SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ भग्रहयोगसाधनार्थं ग्रहयोगसाधनरीतिमाह—
ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत्।
ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च।।14।।
ग्रहवद्द्युनिशे ग्रहाणां यथा दिनरात्रिमाने आक्षदृक्कर्मार्थं कृते तथा दिनमानरात्रिमाने भानां नक्षत्रध्रुवकाणामाक्षदृक्कर्मार्थं गणक: कुर्यात्। तदनन्तरं पूर्ववन्नक्षत्रनित्योदयास्तौ साधयित्वाभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषुवच्छाययाभ्यस्तावित्यादिनेत्यर्थ:। दृक्कर्म कुर्यात्। अत्र नक्षत्रध्रुवके पर्वतेनायनदृक्कर्मापि उदाहरणे कृतं तदयुक्तम्। तस्य ध्रुवके स्वत: सिद्धत्वात्। तदनन्तरं शेषं नक्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं ग्रहमेलकवद्ग्रहयोगसाधनरीत्या ग्रहान्तरकला इत्यादिना कार्यम्। ननु तत्र ग्रहान्तरकला: स्वस्वभुक्तिलिप्तासमाहता:। भुक्त्यन्तरेण विभजेदित्युक्तेर्नत्रस्य का गतिर्ग्राह्या इत्यत आह ग्रहभुक्त्येति। केवलया ग्रहगत्या ग्रहस्य फलं ग्रहध्रुवान्तररूपग्रहे संस्कार्यं ध्रुवसमो ग्रहो भवति। नक्षत्रस्य पूर्वगत्यभावाद्ध्रुवो यथास्थित इत्यर्थ:। ननु तयापि ग्रहनक्षत्रयुतिकालसाधनं भुक्त्यन्तरासम्भवात् कथं कार्यमिति मन्दाशङ्केत्यत आह। दिनानीति। अभीष्टसमयाद्विवरमित्यादिना केवलया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि। च: समुच्चये। नक्षत्राणां गत्यभावात्।।14।।
अथाभीष्टकालाद् ग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थं पुनराह—
एष्यो हीने ग्रहे योगो ध्रुवकादधिके गत:।
विपर्ययाद् वक्रगते ग्रहे ज्ञेय: समागम:।।15।।
नक्षत्रध्रुवाक्ताद्ग्रहायनदृकृकर्मसंस्कृतग्रह आक्षदृक्कर्मसंस्कृतनक्षध्रुवकात्। दृक्कर्मद्वयसंस्कृत-ग्रह इति विवेकार्थ:। न्यूने सति योगो नक्षत्रग्रहयोग: स्वाभीष्टसमयाद्भावी अधिके सति पूर्वं जात:। वक्रगते ग्रहे विपर्ययादुक्तवैपरीत्यात् समागमो नक्षत्रग्रहयोगो ज्ञेय:। हीने ग्रहे गतोऽधिके ग्रह एष्यो योग:। अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदा स्थिरत्वाद्ग्रहगमनेनैव योगसम्भवादिति सुगमतरा।।15।।