-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ पाताधिकार:- 11


पातकालस्य गतगम्यत्वसाधनम् । Patakalsya gatagamyatyasadhanam

अथ क्रान्तिसाम्यं पात इति स्पष्टं कथयन् तत्कालज्ञानार्थं साधितक्रान्तिसाम्य सम्बन्धि चन्द्रासन्नार्द्धरात्रात् पातकालस्य गतगम्यत्वमाह—

क्रान्त्यो: समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ।
हीनेऽर्धरात्रिकाद् यातो भावी तात्कालिकेऽधिके।।12।।

सूर्यचन्द्रयो: स्पष्टक्रान्त्यो: साम्ये स्पष्ट: पात: स्यात्। अथ अनन्तरम्। स्पष्टपातसम्बन्धी साधितचन्द्र:पूर्वानुसन्धानेन आपाततो यद्दिनीयो भवति तदासन्नार्द्धरात्रकाले स्पष्टचन्द्रो मध्यस्पष्टाधिकारोक्तप्रकारेण साध्य:। तस्मादर्द्धरात्रकालिकाच्चन्द्रात् प्रक्षिप्तांशोनिते क्रान्तिचापान्तरेण तदर्द्धेन वा युतोनिते चन्द्रे स्पष्टक्रान्तिसाम्यसम्बद्धसाधितचन्द्रे न्यूने सति तदर्द्धरात्रकालात् पातकालो गत:। तात्कालिके क्रान्तिसाम्यकालिकसाधितचन्द्रे अर्द्धरात्रिकालिकचन्द्राधिके सति तदर्धरात्रकालात् पातकाल एष्य इत्यर्थ:। अत्रोपपत्ति:। यद्यपि स्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रमध्यक्रान्तिसाम्यकालिकचन्द्राभ्यां वक्ष्यमाणप्रकारेण पातकालस्य मध्यक्रान्तिसाम्यकालात् गतैष्यघट्यादिज्ञानं भवतीति निकटार्द्धरात्रिकचन्द्रात् तत्साधनं पुनस्तत् गतैष्यकथनं च गौरवम्। आर्द्धरात्रिकस्पष्टचन्द्रसाधनक्रियाधिक्यात्। तथापि चन्द्रगतेरतिमहत्वेन प्रतिक्षणं गतेर्बह्वन्तरेणान्यादृशशत्वात् बहुकालान्तरे बहुकालान्तरितस्पष्टगत्यानीतघट्यात्मकस्याति स्थूलत्वात् आसन्नकाले स्पल्पान्तराच्च आसन्नार्द्धरात्रिक: स्पष्टचन्द्रो ग्रन्थोक्त: स स्पष्टगतिकोऽवश्यमपेक्षित:। अतस्तस्माच्चन्द्रात् स्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रस्य न्यूनाधिकत्वे क्रमेण तदर्द्धरात्रात् स्पष्टपातो गतैष्य इति सम्यगुक्तम्। अतएव। “समीपतिथ्यन्तसमीपचालनं विधोस्तु तत्कालजयैव युज्यते।।“ इति भास्कराचार्योक्तं सङ्गच्छते।।12।।