-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ पाताधिकार:- 11


पातकालस्य स्थित्यर्धम् । Patakalsya sthityardham

अथ पातकालस्य स्थित्यर्द्धानयनमाह—

रवीन्दुमानयोगार्धं षष्ट्या संगुण्य भाजयेत्।
तयोर्भुक्त्यन्तरेणाऽऽप्तं स्थित्यर्धं नाडिकादि तत्।।14।।

सूर्यचन्द्रयो: चन्द्रग्रहणाधिकारोक्तप्रकारेण ये विम्बपमानकाले स्वस्वगतिकलोत्पन्ने तयो: ऐक्यस्यार्द्धं षष्ट्या गुणयित्वा सूर्यचन्द्रयो: कलात्मकस्पष्टगत्योरन्तरेण भजेत्। यत् लब्धं तद्घटिकादिकं स्थित्यर्द्धं पातकालात् पूर्वमपरत्र च स्थित्यर्द्धकालपर्यन्तं पातस्य अवस्थानमित्यर्थ:। अत्रोपपत्ति:। सूर्यचन्द्रविम्बकेन्द्रयो: एकद्युरात्रवृत्तस्थत्वे विषुवद्वृत्तादुभयतस्तुल्यान्तरत्वे वा पातमध्यं केन्द्रसाम्याद्विषुवद् वृत्तात् क्रान्तिसूत्रस्थो मण्डलपरिधिप्रदेशो य आसन्न: स विम्बपृष्ठप्रान्त: दूरस्थस्तु बिम्बाग्रप्रान्त:। याम्योत्तरगमनेन पातस्य उक्ते:। तत्र शीघ्रविम्बाग्र प्रान्तमन्दपृष्ठविम्बप्रान्तयो: तथात्वे पातारम्भ: सूर्यबिम्बाग्रप्रान्तचन्द्रविम्बपृष्ठप्रान्तयो: तथात्वे पातान्त:। अत आद्यन्तकालाभ्यां क्रमेण पूर्वोत्तरकालयोश्‍चन्द्रार्कविम्बान्तर्गतप्रदेशानां केषामप्युक्तरूपस्थितित्वाभावेन सूर्यचन्द्रयो: तथाभावात् पाताभाव इत्यादिकालमारभ्यान्तकालपर्यन्तं सूर्यचन्द्रयो: तथात्वात् पातस्थिति:। पातमध्यकाले क्रान्त्यन्तराभाव:। पाताद्यन्तकालयो: मानैक्यार्द्धतुल्यं क्रान्त्यन्तरम्। तेन तत्तुल्यान्तरस्यापचयकाल उपचयकालश्चाद्यन्तस्थित्यर्द्धे। तत्र तत्कालानयनं सूर्यचन्द्रगत्यन्तरेण षष्टिघटिकास्तदा मानैक्यखण्डकलाभि: का इत्यनुपातेन उक्तमुपपन्नम्। यद्यपि प्रमाणेच्छयो: समजातित्वाभावात् अनुपातोऽसङ्गत: क्रान्तेर्दक्षिणोत्तरान्तरस्यो पचयापचयो: सूर्यचन्द्र गत्यन्तरस्य पूर्वापरान्तरस्योपचयापचयाभ्याम् अतिविलक्षणत्वात्। तथापि गणितलाघवार्थं भगवता स्वल्पान्तरत्वेनानुपातो लोकानुकम्पया अङ्गीकृत इत्यदोष:। भास्कराचार्यैस्तु। मानैक्यार्द्धं गुणितं स्पष्टघटीभिर्विभक्तमाद्येन। लब्धघटीभिर्मध्यादादि: प्रागग्रतश्च पातान्त:।। इति युक्तमुक्तम्। केचित् तु षष्टिघटिकाभि: ग्रहान् प्रचाल्य क्रान्ति: स्पष्टा साध्या। प्रत्येकं तयोरन्तरं योगो वा गत्यन्तरमिति भास्कराभिमतमाहु:।।14।।