SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ व्यतीपातसंज्ञपातस्य सम्भवमाह—
विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका:।
समास्तद्वा व्यतीपातो भगणार्धे तयोयुर्तौ ।।2।।
चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौ भवतस्तत्र यदा तयो: सूर्यचन्द्रयो: भाद्योर्योगे भगणार्द्धे राशिषट्के सति। तयो: क्रान्तिकलास्तुल्या भवन्ति तदा तस्मिन् काले व्यतीपातसंज्ञक: पातो भवति। अत्रोपपत्ति:। समक्रान्तिकालो महापातकाल:। तत्र स्पष्टक्रान्त्योरति वैलक्षण्योपचयापचयो: नियमाभावाच्च समकालो दुर्लक्ष्य इति मध्यमक्रान्त्यो: समत्वकालात् पूर्वम् अपरत्र वा शरवशेन शरसंस्कृतक्रान्तिसमत्वं भवतीति निश्चित्य वस्तुभूततत्कालज्ञानार्थं प्रथमं तदासन्नकालस्थमध्यमक्रान्तितुल्यस्य ज्ञानमावश्यकं तत्तु सूर्यचन्द्रयो: क्रान्तिसमत्वं भुजतुल्यत्वे सम्भवति भुजोत्पन्नत्वात्। भुजसमत्वं सूर्यचन्द्रयो: षड्राशिमितयोगे द्वादशराशिमितयोगे वा षड्रीशिमितान्तरेऽन्तराभावे वा कुत एवमिति चेत् श्रृणु। तत्र अन्तराभावे द्वयो: तुल्यत्वेन भुजसाम्ये विवादाभाव:। एवं षड्भान्तरेऽपीतरयो: विषमपदस्थयो: समपदस्थयोर्वा क्रमेण पदगतैष्ययोस्तुल्ययो: भुजत्वमित्यविवाद:। षड्द्वादशराशियोगे तु तयोर्विषमसमपदस्थत्वात् क्रमेण तुल्यगतैष्यत्वेन भुजतुल्यत्वम्। रविगोलायनसन्धिस्थयोस्तु क्रान्तिपरमभावत्व इति तत्रापि तदन्तरयोगयो: षड्द्वादशराश्यो: यथायोग्यसत्वात् क्रान्तिसाम्यं सहजत एव। अत एकायनस्थयो: भिन्नगोलस्थयो: द्वादशराशियोग एकगोलायनस्थयो: अन्तराभावे क्रान्तिसाम्यम्। एवं भिन्नायनस्थयो: एकगोलस्थयो: षड्राशियोगे गोलभेदस्थयो: षड्राश्यन्तरे क्रान्तिसाम्यमिति युतौ इत्युपलक्षणादन्तरं इत्यपि ज्ञेयम्। न तु तद्युतौ मण्डले भगणार्द्धे तयोर्युतौ इत्युक्तेन क्रमेण गोलभेदैक्ययो: अन्तरनिरासार्थकोक्तिस्तत्रापि क्रान्तिसाम्यत्वेन अनिवार्यत्वात्। अत्र एकायनगतौ इति विपरीतायनगतौ इति च स्वरूपोक्ति: अनावश्यकीति ध्येयम्। वस्तुतस्तु सूर्यचन्द्रयो: द्वादशमिते योगेऽन्तरे वा वैधृताख्यं क्रान्तिसाम्यम्। षड्राशिमिते तयोर्योगेऽन्तरे वा व्यतीपाताख्यं क्रान्तिसाम्यमिति तात्पर्योक्ति:। अत एवाग्रे भास्करेन्द्वो: इत्याद्युक्तं युक्तमिति तत्त्वयम्।2।।
ननु क्रान्त्यो: साम्ये कथं पातो भवतीत्यत आह—
तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहावृत:।
तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते।।3।।
तयो: चन्द्रसूर्ययो:। तुकारात् क्रान्तिसाम्यकालिकयो:। तुल्यांशुजालसम्पर्कात् समकिरणानां जालं समूहस्तयो: अन्योन्याभिमुखयो: सम्पर्कात्। एकीभावापन्नत्वात्। तादृक्क्रोधभव: सूर्यचन्द्रयो: अन्योन्याभिमुखयो: दृक्क्रोधो विम्बकेन्द्रयो: दृग्रूपयो: क्रोध: परस्पराभिमुखेन दीप्त्याधिक्यं तदुत्पन्नोऽग्नि: प्रवहावृत: प्रवहवायुप्रज्वलित:। लोकाभावाय जनानामशुभफलाय जायते।।3।।