SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
तत्र प्रथमं प्रञ्चताराणां पश्चिमास्तपूर्वोदयौ आह—
सूर्यादभ्याधिका: पश्चादस्तं जीवकुजार्कजा:।
ऊना: प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा।।2।।
वक्रगती शुक्रबुधौ तथा सूर्यादधिकौ पश्चिमास्तं गच्छत: सूर्यादल्पौ पूर्वोदयं प्राप्नुत:। शेषं स्पष्टम्।।2।।
अथ चन्द्रबुधशुक्राणां पूर्वास्तपश्चिमोदयौ आह—
ऊना विवस्वत: प्राच्यामस्तं चन्द्रज्ञभार्गवा:।
व्रजन्त्यभ्यधिका: पश्चादुदयं शीघ्रयायिन:।।3।।
शीघ्रयायिन: सूर्यगत्यधिकगतय इत्यर्थ:। एतेन बुधशुक्रौ अर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधिकौ च पश्चिमोदयं न प्राप्नुत इत्युक्तम्। शेषं स्पष्टम्। अत्रोपपत्ति:। रविगतितोऽल्पगति: ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शनयोग्यो भवितुमर्हति। यत: सूर्यास्याधिकत्वेन बहुगतित्वात् च उत्तरोत्तरमधिकविप्रकर्षात् प्रवहवशेन न्यूनस्य पूर्वमुदयात् अधिकस्यानन्तरमुदयनियमाद् ग्रहविम्बस्य प्राक्क्षितिजसंलग्नताकालानन्तरं यावत् सूर्यस्य तादृश: कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात्। एवं यदाल्पगति: सूर्यादधिकस्तदा प्रवहवशेन अर्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यासम्भवात् सूर्यास्तानन्तरं पश्चिशमभागे ग्रहदर्शनसम्भवेऽप्यधिकगतिसूर्यस्य पृष्ठस्थितत्वेन उत्तरोत्तरमधिसन्निकर्षात् पश्चिमायामदर्शनं सम्भवत्येव। ते तु भौमगुरुशनय:। वक्रत्वे न्यूनगतित्वात् बुधशुक्रौ च इति। अथ अर्कगतितोऽधिकगतिग्रह:सूर्यादूनस्तदोक्तरीत्या उत्तरोत्तरमधिकसन्निकर्षात् पूर्वस्मिन् अदर्शनं याति। यदा सूर्यादधिकस्तदोक्तरीत्या उत्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदय:। ते तु शीघ्रा: चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम्।।3।।
अथ अभीष्टदिन आसन्ने सूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं कार्यौ इत्याह—
सूर्यास्तकालिकौ पश्चात् प्राच्यामुदयकालिकौ।
दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु।।4।।
पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिने आसन्ने सूर्यग्रहौ सूर्यास्तकालिकौ कुर्याद्गणक:। पूर्वास्तोदयसाधने सूर्योदयकालिकौ कुर्यात्। दिनेऽभीष्टकाले कुर्यात्। चकारो विकल्पार्थक:। अनन्तरं ग्रहस्य दृक्क्कर्म। आयनाक्षदृक्कर्मद्वयं कुर्यात्। तुकार आक्षदृक्कर्मश्लोकपूर्वार्द्धोक्तमिति विशेषार्थक:। अत्रोपपत्ति:। पश्चादस्तोदयसाधने पश्चिमायां तद्दर्शनमिति सूर्यास्तकालिकौ सूर्यग्रहौ इष्टकालांशसाधनार्थं सूक्ष्मौ। पूर्वोदयास्तसाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौ सूर्यग्रहौ इष्टकालांशसाधनार्थं सूक्ष्मौ अन्यकाले तु किञ्चित् स्थूलौ अपि कृतौ दृक्कर्मसंस्कृत ग्रहस्य सूर्यवत् क्षितिजसंलग्नतायोग्यत्वात् दृक्कर्मसंस्कृतो ग्रह: कार्य इति।।4।।