SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ गतैष्यकालानयनं विवक्षु: प्रथमं स्पष्टक्रान्तिसामान्यानयनप्रकारं श्लोकत्रयेण आह—
क्रान्त्योर्ज्ये त्रिज्ययाऽभ्यस्ते परक्रान्तिज्ययोद्धते।
तच्चापान्तरमर्धं वा योज्यं भाविनि शीतगौ।।9।।
(त्रिज्यया भिन्ने इति पाठ: ब0प्र0मि0 संस्करणे)
शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम्।
चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत् फलम्।।10।।
तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात्।
कर्मेतदसकृत् तावद् यावत् क्रान्ती समे तयो:।।11।।
सूर्यचन्द्रयो: साधितक्रान्त्योर्ज्ये कार्ये ते त्रिज्यया गुणिते। पराक्रान्तिज्यया। परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दव: इति पूर्वोक्तपरमक्रान्तिज्यया इत्यर्थ:। भक्ते। तयो: फलयो: धनुषी कार्ये। चन्द्रस्य यदा त्रिज्याधिकं फलं तदोक्तप्रकारेण धनुषोऽसम्भवात् त्रिज्यया नवत्यंशास्तदेष्टज्यया क इत्यनुपातेन धनु: कार्यमथवा त्रिज्यातो यदधिकं तदुत्क्रमधनुषा युक्ताश्चतु: पञ्चाशच्छतकला धनु: स्यात् इति ध्येयम्। तयो: अन्तरम् अर्द्धम्। अन्तरार्द्धम्। वा विकल्पार्थक:। अथवा विषयव्यवस्थार्थक:। सा तु यदान्तरमल्पं तदान्तरम्। यदा तु बह्वन्तरं तदान्तरार्द्धं ग्राह्यमिति। भाविनि भविष्यत्पाते। चन्द्रे राश्यात्मके। तत्कलात्मकं युक्तं कार्यम्। गते पाते सति। चन्द्राद्धीनं कार्यं चन्द्र: स्यात्। सूर्यसाधनमाह। तदिति। चन्द्रसम्बन्धिसंस्कृतफलम्। स्पष्टसूर्यगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं फलं कलादिकं चन्द्रवत्। चन्द्रयुतहीनक्रमेण सूर्ये युतहीनं कार्यं सूर्य: स्यात्। चन्द्रपातसाधनमाह। तद्वदिति। चन्द्रपातस्य फलं कलादिकम्। तद्वत्। चन्द्रफलं पातगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं विपर्ययात् व्यत्यासात्। देयं संस्कार्यम्। चन्द्रयुतहीनक्रमेण चन्द्रपाते हीनयुतं कार्यम्। चन्द्रपात: स्यात्। उक्तक्रियातिदेशमाह। कर्मेति। एतत्। उक्तं कर्मगणितक्रियारूपम्। असकृत् अनेकवारम्। साधितसूर्यात्। सूर्यक्रान्तिं प्रसाध्य साधितचन्द्रपाताभ्यां चन्द्रस्पष्टक्रान्तिं प्रसाध्य ताभ्यां क्रान्तिभ्यां क्रान्त्योर्ज्ये इत्यादिना चापान्तरं तदर्द्धं वा तत्क्रान्तिभ्यामवगतगतैष्यपातलक्षणवशात्। द्वितीयचन्द्रे हीनयुतं तृतीयचन्द्र: स्यात्। आद्यसूर्यचन्द्रगतिभ्याम् अवगतसूर्यपातफलं द्वितीयसूर्य पातयो: यथोक्तं संस्कृतं तृतीयसूर्यपातौ। एभ्य: सूर्यचन्द्रपातेभ्य: सूर्यचन्द्रक्रान्तिभ्यां साधिताभ्यां चापान्तरं तदर्द्धं वा तृतीयचन्द्रे तत् क्रान्त्यवगतगतैष्यपातवशात् संस्कृतं चतुर्थचन्द्र: स्यात्। आद्यसूर्यचन्द्रगत्यवगतस्वफलसंस्कृतौ तृतीयसूर्यपातौ चतुर्थसूर्यपातौ स्त:। एवमेभ्य: पञ्चमाश्चन्द्रसूर्यपाता उक्तरीत्या साध्या इत्युत्तरोत्तरं मुहु: साध्या इत्यर्थ:। अवधिमाह। तावदिति। यावद्यदवधि तयो: सूर्यचन्द्रयो: क्रान्ती स्पष्टक्रान्तितुल्ये स्त: तावत् तदवधि क्रिया कार्या इत्यर्थ:। अत्रोपपत्ति:। मध्यमक्रान्तिसाम्यरूपपातकालिकस्पष्टक्रान्तिभ्यां स्पष्टक्रान्तिसाम्यरूपं वस्तुभूतपातकालो गतैष्यत्वेन ज्ञातोऽपि विशेषतस्तत्कालज्ञानार्थं सूर्यचन्द्रयो: क्रान्ती समे स्पष्टे उपपन्ने कार्ये। तत्र मध्यपातकालाद्गतैष्यपातवशाद् अभीष्टकाले चन्द्रसूर्यपातान् प्रसाध्य तयो: क्रान्ती साध्ये। एवं साधितक्रान्त्योर्यदैवातुल्यत्वं तदैव स्पष्टपात:। अथ अनियमात् प्रथमं पूर्वाग्रिमकाले चन्द्रसाधनार्थं चन्द्रस्येष्टांशा हीना योज्याश्चेति नियता भागा उक्तप्रकारानीता एवेष्टा: कल्पिता:। तथाहि। सूर्यक्रान्तिज्यात: परक्रान्तिज्यया न्यूनया चतुर्दशशतमितया त्रिज्या तुल्या दोर्ज्या तदेष्टक्रान्तिज्यया केत्यभीष्टदोर्ज्यायाश्चापं सायनसूर्यभुज एव। एवं चन्द्रस्पष्टक्रान्तिज्यातश्चापं सायनसूर्यभुजान्यूनमधिकं भवति। क्रान्तिसमत्वाभावात्। यद्यपि न्यूनचतुर्दशशताधिकस्पष्ट-क्रान्तेरुक्तरीत्या भुजज्यायास्त्रिज्याधिकत्वेन चापाकरणमशक्यं तथापि। त्रिज्याधिकस्य क्रमचापलिप्ता: खखाब्धिबाणा धनुरुत्क्रमात्स्यात्। इति सिद्धान्तशिरोमण्युक्तवैपरीत्येन त्रिज्यातो यदधिकं तदुत्क्रमचापयुक्ता: चतु: पञ्चाशच्छतकला इत्यनेन चापोत्पत्तौ न क्षति:। एतेन चापासम्भवशङ्कया सार्द्धाष्टविंशत्यंशानां ज्या परमक्रान्तिज्येति स्वायनसन्धिस्थस्पष्टक्रान्तिज्या च इति च निरस्तम्। ग्रन्थे तयो: परमक्रान्तिज्यात्वानुक्ते:। स्पष्टक्रान्तिसाम्यानन्तरमपि उक्तरीत्या कर्मान्तरनिवारणानुपपत्तेश्च क्रान्त्योस्तुल्यत्वेऽपि हरभेदात् तच्चापान्तरसद्भावेन क्रियाकुण्ठनासम्भवात्। न हि असकृत्कर्मणि स्वाभीष्टसिद्ध्यनन्तरं कर्मान्तरं सम्भवति। अप्रसिद्धे: स्वरूपव्याघाच्च। तच्चापयो: अन्तरमिष्टांशाश्चन्द्रस्य गतैष्यपातवशाद्धीनयुता अभीष्टचन्द्रो भवति। तदिष्टांशानां बहुत्वे बहुपरिवर्त्तै: अभीष्टसिद्धिरतोऽल्पपरिवर्तै: अभीष्टसिद्धयर्थं तदर्द्धमिष्टांशा इति। अथ एते चन्द्रस्येष्टांशा इत्येभ्यश्चन्द्रगतिप्रमाणेन एते तदा सूर्यपातगतिभ्यां क इत्यनुपातेन तयोश्चन्द्रकालिकत्वसिद्ध्यर्थमिष्टांशा एते सूर्यस्य संस्कृताश्चन्द्रवदभीष्टसूर्यो भवति। पातस्य तु चक्रशुद्धत्वेन विपरीतत्वात् पातेष्टांशा: पातस्य व्यस्तं संस्कार्या:। अभीष्टपातो भवति। एभ्य: सूर्यचन्द्रयो: स्पष्टक्रान्ती साध्ये। तयोरसमत्व उक्तरीत्या स्वेष्टांशा एतत्साधितचन्द्रे संस्कार्या:। न प्रथमचन्द्रे। तत्क्रान्तिजत्वाभावात्। अन्यथा समक्रान्त्यनन्तरमपि तयोरिष्टांशाभावे प्रथमचन्द्रसूर्यपातानां तत्संस्कृतेऽपि अविकारा तत्क्रान्त्यो: द्वितीयपरिवर्त्तक्रान्तिसमत्वेन कर्मान्तरसम्भवात् क्रियाकुण्ठनत्वानुपपत्ते:। अव्यवहितपूर्वग्रहयोजने तु अर्न्यकर्मण एव सिद्धे:। कर्मान्तरासम्भवाच्च। सूर्यपातयोरिष्टांशास्तु पूर्वचन्द्रसूर्यस्पष्टगतिभ्यामेव स्वल्पान्तरात् कार्या:। अव्यवहितपूर्वकाले स्पष्टगत्यज्ञानात्। एवमसकृत् करणेन क्रान्त्यो: साम्यमुत्तरोत्तरपरिवर्त्तान्तरे भवति एव इत्युपपन्नं क्रान्त्योर्ज्येत्यादिश्लोकत्रयम्।।9-11।।