् भसन्धिकथनमयुक्तं गण्डान्तस्य तदन्तरालरूपत्वात् तथापि तत्कालस्य निषिद्धत्वोक्ति तात्पर्याद्विभागद्वयेन उक्तौ अपि तदन्तरालकाल उत्तरोत्तरकालस्य अतिनिषिद्धत्वसूचनान्न क्षति:।।21।।

अथ एतदधिकारोक्तानां तुल्यनिषिद्धत्वमाह—

व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा।
एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत्।।22।।

व्यतीपातानां त्रयं योगवियोगात्मकौ क्रान्तिसाम्यरूपौ द्वौ व्यतीपातौ विषुवत्सन्निधौ क्रान्तिसाम्यान्तरेण व्यतीतपातस्तयोरेव भेद:। न पृथक्। पञ्चाङ्गान्तर्गतव्यतीपातश्चेति त्रयं स्पष्टम्। उपलक्षणात वैधृतित्रयमपि। योगवियोगात्मकौ क्रान्तिसाम्यरूपौ द्वौ वैधृतिसंज्ञौ। विषुवत्सन्निधौ क्रान्तिसाम्यान्तरेण। वैधृतिसंज्ञस्तु तयोरन्तर्गत:। न पृथक्। पञ्चाङ्गान्तर्गतयोगान्तर्गतवैधृतियोगश्चेति स्पष्टं त्रयम्। केचित्तु व्यतीपातवैधृतिसंज्ञं व्यतीपातद्वयं संज्ञाभेदेन वैधृतिरिति पूर्वमुक्ते: पञ्चाङ्गान्तर्गतयोगान्तर्गतव्यतीपातश्चेति व्यतीपातत्रयमिति यथा श्रुतमाहु:। घोरं दुष्टं गण्डान्तत्रयम्। तथा घोरं नक्षत्रसन्धित्रयम्। एतत् पूर्वोक्तं घोरम्। अत: कारणात् सर्वमाङ्गल्यकर्मसु शुभेच्छुरेतद् दुष्टं जह्यादित्यर्थ:।।22।।

अथ अर्काशंपुरुष: शिष्टावशिष्टं स्ववाक्यमुपसंहरति—

इत्येतत् परमं पुण्यं ज्योतिषां चरितं हितम्।
रहस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि।।23।।

हे मय। तुभ्यमिति। एवमेतत्। श्रृणुष्व एकमना इत्यादि सर्वकर्मसु वर्जयेदित्यन्तम्। ज्योतिषां ग्रहनक्षत्रादीनां चरितं महात्म्यं गणितादिज्ञानमिति यावत्। हितमिह लोके कीर्तिकरम्। परमं पुण्यं परत्र लोक उत्कृष्टं धर्म्यम्। अतएव महत् रहस्यम्। अतिगोप्यमाख्यातं मया कथितम्। अथ स्वोक्तं युक्त्यप्रतिपादितमेतस्य मनसि निश्चितार्थं न आगतम् इति तदधरोष्ठस्फुरणदर्शनादनुमितं च अस्मै मत्सङ्कोचेन स्वाशङ्कोद्घाटनाशक्तायैतत्प्रश्नप्रतीक्षावसाने मया युक्त्यपि वक्तव्यमित्याशयेन आह। किमिति। अत: परं त्वमन्यत् उक्तातिरिक्तं किं कतरत् श्रोतुं ज्ञातुमिच्छसि। तथा च मया तुभ्यं पूर्वमुक्तं तत्र यत्र यत्र तव संशयस्तत्र तत्र मत्सङ्कोचमुपेक्ष्य मां प्रति प्रश्नस्त्वया कार्य:। तव समाधानं करिष्यामीति भाव:।।23।।