SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ इष्टकालांशानयनमाह—
ततो लग्नान्तरप्राणा: कालांशा: षष्टिभाजिता:।
प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासव:।।5।।
ततस्तभ्यां सूर्यदृग्ग्रहाभ्यां लग्नान्तरप्राणा: भोग्यासूनूनकस्य अथ इत्युक्तप्रकारेणान्तरकालासव: षष्टिभक्ता इष्टा: कालांशा भवन्ति। प्रागुदयास्तसाधने प्रतीच्यां पश्मिमोदयास्तसाधने षड्भयुतयो: षड्राशियुतयो: सूर्यदृग्ग्रहयो: लग्नान्तरासव:। अन्तरासवस्तद्वत् षष्टिभक्ता इष्टकालांशा भवन्तीत्यर्थ:। अत्रोपपत्ति दृग्ग्रहसूर्याभ्यामन्तरकालो ग्रहस्य सूर्योदयकाले दिनगतं पूर्वोदयास्त निमित्तमुपयुक्तम्। एवं पश्चिममोदयास्तनिमित्तं सूर्यदृग्ग्रहाभ्याम् अस्तकालासुभि: अन्तरकाल: सूर्यास्तकाले ग्रहस्य दिनशेषकाल उपयुक्त:। तत्र अस्तकालानाम् अनुक्ते: उदयासुभि: साधनार्थं सषड्भौ सूर्यदृग्ग्रहौ कृतौ स कालोऽस्वात्मक:। अहोरात्रासुभि: चक्रकला तुल्यैश्चक्रांशा लभ्यन्ते तदेष्टासुभि: क इत्यनुपाते प्रमाणफलयो: फलापवर्तनेन हरस्थाने षष्टि:। अतोऽस्वात्मकान्तरकाल: षष्टिभक्त इष्टकालांशा इत्युपपन्नमुक्तम्। अत्रेदमवधेयम्। सूर्योदयकालिकाभ्याम् अर्कदृग्ग्रहाभ्याम् आनीतेन दिनगतेन पूर्वं चाल्यो दृग्ग्रह: सूर्यास्तकालि काभ्यां सषड्भाभ्याम् अर्कदृग्ग्रहाभ्याम् आनीतेन दिनशेषेण अग्रे चाल्य: सषड्भो दृग्ग्रह:। क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवत:। ताभ्यां सूर्यसषड्भसूर्याभ्यां च क्रमेण पूर्वरीत्यान्तरकालो ग्रहस्य सूर्योदयास्तकाले क्रमेण दिनगतशेषौ नाक्षत्रौ षष्टिभक्तौ कालांशौ इष्टौ सूक्ष्मौ। अथ इष्टकालिकाभ्याम् आनीतकालेन पूर्ववच्चालिताभ्यां प्राक्पश्चिमदृग्ग्रहाभ्यां सूर्यसषड्भसूर्याभ्यांक च आनीतकालो नाक्षत्रोऽपि सूक्ष्मासन्न: सूर्योदयास्तसम्बन्धाभावात् तदुत्पन्ना: कालांशा अपि तथा। अथ सूर्योदयास्तकालिकाभ्याम् आनीतैकवारं कालात् कालांशा: स्थूला इष्टकालिकाभ्याम् आनीतैकवारकालात् कालांशा अतिस्थूला उभयत्र कालस्य सावनत्वात्। न हि सावनषष्टिघटीभि: चक्रपरिपूर्तिर्येन सूक्ष्मा: सिद्ध्यन्तीति।।5।।
अथ यै: कालांशै: उदयोऽस्तो वा भवति तान् विवक्षु: प्रथमं गुरुशनिभौमानां कालांशानाह—
एकादशामरेज्यस्य तिथिसंख्याऽर्कजस्य च।
अस्तांशा भूमिपुत्रस्य दश सप्ताऽधिकास्तत:।।6।।
तत इष्टकालांशावगमानन्तरमस्तांशा:। अस्तो यै: अंशै: भवति तेऽशा अस्तोपलक्षणाद् उदयांशा ज्ञेया:। अमरेज्यस्य गुरो: एकादशकालांशा:। शने: पञ्चदशसंख्या: कालांशा:। च: समुच्चये। भौमस्य सप्ताधिकादश सप्तदशकालांशा इत्यर्थ:।।6।।
अथ शुक्रस्य आह—
पश्चादस्तमयोऽष्टाभिरुदय: प्राङ्महत्तया।
प्रागस्तमुदय: पश्चादल्पत्वाद्दशभिर्भृगो:।।7।।
शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलविम्बतया पश्चिमायाम् अस्तोऽष्टाभि: कालांशै: प्राच्याम् उदयश्च तै:। नाधिकै:। प्राच्यां शुक्रस्य अल्पत्वात् अणुविम्बत्वात् दशभि: कालांशै: अस्तं गणक: कुर्यात्। नाल्पै:। पश्चिमायाम् उदयस्तस्य अणुविम्बस्य दशभि: कालांशैरेव ज्ञेय:।।7।।
अथ बुधस्य आह—
एवं बुधो द्वादशभिश्चतुर्दशभिरंशकै:।
वक्री शीघ्रगतिश्चार्कात् करोत्यस्तमयोदयौ।।8।।
वक्री शीघ्रगति:। च: समुच्चये। बुध: सूर्यात् द्वादशभिश्चतुर्दशभिश्च कालांशै: अस्तोदयौ। एवं शुक्ररीत्या करोति। पश्चादस्तं प्रागुदयं च द्वादशभि: कालांशैर्महाविम्बतया बुध:करोति। प्रागस्तं पश्चादुदयं च चतुर्दशभि: कालांशै: अणुविम्बत्वात् बुध: करोतीत्यर्थ:।।8।।