-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ श्रृङ्गोन्नत्यधिकार:-10


श्रृङ्गोन्नतिपरिलेख: । Shringonnatiparilekha

अथ श्लोकचतुष्टयेन श्रृङ्गोन्नतिपरिलेखमाह—

दत्वाऽर्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्।
तत: पश्चान्मुखीं कोटिं कर्णं कोट्यग्रमध्यगम्।।10।।
कोटिकर्णयुताद्बिन्दोर्बिम्बं तात्कालिकं लिखेत्।
कर्णसूत्रेण दिक्सिद्धिं प्रथमं परिकल्पयेत्।।11।।
शुक्लं कर्णेनतद्विम्बयोगादन्तर्मुखं नयेत्।
शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत्।।12।।
तन्मध्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग् लिखेद्धनु:।
प्राग्बिम्बं यादृगेव स्यात् तादृक् तत्र दिने शशी।।13।।

समभूमौ अभीष्टस्थाने दिक्साधनं कृत्वा पूर्वापरा दक्षिणोत्तरा च रेखा कार्या। तत्र दिक्सम्पातेऽर्कसंज्ञितमर्कसंज्ञा सञ्जाता यस्येति एतादृशमर्कसंज्ञं विन्दुं चिह्नं दत्वा कृत्वेत्यर्थ:। ततो विन्दो: सकाशाद्भुजं पूर्वसाधितं स्वदिङ्मुखं स्वदिशा दक्षिणोत्तरा अन्यतरा तदभिमुखं दत्वा भुजाङ्गुलानि गणयित्वा चिह्नं कृत्वा ततो भुजाग्रचिह्नात् पश्चान्मुखीं पश्चिमदिक्समसूत्राभिमुखाग्रां कोटिं द्वादशाङ्गुलात्मिकां दत्वा कर्णं पूर्वसाधितं कोट्यग्रमध्यगं कोट्यग्रचिह्नमध्यं सूर्यसंज्ञकचिह्नं तयोर्गतं स्पृष्टम्। तदन्तराले कर्णांगुलानि दत्वेत्यर्थ:। कोटिकर्णरेखासंयोगे मध्यं प्रकल्प्य तात्कालिकं सूर्यास्तोदयकालिकं चन्द्रस्य साधितं मण्डलं लिखेत्। तत्र लिखितचन्द्रविम्बे कर्णसूत्रेण कर्ण-रेखया प्रथममादौ दिक्‍सिद्धिं दिशानिष्पत्तिं परिकल्पयेत् कुर्यात्। चन्द्रमण्डलं कर्ण-रेखायां यत्र लग्नं तत्र चन्द्रवृत्ते पूर्वा। कर्ण-रेखां स्वमार्गेण अग्रे नि:सार्य चन्द्रवृत्तपरिधौ यत्र कर्ण’रेखापरभागे लग्ना तत्र पश्चिमा। तन्मत्स्याभ्यां रेखा दक्षिणोत्तरा चन्द्रवृत्ते यत्र लग्ना तत्र दक्षिणोत्तरेति फलितार्थ:। शुक्लं पूर्वसाधितं कर्णेन कर्ण-रेखामार्गेण तद्विम्बयोगात् कर्णरेखाचन्द्रमण्डलपरिध्यो: सम्पातात् अपूर्वात्। अन्तर्मुखं चन्द्रवृत्तकेन्द्राभिमुखं नयेत्। शुक्लाग्रचिह्नं कुर्यात्। चन्द्रवृत्तान्त: कर्णरेखायां पश्चिमचिह्नात् शुक्लाङ्गुलानि गणयित्वा चिह्नं कुर्यात् इत्यतर्थ:। शुक्लग्रयाम्योत्तरयोश्चन्द्रवृत्तान्तर्यत्र शुक्लाग्रचिह्नं यत्र च चन्द्रवृत्तपरिधौ दक्षिणोत्तरयोश्चिह्नं तयोरित्यर्थ:। मध्येऽन्तराले मत्स्यौ प्रत्येकं साधयेत्। शुक्लाग्रदक्षिणचिह्नाभ्यां मत्स्यशुक्लाग्रोत्तर चिह्नाभ्यां मत्स्यश्चेति पूर्वोक्तरीत्या मत्स्यौ कुर्यादित्यर्थ:। तन्मध्यसूत्रसंयोगात्। तयोर्मत्स्ययो: मध्यसूत्रं मुखपुच्छस्पृग्गर्भसूत्रं प्रत्येकं तयोर्यत्र चन्द्रमण्डलान्तस्‍तद्वहिर्वा केन्द्रशुक्लाग्रस्य पश्चिमत्वे पूर्वभागे संयोग: पूर्वत्वे पश्चिमभागे संयोग:। स्वस्वमार्गेण प्रसारितयो: तयो: सम्पातस्तस्मात् स्थानात् बिन्दुत्रिस्पृक् शुक्लाग्रबिन्दुर्याम्योत्तरयोश्चिह्नबिन्दुरिति बिन्दुत्रितयस्पर्शिधनुर्वृतैकदेशात्मकं लिखेत्। सूत्रसम्पात शुक्लाग्रबिन्द्वन्तरालाङ्गुलव्यासार्द्धेन सम्पातस्थानात् बिन्दुत्रयस्पृष्टवृत्तपरिध्येकदेशात्मकं चन्द्रमण्डलान्तश्चापं कुर्यात् इत्यर्थ:। प्राक् पूर्वकाले। लिखितं चन्द्रविम्बम्। यादृक्। लिखितचापच्छेदेन यादृशं पश्चिमभागे भवति तादृश:। एवकारस्तद्भिलन्ननिरासार्थक:। तस्मिन् दिने। श्रृङ्गोन्नतिगणिताश्रयी भूतसन्ध्यासमये चन्द्र आकाशस्थो भवति। अत्रोपपत्ति: भुजस्तु सूर्याच्चन्द्रे यावतान्तरेण तद्रूप इति सूर्यस्थानं प्रकल्प्य तस्मात् यथा दिग्भुजो देयस्तस्मात् शुक्लपक्षे पश्चिमदिक्स्थस्य चन्द्रस्य श्रङ्गोन्नतिर्भवतीति सूर्यचन्द्रयोरूर्ध्वाधरान्तरं कोटिर्दत्ता। सूर्यचन्द्रयो: अन्तरं तिर्यक्कर्ण इति कोट्यग्रसूर्यविम्बान्तराले कर्णो दत्त:। कर्णदानं कोटे: सरलत्वसिद्ध्यर्थं तत्र कोटिकर्णयोगे चन्द्रावस्थानात् चन्द्रवृत्तं तन्मध्यत्वेन लिखितम्। कर्णमार्गेण शुक्लदर्शनात् चन्द्रविम्बे कर्णसूत्रानुरुद्धा पूर्वापरा तदनुरूद्धा दखिणोत्तरा च। शुक्लपक्षे चन्द्रपश्चिमभागेऽर्काभिमुखत्वेन शौक्ल्यात् पश्चिमस्थानात् कर्णरेखायां चन्द्रवृत्तान्त: श्वेतं दत्तम्। तत्र चन्द्रमण्डले याम्योत्तरचिह्नौ अधिकवृत्तैकदेशरूपं धनु: शुक्लाग्रबिन्दुस्पृष्टं चन्द्राकृतिदर्शनार्थं कार्यम्। अतो बिन्दुत्रयस्पृग् वृत्तस्य केन्द्रज्ञानार्थं प्रागुक्तरीत्या बिन्दुत्रयेभ्यो मत्स्यौ प्रसाध्य तत्सूत्रयुति: केन्द्रमस्मात् चापं तथैव भवतीति चन्द्राकृति: प्रत्यक्षा।।।10-13।।