SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ एतत् ज्ञानस्य प्रयोजनं किमित्यत: पातस्थितिकालो मङ्गलकृत्ये निषिद्ध इत्याह—
आद्यन्तकालयोर्मध्य: कालो ज्ञेयोऽतिदारुण:।
प्रज्वलज्ज्वरलनाकार: सर्वकर्मसु गर्हित:।।16।।
एकायनतं यावदर्केन्द्वोर्मण्डलान्तरम्।
सम्भवस्तावदेवास्य सर्वं कर्मविनाशकृत्।।17।।
एककाष्ठगतं इति पाठान्तरयपि बलदेव प्रसाद मिश्रस्य संस्करणे प्राप्यते। पातस्यारम्भ समाप्तिसमययो: अन्तरालवर्ती समय: अत्यन्तं कठिन:। सर्वेषु मङ्गल-कृत्येषु निन्दितो ज्ञेय:।
अत्र हेतुगर्भं विशेषणमाह। प्रज्वलज्जवलनाकार इति। देदीप्यमानाग्निस्वरूप: तथा च कृतं मङ्गलकृत्यं भस्मावशेषं स्यात् इति भाव:
।।16।।
सूर्यचन्द्रयो: मण्डलान्तरं प्रत्येकं विम्बैकदेशरूपं यावद्यत्कालपर्यन्तमेकायनगतं तुल्यमार्गस्थितं भवति। तावत् तत्कालपर्यन्तम्। एवकारो न्यूनाधिकव्यवच्छेदार्थक:। अस्य पातस्य। सकलशुभकर्मणामाचरितानां नाशकारी। सम्भव उत्पत्ति:। स्थितिरिति यावत्। न क्रान्तिसाम्यमात्रं स्थितिरलक्ष्यत्वात्। तथाच विषुवद् वृत्तादुभयत एकतो वा चन्द्रार्कविम्बैकदेशयो: कयोरपि तुल्यान्तरेण यावदवस्थानं केन्द्रावस्थानाभावेऽपि विम्बसम्बन्धात् पातास्थिति:। अतएव। तावत् समत्वमेव क्रान्त्योर्विवरं भवेद्यावत्। मानैक्यार्द्धादूनं साम्याद्विम्बैकदेशजक्रान्त्यो:।। इति भास्कराचार्योक्तं युक्ततरमिति भाव:।।17।।