SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या सकलविम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलविम्बदर्शनं शुक्लत्वेन न भवति। किन्तु विम्बैकदेश एव शुक्लत्वेन न दृश्यत इति भौमादिविसदृशत्वं चन्द्रस्य कुत इत्याशङ्काया: पूर्वाधिकारे समुपस्थितेस्तदुत्तरभूतश्रृङ्गोन्नमनाधिकारोऽवश्यमुपस्थित आरब्धो व्याख्यायते। तत्र श्रृङ्गोन्नतेरुदयकालात् पूर्वकालेऽस्तकालानन्तरकाले च आसन्नकतिपयदिवसेषु दर्शनात् पूर्वाधिकारे चन्द्रस्य कालांशानुक्त्या तददुयास्तानुक्तेश्च प्रथममुपस्थितचन्द्रोदयास्तयो: साधनमतिदिशति—
उदयास्तविधि: प्राग्वत् कर्तव्य: शीतगोरपि।
भागैर्द्वादशभि: पश्चाद् दृश्य: प्राग् यात्यदृश्यताम्।।1।।
चन्द्रस्य। अपि शब्द: पूर्वाधिकारोक्तै: ग्रहनक्षत्रै:समुच्चयार्थक:। उदयास्त विधिरूदयास्तयो: साधनप्रकार: प्राग्वत् पूर्वाधिकारोक्तरीत्या गणकेन कार्य:। ननु कालांशानां पूर्वमनुक्ते: कथं तत्सिद्धि: अत आह। भागैरिति। द्वादशभि: अंशै: चन्द्र: पश्चिमायां दृश्य उदितो भवति। प्राच्याम् अदृश्यताम् अस्तं प्राप्नोति। अत्र पश्चात् प्रागिति पुनरुक्तमपि पूर्वं बुधशुक्रयो: साहचर्येण चन्द्रोदयास्तदिगुक्त्या तत्साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयो वर्तेते इति कस्यचित् मन्दबुद्धेर्भ्रमस्य वारणायेति ध्येयम्।।1।।
अथ उदयास्तप्रसङ्गेन स्मृतयो: चन्द्रनित्यास्तोदययो: साधनं विवक्षु: प्रथमं श्लोकत्रयेण इन्दोर्नित्यास्तसाधनमाह—
रवीन्द्वो: षड्भयुतयो: प्राग्वल्लग्नान्तरासव:।
एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिका:।।2।।
तन्नाडिकाहते भुक्ती रवीन्द्वो: षष्टिभाजिते।
तत्फलान्वितयोर्भूय: कर्तव्या विवरासव:।।3।।
एवं यावत् स्थिरीभूता रवीन्द्वोरन्तरासव:।
तै: प्राणैरस्तमेतीन्दु: शुक्लेऽर्कास्तमयात् परम्।।4।।
शुक्ले शुक्लपक्षाभीष्टदिने सूर्यास्तकाले स्पष्टौ सूर्यचन्द्रौ साध्यौ। चन्द्रस्य दृक्कर्मद्वयं संस्कार्यम्। तत्राक्षदृक्कर्मश्लोकपूर्वार्द्धोक्तमेव। तयो: सूर्यचन्द्रयो: षड्राशियुतयो: लग्नान्तरासवोऽन्तरकालासव: प्राग्वद्भोग्यासूनूनकस्य इत्यादिना साध्या:। तौ सषड्भार्कचन्द्रौ एकराशौ अभिन्नराशौ चेत् स्त: तदा सषड्भयोस्तयो: सूर्यचन्द्रयो: अन्तरकला: कार्या:। चकारो विषयव्यवस्थार्थक:। तयो: असुकलयो: घटिकाभि: असव: षष्ट्यधिकशतत्रयेण भाज्या:। घटिका: कला उदयासुगुणिता एकराशिकलाभि: भक्ता असवस्ते षष्ट्यधिकशतत्रयेण भाज्या:। घटिका:। आभि: सूर्येन्द्वोर्गतीकलात्मके गुण्ये षष्टिभक्ते तत् फलान्वितयो: स्वस्वफलयुक्तयो: सषड्भ सूर्यचन्द्रयो: भूय: पुनर्विवरासवोऽन्तरप्राणा: पूर्वरीत्या कर्तव्या:। एवं तद्घटिकाभि: सूर्यास्तकालिकौ सषड्भसूर्यदृक्कर्मसंस्कृतचन्द्रौ प्रचाल्य तयोर्विवरासव इति यावत् स्थिरीभूता अभिन्नास्तावत् साध्या:। तै: अभिन्नै असुभि: सूर्यास्ताद् अनन्तरं चन्द्रोऽस्तं प्राप्नोति। अत्रोपपत्ति:। सूर्यास्तकाले सषड्भार्को लग्नं दृक्कर्मसंस्कृतश्चन्द्र: षड्भयुतश्चन्द्रास्तकाले लग्नम्। परन्तु सूर्यास्तकालिकं न स्वास्तकालिकम्। पश्चिमदृग्ग्रह: सूर्यास्तकालिक इति तत्वम्। तदन्तरासव: सावनाश्चन्द्रस्य सूक्ष्मा दिनशेषा:। परन्तु परिभाषया नाक्षत्रज्ञानसम्भवात् नाक्षत्रा: साध्या इति चन्द्रस्ताभिश्चाल्य: स्वास्तकाले सषड्भो लग्नमस्मात् सूर्यास्तकालिकसषड्भसूर्याच्च अन्तरासवो नाक्षत्रा: सूक्ष्मा अपि भगवतैकरीतिप्रदर्शनार्थं भिन्नकालिकाभ्यां सूर्यचन्द्राभ्यां कथं सूक्ष्मसमयसिद्धिरिति मन्दाशङ्कापनोदार्थं च सषड्भ: सूर्योऽपि साधित: चन्द्रास्तकाले। ताभ्याम् अन्तरासवो नाक्षत्रा अपि सूर्यास्तकालिकलग्नाग्रहात् असूक्ष्मा इति असकृत् सूक्ष्मा इत्युक्तमुपपन्नम्। वस्तुतस्तु सावनाभ्युपगमे। रवीन्द्वो: षड्भयुतयो: प्राग्वल्लग्नान्तरासव:। तै: प्राणैरस्तमेतीन्दु: शुक्लेऽर्कास्तमनात् परम्।।
इत्येक एव सूर्यसिद्धान्ते श्लोक:। श्लोकमध्य एकराशौ इत्यादि रवीन्द्वो: इति अन्तरासव इत्यन्तं श्लोकद्वयं केनचित् मन्दमतिना समयोऽसकृदेव साध्य इति शिष्यधीवृद्धिदतन्त्रोक्तं सुबुद्धिमन्येन अयुक्तमपि युक्तियुक्तं मत्वा निक्षिप्तम्। कथमन्यथा भगवत: सर्वज्ञस्य शुद्धसावनघटीज्ञानानन्तरम् असकृत साधनोक्ति: सङ्गच्छते। किञ्च। एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिका:। इत्यर्द्धस्य त्रिपश्नाधिकारे भोग्यासूनूनकस्य इत्यादि श्लोकाग्रेऽपेक्षितत्वेन अत्रानपेक्षितत्वम्। प्राग्वल्लग्नान्तरासव इत्यनेन एव अत्र तत्सिद्धेरिति। अथ नाक्षत्राभ्युपगमे तु चन्द्रस्य सावधनघटीभिश्चालनं स्वास्तकालिकसिद्ध्यर्थमावश्यकं न तु सूर्यस्य प्रयोजनाभावात्। न हि चन्द्रास्तकालसाधितसषड्भसूर्य: सूर्यास्तकालिकं लग्नं येन सूर्यचालनं युक्तम्। अपि च। एकस्य चन्द्रस्य चालनेन पुनरेकवारेणैव सूक्ष्मनाक्षत्रकालसिद्धौ द्वयोश्चालनोक्त्या नाक्षत्रस्य असकृत् क्रियानयनमतत्त्वं गौरवं सर्वज्ञेन कथमुक्तम्। असकृत्साधनेन सूक्ष्मनाक्षत्रसिद्धौ युक्त्यभावश्च। अतएव। ज्ञातुं यदाभाभिमता ग्रहस्य तत्कालखेटोदयलग्नलग्ने। साध्ये तयोरन्तरनाडिका या: ता: सावना: स्युर्द्युगता ग्रहस्य।। इति भास्कराचार्योक्तं सङ्गच्छत इति तत्त्वम्।।2-4।।
अथ उदयसाधनमाह—
भगणार्धं रवेर्दत्वा कार्यास्तद्विवरासव:।
तै: प्राणै: कृष्णपक्षे तु शीतांशुरुदयं व्रजेत्।।5।।
कृष्णपक्षे भगणार्द्धं सषड्राशीन् सूर्यस्य दत्वा संयोज्य। तुकारात् चन्द्रस्य अदत्वेत्यर्थ:। तद्विवरासव: तयो: दृक्कर्मसंस्कृतचन्द्रसषड्भसूर्ययो: अन्तरासव: प्रागुक्तप्रकारेण साध्या:। तै: साधितै: असुभिश्चन्द्र: सूर्यास्तानन्तरमुदयं गच्छेत्। अत्रोपपत्ति:। सूर्यास्तकाले सषड्भार्कस्य लग्नत्वात् सूर्ये षड्राशियोजनम् उदयसाधनार्थम्। प्राग्दृग्रहस्यापेक्षितत्वाच्चन्द्रो दृक्कर्मसंस्कृतो यथास्थितो न षड्राशियुक्त:। तद्विवरासुभि: चन्द्रस्य सूर्यास्तानन्तरमुदय: सावनै: तच्चालितचन्द्रात् सूर्यास्तकालिकसषड्भार्काच्च विवरासवो नाक्षत्रा इति। श्रृङगोन्नतिसाधनार्थं दृश्यकाले सूर्यचन्द्रौ साध्यौ इति ज्ञापनार्थं चन्द्रस्य नित्योदयास्तौ उक्तौ अन्येषां ग्रहनक्षत्रादीनां प्रयोजनाभावाद् अनुक्तौ चन्द्रोपलक्षणादुक्तौ वा तत्र शुक्लकृष्णपक्षविवेको न इति ध्येयम्।।5।।
अथ प्रकृतं विवक्षु: प्रथमं तदुपयुक्तभुजकोटिर्णात्मकं क्षेत्रं श्लोकत्रयेण आह—
अर्केन्द्वो: क्रान्तिविश्लेषो दिक्साम्ये युतिरन्यथा।
तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा।।6।।
मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा।
तदाऽर्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा।।7।।
शेषं लम्बज्यया भक्तं लब्धो बाहु: स्वदिङ्मुख:।
कोटि: शंकुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत्।।8।।
सूर्यचन्द्रयो: स्पष्टक्रान्त्योर्दिगैक्येऽन्तरम्। अन्यथा दिग्भेदे योग:। अत्र क्रान्तिशब्द: क्रान्तिज्यापरो ज्ञेय:। उपपत्यविरोधात्। तज्ज्या सा च असौ ज्या च संस्कारसिद्धाङ्कमिता ज्येत्यर्थ:। अर्काच्चन्द्रो यत्र यस्यां दिशि तद्दिका दक्षिणोत्तरा वा असौ ज्या ज्ञेया। एकदिशि रविक्रान्तितश्चन्द्रक्रान्ते: अधिकत्वे सूर्याच्चन्द्रस्य क्रान्तिदिक्स्थत्वेन ज्या क्रान्तिदिक्। ऊनत्वेऽर्कात् क्रान्तिदिग्विपरीतदिक्स्थत्वेन क्रान्तिभिन्नदिक् । भिन्नदिशि चन्द्रक्रान्तिदिग्ज्या ज्ञेया इत्यर्थ:। सा ज्या मध्याह्नेन्दु प्रभाकर्णसङ्गुणा यत्काले चन्द्रश्रृङ्गोन्नत्यर्थं साधितस्तत्काले मध्याह्नच्छायाकर्णवच्छायाकर्णश्चन्द्रस्य साध्य:। स तु अक्षांशचन्द्रस्पष्टक्रान्त्यो: उत्तरदिशि वियोगो दक्षिणदिशि योगस्तदूननवत्यंशज्यया भक्ता द्वादशगुणितत्रिज्येति। उपपत्यनुरोधेन तु मध्याह्नपदं तत्कालपरम्। यत्काले चन्द्रस्तत्काले चन्द्रस्य द्युगतं दिनशेषं वा प्रसाध्य त्रिप्रश्नाधिकारविधिना शङ्कुं प्रसाध्य छायाकर्ण: साध्य:। अह्नोऽहोरात्रस्य मध्यं सूर्यास्तस्तात्कालिक: चन्द्रस्य छायाकर्णो वायमेव भगवदभिप्रेत:। कथमन्यथा चन्द्रस्य श्रृङ्गोन्नतौ दृक्कर्मद्वयसंस्कार: श्रृङ्गोन्नतौ शशाङ्कस्येति प्रागुक्त: सङ्गच्छते। दिनार्द्धातिरिक्तच्छायासाधनार्थमेव दृक्कर्मणो: उपयोगात् अन्यत्र श्रृङ्गोन्नतिगणित उपयोगाभावात्। स्पष्टयक्रान्त्यैव छायाकर्णसिद्धे:। अत्रापि श्लोकपूर्वार्द्धोक्तमेवाक्षदृक्कर्मसंस्कार्यम्। तेन छायाकर्णेन गुणिता इत्यर्थ:। सा तादृशी ज्या यद्युत्तरा तदा द्वादशगुणितायाम् अक्षज्यायां शोध्यान्तरिता। तेन द्वादशगुणिता अक्षज्याधिका तादृशी ज्या। तदापि विपरीतशोधने न क्षति:। यदि दक्षिणा तदा तस्यामेव युक्ता कार्या चोव्यवस्थार्थक:। शेषं संस्कारजं स्वदेशलम्बज्यया भक्तं फलं भुज: प्राप्त:। स्वदिङ्मुख: स्वशब्देन संस्कारस्तस्य दिक् तस्यां मुखमग्रं यस्य असौ। संस्कारदिक्क इत्यर्थ:। भुजस्य कोटिकर्णसापेक्षत्वात् तौ आह। कोटिरिति। शङ्कुर्द्वादशाङ्गुल: कोटि:। तयो: भुजकोट्यो: वर्गयोर्योगात् पदं कर्ण: स्यात्। अत्रोपपत्ति:—स्वाग्रास्वशङ्कुतलयो: समभिन्नदिक्त्वे
योगोऽन्तरं भवति दोरिनचन्द्रदोष्णो: तुल्यांशयोर्विवरमन्यदिशोस्तु योग: स्पष्टो भुजो भवति चन्द्रभुजांश इन्दो: शुद्धे भुजे रविभुजाद्विपरीतदिक्क:। इति सूक्ष्मभुजसाधनं भास्कराचार्येण सिद्धान्तशिरोमणौ उक्तम्। तदुपपत्तिस्तु तट्टीकायां व्यक्ता। अनया रीत्या भुजसाधनार्थं क्रान्तिज्ययो: अग्रे साध्ये। लम्बज्याकोटौ त्रिज्या कर्णस्तदा क्रान्तिज्याकोटौ क: कर्ण इत्यनुपातेन। तत्स्वरूपं तु प्रत्येकं सूर्यचन्द्रयो: सूर्यक्रान्तिज्या त्रिज्यागुणा लम्बज्या भक्ता चन्द्रस्पष्टक्रान्तिज्या त्रिज्यागुणा लम्बज्याभक्ता अनयो: स्वं स्वं शङ्कुतलं संस्कार्यम्। तत्र श्रृङ्गोन्नत्यर्थं सूर्येण भगवता सूर्योदयास्तकालिकगणितस्यैवाभ्युपगमात्। तत्र सूर्यशङ्कोरभावात् तच्छङ्कुतलाभावाच्च सूर्याग्रैव सूर्यभुज: सिद्ध:। चन्द्रस्य तु तदा शङ्को: सद्भावाच्छङ्कुतलमुत्पद्यते तत्तु लम्बज्याकोटौ अक्षज्याभुजस्तदा शङ्कुकोटौ को भुज इत्यनुपातेन तात्कालिकचन्द्रोन्नतनतकालसाधित त्रिप्रश्नाधिकारोक्तचन्द्रमहाशङ्कुगुणिता अक्षज्या लम्बज्याभक्तेति दक्षिणमेव शङ्कुतलस्वरूपम्। इदं चन्द्र दक्षिणाग्रायां योज्यम्। चन्द्रस्य दक्षिणो भुज:। चन्द्रोत्तराग्रायां तु हीनं चन्द्रस्योत्तरो भुज:। चन्द्रोत्तराग्रया हीनमिदं चन्द्रस्य दक्षिणो भुज:। यथा दक्षिणो भुज: वा उत्तरो भुज: अयं चन्द्रभुज: सूर्याग्रयैकदिश्यन्तरितौ भिन्नदिशि युक्त: स्पष्ट: श्रृङ्गोन्नत्युपयुक्तो भुज:। यथा सूर्यस्य दक्षिणगोले इदं भुजद्वयं स्पष्टो भुजो भवति चन्द्रभुजांश इत्युक्ते: दक्षिणम्। सूर्यभुजस्य न्यूनत्वेन शोध्यत्वात्। सूर्यभुजस्याधिकत्वे तु इदं भुजद्वयमुत्तरम्। इन्दो: शुद्धे भुजे रविभुजाद्विपरीतदिक्क इत्युक्ते:। योगे तु उत्तरो भुज: सूर्योत्तरगोलेऽपि इदं भुजद्वयं दक्षिणम्। अन्तरे तु सूर्यभुजस्य न्यूनत्व उत्तरो भुज: सूर्यभुजस्याधिकत्वे तु दक्षिणोऽयं भुज:। इन्दो: शुद्धे भुज इत्युक्तत्वात्। अत्र नवसु पक्षेषु प्रथमपक्षे सूर्यचन्द्रक्रान्तिज्ययो: एकदिशयो: अन्तरं त्रिज्यागुणितं तत्सूर्यक्रान्तिसम्बद्धं चेत् तेनोनाक्षज्येन्दुशङ्कुघातो लम्बज्याभक्त इति। चन्द्रक्रान्तिसम्बद्धं चेत् तेन युतस्तद्धातो लम्बज्या भक्त इति सिद्धम्। तत्राक्षांशानां दक्षिणत्वेनैकदिशि योगार्थं चन्द्रशेषे दक्षिणत्वं सूर्यशेषे उत्तरत्त्वं भिन्नदिशि वियोगार्थं कल्पितम्। युक्तं च एतत्। सूर्यक्रान्त्यधिकत्वे सूर्यात् चन्द्रस्य उत्तरत्वात्। श्रृङ्गोन्नतौ चन्द्रस्यैव प्राधान्याच्च। द्वितीयपक्षे क्रान्तिज्ययो: भिन्नदिशयोर्योगेन तादृशेन तद्घातमूनं कृत्वा लम्बज्यया भजेत् इत्यत्रापि योगस्य अग्रेऽन्तरार्थमुत्तरदिक्त्वं चन्द्रकान्तेरुत्तरत्वेन दक्षिणस्थसूर्यात् चन्द्रस्य सुतराम् उत्तरत्वाच्च। तृतीयपक्षे क्रान्तिज्ययो: एकदिशयो: अन्तरे सूर्यसम्बद्ध एव तादृशे तद्वध ऊन इति वियोगार्थमन्तरस्य उत्तरदिक्त्वम्। द्वयोर्दक्षिणगोलस्थत्वेऽपि अधिकसूर्यात् न्यूनचन्द्रस्य उत्तरत्वात्। चतुर्थपक्षे भिन्नदिशयो: क्रान्तिज्ययोर्योगे तादृशे तद्वध ऊन इति वियोगार्थं योगस्योत्तरदिक्त्वम। चन्द्रस्य उत्तरदिक्स्थत्वात्। पञ्चमपक्षे तु चतुर्थपक्षोक्तं तुल्यत्वात्। षष्ठपक्षे क्रान्तिज्ययोर्भिन्नदिशयोर्योगो दक्षिणस्तद्वधे योगार्थं चन्द्रस्य दक्षिणगोलस्थत्वात्। सप्तमपक्षे क्रान्तिज्ययो: एकदिशयो: अन्तरं सूर्यसम्बद्धं तदा तद्वधे योज्यमित्यन्तरं दक्षिणम्। द्वयो: उत्तरगोलस्थत्वेऽपि चन्द्रस्य न्यूनत्वेन अर्काद् दक्षिणस्थत्वात्। अधिकत्वे तु उत्तरं तद्वधे हीनमिति। अष्टमपक्षे क्रान्तिज्ययो: एकदिशयो: अन्तरे चन्द्रसम्बद्ध उत्तरे तद्वध ऊन:। चन्द्रस्याधिकत्वेन उत्तरस्थत्वात्। अन्त्यपक्षे तु समदिशयो: क्रान्तिज्ययो: अन्तरं सूर्यसम्बद्धं तद्वधे योज्यमिति दक्षिणम्। चन्द्रस्य न्यूनत्वेन दक्षिणस्थत्वात् इत्युपपन्नं प्रथमश्लोकोक्तम्।
अत्र केनचित् क्रान्तिशब्देन चापात्मकक्रान्ती गृहीत्वा तत्संकार: कृतस्तस्य ज्या कार्येति व्याख्यातम्। तदुपपतिविरूद्धम्। न हि भुजसाधने चापात्मकक्रान्ती प्रयोजकत्वेनोपपन्ने। येन व्याख्योक्ता युक्ता। नवा क्रान्तिज्यायोगवियोगाभ्यां चापात्मकक्रान्तियोगवियोगयोर्ज्ये तुल्ये येनोक्तं सङ्गतं स्यात्। अन्यथा अक्षांश क्रान्त्यंशसंस्कारांशज्यां विनापि क्रान्तिज्याक्षज्ययो: संस्कारेण नतांशज्याया: साधनापत्तेरिति दिक्। अथ अयं भुजस्त्रिज्यावृत्त इति लाघवात् तात्कालिके चन्द्रच्छायाकर्णमितवृत्ते स्वेच्छया साधितस्त्रिज्यावृत्तेऽयं भुजस्तदा चन्द्रच्छायाकर्णवृत्ते क इत्यनुपातेन क्रान्तिज्ययो: संस्कारमितमाद्यं खण्डं चन्द्रच्छायाकर्णगुणमिति सिद्धम्। त्रिज्यामितपूर्वगुणस्य इदानीन्तनत्रिज्यामितहरस्य तुल्यत्वेन द्वयोर्नाशाच्च। अथ अपरखण्डं चन्द्रशङ्क्वक्षज्याघातात्मकं चन्द्रच्छायाकर्णगुणं त्रिज्याभक्तं कार्यम्। तत्र त्रिज्याद्वादशघातस्य चन्द्रशङ्कुभक्तस्य छायाकर्णत्वात् शङ्कुत्रिज्यामितयोर्गुणहरयो: प्रत्येकं नाशात् अक्षज्या द्वादश- गुणेति अपरं खण्डं सिद्धम्। द ्वयो: एकदिशि योगो भिन्नदिशि अन्तरमिति संस्कारो लम्बज्या भक्तो भुज: संस्कारदिक्क: सिद्ध:। शङ्कु: कोटिरिति चन्द्रच्छायाकर्णवृत्ते भुजसाधनात्। तद्वृत्ते कोटिरपि साध्या। सा तु नियता द्वादश। नियतकोट्यर्थमेव भुजश्चन्द्रच्छायाकर्णवृत्ते साधित: सूर्योदयास्तयो: सूर्यशङ्को: अभावात् सूर्यशङ्कुसंस्काराभाव:। तदितरकाल उक्तक्रियया न निर्वाह: कोटिभुजयोर्वर्गयोगान्मूलं कर्ण इत्युपपन्नं मध्याह्नेत्यादि श्लोकद्वयोक्तम्।।6-8।।