SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ स्पष्टकालज्ञानं विवक्षु: प्रथमं तादृशयो: सूर्यचन्द्रयो: सायनांशयो: क्रान्ती साध्ये इत्याह—
भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयो:।
दृक्तुल्यसाधितांशादियुक्तयो: स्वावपक्रमौ।।6।।
सूर्यचन्द्रयोर्दृक्तुल्यसाधितांशादियुक्तयो:। प्राक् चक्रं चलितं हीने छायार्कात् करणागते। इत्यादिना दृग्गोचरीभूतं साधितमंशादिकं तेन संस्कृतयो: इत्यर्थ:। एतेन पूर्वसाधारणोक्तिरपि स्पष्टीकृता क्रान्त्यो: सायनोत्पन्नत्वात्। भचक्रान्तर्भचक्रं द्वादशराशयस्तन्मध्ये। संस्थयो: स्थितयो:। ययोर्योगो द्वादशराशयस्तयो: इत्यर्थ:। चक्रार्द्धावधिसंस्थयो:। चक्रार्द्धं राशिषट्कं तदवधि तदन्त: स्थितयो: ययो: योगो राशिषट्कं तयोरित्यर्थ:। स्वौ स्वकीयौ। अपक्रमौ साध्यौ। सूर्यस्य क्रान्ति: साध्या। चन्द्रस्य विक्षेपसंस्कृता क्रान्ति: साध्येत्यर्थ:।।6।।
अथ साधिक्रान्तिभ्यां स्वकालात् स्पष्टपातकालस्य गतैष्यत्वं विशेषं च श्लोकाभ्यामाह—
अथौजपदगस्येन्दो: क्रान्तिर्विक्षेपसंस्कृता।
यदि स्यादधिका भानो: क्रान्ते: पातो गतस्तदा।।7।।
ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च।
पदान्यत्वं विधो: क्रान्तिर्विक्षेपाच्चेद्विशुद्ध्यति।।8।।
अथ सूर्यचन्द्रयो: क्रान्तिसाधनानन्तरम्। चन्द्रस्य विषमपदस्थस्य। विक्षेपसंस्कृता क्रान्ति:। स्पष्टक्रान्तिरित्यर्थ:। यदि यर्हि। सूर्यस्य विषमसामान्यतरपदस्थस्य। साधितक्रान्ते: सकाशादधिका स्यात्। तदा तर्हि। पात: स्पष्टक्रान्तिसाम्यात्मक:। गत:। साधितक्रान्तिकालात् पूर्वकाले जात इत्यर्थ:। चेत् यर्हि। सूर्यक्रान्तेर्विषमपदस्थचन्द्रस्पष्टक्रान्तिर्न्यूना भवति तदा तर्हि स्पष्ट क्रान्तिसाम्यरूपपात:। भावी। साधितक्रान्तिकालात् उत्तरकाले भवतीत्यर्थ:। ननु विषमपदे चन्द्रो न भवति तदा गतैष्यत्वज्ञानं कथं स्यादत आह। वाममिति। युग्मपदस्य। समपदस्थचन्द्रस्य इत्यर्थ:। चकारात् स्पष्टक्रान्ति: सूर्यक्रान्ते: सकाशादधिकोना वा स्यात् तर्हीत्यर्थ:। वामम्। उक्त गतैष्यक्रमेण वैपरीत्यम्। एष्यगतत्त्वं पातस्य भवतीत्यर्थ:। अथ चन्द्रस्य विशेषमाह। पदान्यत्वमिति। चन्द्रस्य स्पष्टक्रान्तिक्रियायाम्। चेद्यर्हि। चन्द्रस्य विक्षेपसंस्कृतकेवल क्रान्तिर्विक्षेपात् भिन्नदिक्काद्विशुध्यति हीना भवति। क्रान्तिवर्जितविक्षेपरूपा स्पष्टक्रान्तिर्यदि स्यात् तदा इत्यर्थ:। पदान्यत्वं राश्यादिचन्द्राधिष्ठितपदभिन्नपदस्थत्व चन्द्रस्यं ज्ञेयम्। सायनराश्यादिना समपदस्थस्य चन्द्रस्य विषमपदस्थत्वम्। सायनराश्यादिना विषमपदस्थस्य चन्द्रस्य समपदस्थत्वम् तत्पदसम्बन्धात स्पष्टाक्रान्तिर्ज्ञेया इत्यर्थ:। अत्रोपपत्ति:। विषमपदे क्रान्तिरूपचिता समपदेऽपचिता। अत: सूर्यक्रान्ते: विषमपदस्थेन्दुक्रान्तिरधिका तदा अग्रे सुतराम् अधिकत्वात् रविक्रान्त्युपचयस्य अल्पत्वाच्च न्यूनया रविक्रान्त्या चन्द्रक्रान्ते: समत्वम् अग्रिमकाले न भवति। अत: पूर्वकाले चन्द्रक्रान्तेर्न्यूनत्वात् रविक्रान्त्यपचयस्य अल्पत्वाच्च तत्क्रान्तिसाम्यं जातमित्यनुमितम्। एवं समपदस्थेन्दुक्रान्तिरूना तदा अग्रे सूर्यक्रान्तेर्न्यूना तदा अग्रे सुतरां न्यूनत्वात् तत् साम्याभाव:। पूर्वं तु अधिकत्वात् तत्समत्वं जातमिति ज्ञातम्। यदा तु सूर्यक्रान्ते: विषमपदस्थेन्दुक्रान्त्यधिकत्वेन तत् क्रान्तिसाम्यं भवति पूर्वं तन्न्यूनत्वे तदभावात्। एवं सूर्यक्रान्ते: समपदस्थेन्दुक्रान्तिरधिका तदा अग्रे न्यूनत्वेन तत्साम्यं भवति। अत एव तत्तुल्यत्वे वर्तमान इति। अत्र चन्द्रस्य विक्षेपवृत्तं विषुवद्वृत्ते लग्नं यत्र तत्र स्पष्टक्रान्ते: अभावात् गोलसन्धि:। तस्मात् त्रिभान्तरे विक्षेपवृत्तेऽयनसन्धि: स्पष्टक्रान्ति: तदन्तराल उपचितापचितायनसन्धिस्थ क्रान्त्यनधिका। यदा चन्द्रक्रान्तिर्मध्यमा शरभिन्नदिक्का शरादल्पा तदा शराच्छोधनेन स्पष्टकक्रान्ति: मध्यमक्रान्तिसम्बन्धपदभिन्नपदसम्बन्धा भवति। अत: पदान्यत्वं विधो: क्रान्तिर्विक्षेपाच्चेद्विशुध्यति। इति सम्यगुक्तम्। भास्कराचार्योक्तं च। चक्रे चक्रार्द्धे च व्ययनांशेऽर्कस्य गोलसन्धि: स्यात्। एवं त्रिभे च नवभेऽयनसन्धिर्व्ययनतभागेऽस्य।। अयनांशोनितपाताद्दो: कोटिज्ये लघुज्यकोत्थे ये। ते गुणसूर्यैरश्वैर्गुणिते भक्ते कृतै: सूर्यै:।। अयनांशोनितपाते मृगकर्क्यादिस्थिते द्विषड्रामै:। (हि षड् रामै: इति व प्र0मि0सं0) कोटिफलयुतविहीनैर्बाहुफलं भक्तमाप्तांशै:।।
मेषादिस्थे गोलायनसन्धी भास्करस्योनौ। तौ चन्द्रस्य स्यातां तुलादिषट्कस्थिते तु संयुक्तौ।। गोलायनसन्ध्यन्तं पदं विधोरत्र धीमता ज्ञेयम्। रविगोलवदस्पष्टा क्रान्ति: स्वगोलदिक् शशिन:।। इति पदज्ञानम्। अनेनैव प्रकारेण चन्द्रस्पष्टाक्रान्ते: पदं ज्ञेयं विक्षेपवृत्तसम्बन्धत्वात्। न साधारणपदज्ञानेन स्पष्टक्रान्ते: क्रान्तिवृत्तसम्बन्धाभावात्। अन्यथा पदज्ञानासम्भवापत्ते:। एतदङ्गीकारे पदान्यत्वमित्याद्यर्द्धं व्यर्थमपि भगवता तदर्द्धेन एतादृशं पदं ज्ञापितमन्यथा तदनुक्त्यापत्तेरिति दिक्।।7-8।।