SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
ननु यदर्थमयमुद्योगस्तस्या: श्रृङ्गोन्नतेर्ज्ञानं नोक्तम् अत आह—
कोट्या दिक्साधनात् तिर्यक् सूत्रान्ते श्रृङ्गमुन्नतम्।
दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साऽऽकृति:।।14।।
कोट्याकोटि रेखया चन्द्रवृत्ते कर्णरेखावत् दिक्साधनात् परिलेखे शुक्लधनुष: कोटिमग्रभागात्मिकामुन्नतामुच्चां कृत्वा दृष्ट्वा। तिर्यक्सूत्रान्ते दक्षिणोत्तररेखाया अन्ते अवसाने। उन्नतमुच्चं श्रृङ्गं दर्शयेत्। सा परिलेखसिद्धा। आकृति: स्वरूपम्। चन्द्रस्य आकाशस्थचन्द्रस्य भवति। परिलेखसिद्धरूपम् आकास्थचन्द्रे प्रत्यक्षमित्यर्थ:। अत्रोपपत्ति:। यथा चन्द्रवृत्ते कर्णरेखया चन्द्रदिशस्तथा कोटिरेखया चन्द्रवृत्ते सूर्यदिशस्तयो: अन्तरं भुजश्चन्द्रवृत्तपरिणत:। अथ चन्द्रदक्षिणोत्तरयोर्धनुकोट्यो: संलग्नत्वात् सूर्यदक्षिणोत्तराभ्यां कोटिरूपश्रृङ्गेण नतोन्नते भवतस्तत्र भुजदिक्कं श्रृङ्गं नतम्। तदितरदिक्कं श्रृङ्गमुन्नतम्। अत एव भास्कराचार्यैरूक्तम्। स्यात् तुङ्गश्रृङ्ग वलनान्यदिक्स्थम्। इति।।14।।
ननु सूर्योनचन्द्रस्य षड्भाधिकत्व उक्तप्रकारेण चन्द्रविम्बाभ्यधिकं शुक्लमायाति तत् कथं युक्तं व्याघातादित्यत: तदुत्तरं विशेषं च आह—
कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथाऽसितम्।
दद्याद् वामं भुजं तत्र पश्चिमे मण्डलं विधो:।।15।।
कृष्णपक्षे षड्राशिभि:सहितमर्कं चन्द्राद्विशोध्य। तथा लिप्ता नवशतभक्ता इति पूर्वप्रकारेण। असितं श्याममानेयम्। तथा च पूर्वोक्तं शुक्लानयनं शुक्लपक्ष एव चन्द्रशौल्क्यवृद्धि ज्ञानार्थम्। कृष्णपक्षे तु शौल्क्यह्रासात् कृष्णतावृद्धे: कृष्णानयनं युक्तं न शुक्लानयनम्। अत एव दर्शान्तमासस्य शुक्लकृष्णौ द्वौ पक्षौ इति भाव:। अथ कृष्णपरिलेखार्थं पूर्वोक्ते विशेषमाह। दद्यादिति। तत्र कृष्णपरिलेखविषये वामं विपरीतं भुजं प्रागुक्तं दद्यात्। अर्कचिह्नात् उत्तरं भुजं दक्षिणतो दक्षिणं भुजमुत्तरतो गणको दद्यात्। चन्द्रस्य मण्डलं पश्चिमं दर्शयेत्। यथा शुक्लपक्षे चन्द्रमण्डलस्य पश्चिमभागे शौक्ल्यं तथा कृष्णपक्षे चन्द्रमण्डलस्य पश्चिमभागे कृष्णाभिवृद्धिं दर्शयेत् इत्यर्थ:। अत्रोपपत्ति:। कृष्णपक्षारम्भे सूर्यचन्द्रयो: षड्राश्यन्तरम्। तत: षड्राशिपर्यन्तं कृष्णाभिवृद्धि:। अत: षड्राशियुतसूर्येण वर्जितचन्द्रात् पूर्वप्रकारेण कृष्णानयनं युक्तम्। अथ शुक्लश्रृगं यत्र नतं तत्र कृष्णश्रृङ्गमुन्नतं यत्र चोन्नतं तत्र नतम्। अत: कृष्णपरिलेखार्थं भुजो विपरीतो देय:। तदपि कृष्णं पश्चिमभागात् एवाभिवृद्धम्। अत: कर्णरेखायां चन्द्रविम्बान्त: पश्चिमस्थानात् देयम्। तत: प्राग्वत् कृष्णश्रृङ्गोन्नतिरिति।।15।।