-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ पाताधिकार:- 11


पातकालस्य शुभत्वम्‌। Patakalasya shuvatyam

ननु अयं केवलं मङ्गलनाशको न शुभकारक इत्यत आह—

स्नानदानजपश्राद्धव्रतहोमोदिकर्मभि:।
प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा।।18।।
‘कर्मसु इति पाठान्तरमपि बलदेव प्र0मि0सं0 प्राप्यते’

व्रतं स्वाभिमतदेवताराधनम्। आदिपदाद्धर्मान्तरम्। इत्यादिपुण्यक्रियाभिस्तत्कालकृताभि: सुतरामुत्कृष्टं कल्याणं मनुष्यैर्लभ्यत्ते। तस्य पातस्य स्थित्यादिकालज्ञानात्। तथा समुच्चये। तेन महच्छ्रेय: प्राप्यत इत्यर्थ:।।18।।

अथ पातविशेषमाह—

रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा।
द्विर्भवेद्धि तदा पात: स्यादभावो विपर्ययात्।।19।।

यदा यस्मिन् काले विषुवन्निकटे क्रान्त्यभावासन्ने। अत्र चन्द्रस्य स्पष्टक्रान्त्यभावासन्नत्वं ध्येयम्। सूर्यचन्द्रयो: क्रान्त्यो: समता भवति। तदा तस्मिंस्तदासन्नकाले स्थूलरूपे क्रान्त्यभावात् उभयत्र द्विर्वैधृतव्यतीपातभेदद्वयात्मक:पात:। द्वि: प्रत्येकं द्विधा वारद्वयं भवेत्।। विपर्ययात् उक्तव्यत्यासात्। चान्द्रायणसन्निधिनिकटे तयो: क्रान्त्योस्तुल्यत्व इत्यर्थ:। अत्र अतुल्यत्त्वं सूर्यक्रान्तितश्चन्द्रस्पष्टक्रान्ते: न्यूनत्वमेव न अधिकत्वमिति ध्येयम्। अभाव: क्रान्तिसाम्यरूपपातस्य तस्मिन् स्थूलकाले किञ्चिन्मितेऽनुत्पत्ति: स्यात्। एतेन। स्वायनसन्धाविन्दो: क्रान्तिस्तत्कालभास्करक्रान्ते:। ऊना यावत् तावत् क्रान्त्यो: साम्यं तयोर्नास्ति।। इति भास्कराचार्योक्तं सङ्गच्छते। तत्साधनं तु प्रथमागतचापान्तरादिष्टांशाश्चन्द्रे युता हीना इति प्रत्येकमसकृत्क्रियया द्विधा पातकालस्य ज्ञेयम्। अत्रोपपत्ति:। व्यतीपाते विषुवदवृत्तात् उभयस्तुल्यान्तरेण सूर्यचन्द्रयो: अवस्थितिकालेऽपि पातत्वम्। क्रान्तिसाम्यादेव वैधृतेऽपि एकाहोरात्रवृत्तस्थत्वकाले पातत्वम्। एवमेव वियोगव्यतीपातवैधृतयोरपि एकाहोरात्रवृत्तस्थत्वे विषुवद्वृत्तात् उभयतस्तुल्यान्तरावस्थितौ च पातत्वम्। क्रान्तिसाम्यादियुक्तं गोलसिद्धं चन्द्रगोलसन्धिनिकटे प्रत्यक्षम्। अभावोपपत्तिस्तु चन्द्रस्य स्वायनसन्धौ तत्स्पष्टक्रान्तितुल्यं परमं विषुवद्वृत्तात् दक्षिणोत्तरं गमनं भवति अस्माद् अग्रे पृष्ठे वा विक्षेपवृत्ते भ्रमतश्चन्द्रस्य क्रान्ति: न्यूनैव सम्भवति। अत: स्वायनसन्धिस्थ चन्द्रकालिकसूर्यक्रान्ति: स्वायनसन्धिस्थचन्द्रस्पष्टक्रान्तेरधिका तदेष्टचन्द्रक्रान्तेर्न्यूनत्वेन अधिकसूर्येष्टक्रान्त्या समत्वानुत्पत्ति:। सूर्यस्य चन्द्राल्पगमनत्वात् क्रान्त्यपचयस्यापि चन्द्रकान्त्यपचयाल्पत्व सम्भवात्। सूर्यक्रान्त्युपचये तु सुतरां तदसम्भव:। एवं तत्रत्यसूर्यक्रान्तिर्न्यूना तदापचयाधिक्यात् चन्द्रस्पष्टक्रान्तिस्तत्समा तदुत्तरपूर्वकाले सम्भवति। सूर्यक्रान्त्युपचये तु सुतराम्। तथाच द्वितीयरविगोलसन्ध्यासन्ने चन्द्रपाते स्वायनसन्ध्यासन्ने सूर्ये तदसंभव: कियंति चिद्दिनानि इति यावत्तवदुक्तमन्यत्र सत्संभावना भवतीति गोलयुक्त्या फलितम्। अथ असम्भवलक्षणेऽपि क्रान्त्यन्तरस्य मानैक्यखण्डात् अल्पत्वे। एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्। इति पूर्वोक्तेन पातसम्भव:। तत्र पातमध्यं तस्मिन्नेव काले स्थित्यर्द्धं तु रवीन्दुमानयोगार्द्धमित्युक्तरीत्या मानयोगार्द्धमितिस्थाने क्रान्त्यन्तरमानैक्यखण्डयो: अन्तरं गृहीत्वा साध्यमिति ध्येयम्।।19।।