SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ प्रोक्तेष्टकालांशाभ्याम् अस्तस्य उदयस्य वा गतैष्यत्वज्ञानमाह—
एभ्योऽधिकै: कालभागैर्दृश्या न्यूनैरदर्शना:।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तय:।।9।।
एभ्य एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकै: इष्टकालांशै: दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति। तथा च अस्तसाधने दृश्यत्वे अस्त एष्य:। उदयसाधने दृश्यत्व उदयो गत इति भाव:। अल्पै: इष्टकालांशै: ग्रहा लोके भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां ते। अदृश्या अभीष्टकाले भवन्ति। ननु अदृश्या: कुतो भवन्तीत्यत आह। भानुभाग्रस्तमूर्तय इति। सूर्यासन्नत्वेन सूर्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्यकिरणप्रतिहतलोकनयनाविषया मूर्तिविम्बस्वरूपं येषां त इत्यर्थ:। तथा च अस्तसाधने अदृश्यत्वेऽस्तो गत:। उदयसाधनेऽदृश्यत्व उदय एष्य इति भाव:। अत एव । उक्तेभ्य ऊनाभ्यधिका यदीष्टा:खेटोदयो गम्यगतस्तदा स्यात्। अतोऽन्यथा चास्तमयोऽवगम्य:, इति भास्कराचार्योक्तं सङ्गच्छते।
अत्रोपपत्ति:। उक्त कालांशे यत्काले ग्रहौ साधितौ तत्काल एव ग्रहस्योदयोऽस्तो वा अर्ककृत:। उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतुत्वप्रतिपादनात्। तथा च इष्टकालांशा उक्तेभ्योऽल्पास्तदा ग्रहस्यास्तङ्गतत्वमेवेति उदयसाधन इष्टकालांशा उक्तभ्योऽल्पास्तदेष्टकालात् अग्रे ग्रहस्योदय:। यदीष्टकालांशा उक्तेभ्योऽधिकास्तदेष्टकालाद्ग्रहस्योदय: पूर्वं जात:। एवमस्तसाधन इष्टकालांशा अधिकास्तदेष्टकालात् अग्रे ग्रहास्त:। यदीष्टकालांशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जात इत्युपपन्नमुक्तम्।।9।।
अथ उदयास्तयोर्गतैष्यदिनाद्या-नयनमाह—
तत्कालांशान्तरकला भुक्त्यन्तरविभाजिता:।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिण:।।10।।
उक्तेष्टकालांशयो: अन्तरस्य कला: सूर्यग्रहयोर्गत्यो: कलात्मकान्तरेण भक्ता:। दिनादिकमुदयास्तयो: फलमुदयास्तयोर्गतैष्यदिनाद्यं भवतीत्यर्थ:। वक्रगतिग्रहस्य विशेषमाह। लब्धमिति। वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयो: कलात्मकगतियोगेन भक्ता: फलं गतैष्यदिनाद्यं ज्ञेयम्। अत्रोपपत्ति:। सूर्यग्रहयोर्गत्यन्तरकलाभिरेकं दिनं तदेष्टप्रोक्तकालांशयो: अन्तरकलाभि: किमित्यनुपातेन उदयास्तयो: अभीष्टकालाद्गतैष्यदिनाद्यवगम:। वक्रग्रहे तु सूर्यग्रहयोर्गतियोगेन प्रत्यहमन्तरवृद्धेर्गतियोगात् अनुपात उपपन्न इत्युपपन्नमुक्तम्।।10।।
अथ ग्रहगतिकलयो: क्रान्तिवृत्तस्थत्वात् कालांशान्तरस्य अहोरात्रवृत्तस्थत्वाच्च अनुपात: प्रमाणेच्छयो: वैजात्येन आयुक्त इति मनसि धृत्वा तयो: एकजातित्वसम्पादनार्थं ग्रहगत्यो: इच्छाजातीयत्वं वदन् तदन्तरेण अनुपातस्तु युक्त एवेत्याह-
तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते।
स्यातां कालगती ताभ्यां दिनादिगतगम्ययो:।।11।।
भुक्ती रविग्रहयोर्गती कलात्मके तल्लग्नासुहते कालसाधनार्थं गहस्य यो राश्युदयो गृहीतस्तेनास्वात्मकोदयेन गुणित अष्टादशशतेन भक्ते फले सूर्यग्रहयो: कालांशवत् कालगती स्याताम्। ताभ्यां गतिभ्यां गतगम्ययो: उदयास्तयोर्दिनादिपूर्वोक्तप्रकारेण साध्यम्। न तु पूर्वोक्तप्रकारेण यथास्थितगतिभ्यां स्थूलत्वापत्ते:। अत्रोपपत्ति:। एकराशिकलाभी राश्युदयासवस्तदा गतिकलाभि: क इत्यनुपातेन अहोरात्रवृत्ते गत्यसव: कलासमा इत्युपपन्नमुक्तम्।।11।।
अथ नक्षत्राणां सूर्यसान्निध्यवशात् अस्तोदयज्ञानार्थं कालांशान् विवक्षु: प्रथममेषामाह—
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठा: पुनर्वसु:। अभिजिद् ब्रह्महृदयं त्रयोदशभिरंशकै:।।12।।
मृगव्याधो लुब्धक:। त्रयोदशभि: कालांशै: दृश्यानि नक्षत्राणि भवन्ति। शेषं स्पष्टम्।।12।।
अथ अन्येषामेषामाह—
हस्तश्रवणफाल्गुन्य: श्रविष्ठा रोहिणी मघा:।
चतुर्दशांशकैर्दृश्या विशाखाऽश्विनिदैवतम्।।13।।
फाल्गुनी पूर्वोत्रराफाल्गुनीद्वयम्। अश्विनिदैवतम् अश्विनीकुमारो दैवतं स्वामी यस्य इति अश्विनीनक्षत्रम्। दृश्या उपलक्षणात् अदृश्या अपि। लिङ्गपरिणामश्च यथायोग्यं बोध्य:। शेषं स्पष्टम्।।13।।
अथ अन्येषामेषामाह—
कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च।
दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा।।14।।
कृत्तिकानुराधामूलनक्षत्राणि पञ्चदशभि: कालांशै: दृश्यन्ते। उपलक्षणान्न दृश्यन्तेऽपि। एवकारो न्यूनाधिकव्यवच्छेदार्थ:। आश्लेषार्द्रा। च: समुच्चये। आषाढाद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदशकलांशै: दृश्यन्त इत्यर्थ:।।14।।
अथ अन्येषाम् अवशिष्टानां च आह—
भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रि:सप्तकांशकै:।
शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु।।15।।
तिष्य: पुष्य: सोमदैवतं मृगशिरो नक्षत्रमेतानि नक्षत्राणि सौक्ष्म्यात् अणुविम्बत्वात् त्रि:सप्तकांशकै: एकविंशतिकालांशैर्दृश्यादृश्यानि। उदितानि अस्तङ्गतानि च भवन्तीत्यर्थ:। शेषाणि पूर्वाधिकारोक्तनक्षत्रेषु उक्तातिरिक्तानि शततारापूर्वोत्तराभाद्रपदारेवतीसंज्ञानि। वह्निब्रह्मापांवत्सापसंज्ञानि च सप्तदशभि: कालांशैर्दृश्यादृश्यानि भवन्ति। तुकारो दृश्यादृश्यानीत्यत्र समुच्चयार्थक:।।15।।
अथ दिनाद्यानयनार्थमिच्छाया एव प्रमाणजातीयकरणत्वमाह—
अष्टादशशताभ्यस्ता दृश्यांशा: स्वोदयासुभि:।
विभज्य लब्धा: क्षेत्रांशास्तैर्दृश्याऽदृश्यताऽथवा ।।16।।
दृश्यांशा: कालांशा अष्टादशशतगुणितास्तान् स्वोदयासुभिर्ग्रहराश्युदयासुभि: भक्ता लब्धा: क्षेत्रांशा: क्रान्तिवृत्तसंस्थांशास्तै: अंशै: दृश्यादृश्यता। उदयास्तौ प्रकारान्तरेण उक्तरीत्या ज्ञेयौ। कालांशाभ्यां क्षेत्रांशौ आनीय तदन्तरकला यथास्थितगत्यो: अन्तरेण योगेन वा भक्ता: फलम् उदयास्तयोर्गतैष्यदिनाद्यं पूर्वागतमेव स्यात् इत्यर्थ:। अत्रोपपत्ति:।राश्युदयासुभि: एकराशिकलास्तदा कालांशकला तुल्यासुभि: का इति क्रान्तिवृत्ते कलास्ता: षष्टिभक्ता अंशा इति पूर्वमेव इच्छास्थाने कालांशा एव धृता लाघवात्। इत्युक्तमुपपन्नम्।।16।।
ननु ग्रहाणाम् अमुकदिश्यस्तोऽ मुकदिश्युदय इत्युक्तम्। तथा नक्षत्राणां नोक्तम्। गत्यभावाद्वियोगयोगासम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह—
प्रागेषामुदय: पश्चादस्तो दृक्कर्म पूर्ववत्।
गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि।।17।।
एषां नक्षत्राणां प्राच्याम् उदय: प्रतीच्याम् अस्तो गत्यभावात् अल्पगति ग्रहवत्। एषां नक्षत्राणां दृक्कर्माक्षदृक्कर्म पूर्ववत् पूर्वप्रकारेण कार्यम्। परन्तु श्लोकपूर्वार्द्धोक्तमिति ध्येयम्। सदा नित्यम्। एवकारात् कदाचिदपि अन्यथा न इत्यर्थ:। हि निश्चयेन। रविगत्या गतैष्यदिवसानां लब्धि: स्यात् नक्षत्रगत्यसम्भवात्। योगे ग्रहगतिवत्।।17।।
अथ कतिपयानां नक्षत्राणां सूर्यसान्निध्यवशादस्तो नास्तीत्याह—
अभिजिद् ब्रह्महृदयं स्वातिवैष्णववासवा:।
अहिर्बुघ्न्यमुदक्स्थत्वान्न लुप्यन्तेऽर्करश्मभि:।।18।।
अभिजित्। ब्रह्महृदयम्। अनेन एकदेशस्य ब्रह्मणोऽपि ग्रहणम्। स्वातीश्रवणधनिष्ठा:। अहिर्बुन्ध्यमुत्तराभाद्रपदा। एतानि नक्षत्राणि उत्तरदिक्स्थत्वात् उत्तरविक्षेपाधिक्यात् इत्यर्थ:। सूर्यकिरणैर्न लुप्यन्ते। अस्तं न यान्तीत्यर्थ:। अत्रोपपत्ति:। यस्योदयार्कादधिकोऽस्तभानु: प्रजायते सौम्यशरातिदैर्घ्यात्। तिग्मांशुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमय: कथञ्चित्।। इति भास्कराचार्योक्ता। परमिदमुक्तमष्टाक्षभायाम्। अन्यथा पूर्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक्।।18।।