-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


सत्ययुगादिमानस्य उपपत्ति:। सन्धिमानम्।
Satyayugadimanasya upapatti | Sandhimanam

अथ सर्वधर्मचरणयोगेन दशमितेन महायुगं भवति तर्हि स्वस्वधर्मचरणै: किमित्यनुपातेन पूर्वोक्तफलितेन कृतादियुगानां मानज्ञानं सविशेषमाह—

युगस्य दशमो भागश्चतुस्त्रिद्व्येकसंगुण:।
क्रमात्कृतयुगादीनां षष्ठांश: सन्ध्ययो स्वक:।।17।।

प्रागुक्तदिव्यवर्षद्वादशसहस्रमितस्य युगस्य दशमो भागो दशांश इत्यर्थ:। चतुर्द्धा क्रमेण चतुस्त्रिद्व्येकैर्गुणित:। गुणक्रमात् कृतयुगादीनां कृतत्रेताद्वापरकलियुगानां मानं स्यात् इति शेष:। ननु मनुग्रन्थे कृतादिमानं दिव्यवर्षप्रमाणेन 4000, 3000, 2000, 1000, अत्र तु तन्मानं तद्वर्षप्रमाणेन 4800, 3600, 2400, 1200, इति विरोध इत्यत आह-षष्ठ इति। स्वक: स्वसम्बन्धी षष्ठो विभाग: सन्ध्ययो: आद्यन्तसन्ध्ययो: ऐक्यकाल इति शेष:। तथा च मदुक्तमानानि 4800, 3600, 2400, 1200, एषां षडंशा: 800, 600, 400, 200, एते स्वस्वयुगानाम् आद्यन्तयो: सन्ध्योर्योगा इत्येषामर्धं सन्धिकाल:। प्रत्येकमाद्यन्तयो: सन्धिकाल: 400, 300, 200, 100, अनेन प्रत्येकं मदुक्तमानं न्यूनीकृतं ग्रन्थान्तरोक्तं केवलं मानं भवति न स्वसन्धिभ्यां सहितम्। यथा कृतादिसन्धि: 400, कृतमानम् 4000, कृतान्तसन्धि: 400, त्रेतादिसन्धि: 300, त्रेतामानं 3000, त्रेतान्तसन्धि: 300, द्वापरादिसन्धि: 200, द्वापरमानं 2000, द्वापरान्तसन्धि: 200, कल्यादिसन्धि: 100, कलिमानं 1000, कल्यन्तसन्धि: 100, एवं च स्वसन्धिभ्यां सहितं मयोक्तं स्वसम्बन्धात् सन्ध्ययोस्तदन्तर्गतत्वाच्चेति न विरोध इति भाव: ।।17।।