SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ उदयास्ताधिकारो व्याख्यायते। ननु सूर्येणास्तमनं सहेति प्रागुक्तेर्ग्रहयुत्यरधिकारानन्तरं नक्षत्रग्रहयुत्यधिकारात् प्रागेवोदयास्ताधिकारो निरूपणीय इत्यतोऽत्र तत्सङ्गतिप्रदर्शनार्थमादौ तदधिकारं प्रतिजानीते—
अथोदयास्तमययो: परिज्ञानं प्रकीर्त्यते।
दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्।।1।।
अथ नक्षत्रग्रहयुत्यधिकारानन्तरं सूर्यकिरणाभिभूता मूर्तिर्विम्बं येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां च। अतएवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययो:। अग्रिमकाले सूर्यादधिकासन्निहित सन्निहितत्वसम्भावनया क्रमेणोदयास्तयो: सूर्यान्नि:सृतस्य यस्मिन् काले यदन्तरेण प्रथमदर्शनं सम्भावितं स उदय:। सूर्याद्दूरस्थितस्य यस्मिन् काले यदन्तरेण प्रथमादर्शनं सम्भावितं सोऽस्त:। अनेन नित्योदयास्तव्यवच्छेदस्तयोरित्यर्थ:। परिज्ञानं सूक्ष्मज्ञानप्रकार: प्रकीर्त्यते। अतिसूक्ष्मत्वेन मयोच्यत इत्यर्थ:। तथा च ग्रह इत्युद्देशेऽस्तमनमुद्दिष्टमपि तस्य पूर्वमेव सूर्यासमत्व एव सम्भवात् तद्विलक्षणतया ग्रहयुतिप्रसङ्गेनोक्तम्। नक्षत्रग्रहयुतिस्तु ग्रहयुतिवदिति तदनन्तरमुक्ता। अत: प्रतिबन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्या वसरसङ्गतित्वात् तत्सङ्गत्या नक्षत्रग्रहयुत्यधिका-रानन्तरं प्रागुद्दिष्टमस्तमनं तत्प्रसङ्गादुदयश्च प्रतिपाद्यत इति भाव:।।1।।