SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ शुक्लानयनमाह—
सूर्योनशीतगोर्लिप्ता: शुक्लं नवशतोद्धृता:।
चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभि: स्फुटम्।।9।।
सूर्योनितचन्द्रस्य कला नवशतभक्ता: फलं शुक्लं तच्चन्द्रग्रहणाधिकारोक्तप्रकारेण आगतचन्द्रविम्बाङ्गुलैर्गुणितं द्वादशभिर्भक्तं फलं स्फुटं शुक्लं स्यात्। अत्रोपपत्ति:। दर्शान्ते सूर्यचन्द्रयो: अन्तराभावात् अस्मद् दृश्यार्द्धे चन्द्रगोले सूर्यकिरणप्रतिफलनाभावात् शौक्लयाभाव:। ततो यथायथार्काच्चन्द्र: पूर्वतोऽन्तरितस्तथा तथा चन्द्रगोलास्मद्दृश्यार्द्धे चन्द्रपश्चिमभागक्रमेण शौक्लयवृद्धि:। एवं षड्राश्यन्तरे पौर्णमास्यन्ते चन्द्रगोलास्मद् दृश्यार्द्धं सम्पूर्णं श्वेतं भवति। इत: षड्राशिकलाभि:खखाष्टदिग्भिर्द्वादशाङ्गुलव्यासविम्बं श्वेतं तदेष्टेन सूर्योनचन्द्रकलागुणेन किमित्यनुपाते प्रमाणफलयो: फलापवर्तनेन प्रमाणस्थाने नवशतम्। अत: सूर्योनचन्द्रस्य कला नवशतभक्ता: शौक्ल्यमिदं द्वादशाङ्गुलव्यासप्रमाणेन सिद्धम्। अतो द्वादशाङ्गुलप्रमाणेन इदं तदाभिमतचन्द्र विम्बाङ्गुलव्यासप्रमाणेन किमित्यनुपातेन उक्तमुपपन्नम्। अनेन प्रकारेण त्रिभान्तरे चन्द्रगोलास्मद्दृश्यार्द्धमर्द्धं श्वेतं भवतीति सिद्धम्। भास्कराचार्यैस्तु। कक्षाचतुर्थस्तरणेर्हि चन्द्र: कर्णान्तरे तिर्यगिनो यतोऽब्जात्। पादोनषट्काष्टलवान्तरेऽतो दलं नृदृश्यं दलमस्य शुक्लम्। इति श्रृङ्गोन्नतिवासनायामुक्तम्। श्रृङ्गोन्नत्यधिकारे। चन्द्रस्य योजनमयश्रवणेन निघ्नो व्यर्केन्दुदोर्गुण इनश्रवणेन भक्त:। तत्कार्मुकेण सहित: खलु शुक्लपक्षे कृष्णोऽमुना विरहित: शशभृद्विधेय:।। इति तदभिप्रेतश्वेतानयनोपयुक्तश्चन्द्र: साधित इत्यलम्।।9।।