-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
नक्षत्रग्रहयुत्यधिकार: 8


अगस्त्य-लुब्धक-वह्नि-ब्रह्महृदयताराणां ध्रुवकविक्षेपा:।
Agastya-Lubdhak-bahnni-brahmahridayataranam dhrubakbikhyepa

अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तiदुपपत्तिं श्लोकत्रयेणजाह—

अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तग:।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थित:।।10।।
विक्षेपो दक्षिणे भागै: खार्णवै: स्वादपक्रमात्।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ।।11।।
अष्टाभिस्त्रंशता चैव विक्षिप्तावुत्तरेण तौ।
गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्।।12।।

स्वकीयात् क्रान्तिविभागस्थानाद्दक्षिणस्यामशीत्यंशैस्‍तारात्मकोऽगस्त्यो मिथुनान्तग: कर्कादिभागे स्थित:। अगस्त्यनक्षत्रस्य राशित्रयं ध्रुवका:। दक्षिणविक्षेपोऽशीतिरित्यर्थ:। मृगव्याधो लुब्धको मिथुनराशेर्विंशतिभागे स्थित:। चकार: समुच्चये। लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थ:। दक्षिणस्यां चत्वारिंशता भागै: परिमितस्तस्य च क्रान्तिवृत्तस्थानाद्विक्षेप:। वृषराशौ बह्निब्रह्मदृदयौ वह्निब्रह्महृदयनक्षत्रयोर्द्वाविंशतिभागाधिकैकराशिर्ध्रुवक:। तौ वह्निब्रह्महृदयौ। अष्टाभि स्त्रिंशता। चकार: क्रमार्थे। एवकारो न्यूनाधिकव्यवच्छेदार्थ: उत्तरेणोत्तरस्यामित्यर्थ:। विक्षिप्तौ विक्षेपवन्तौ। वह्नेर्विक्षेपोऽष्टभाग उत्तर:। ब्रह्महृदयस्योत्तरो विक्षेपस्त्रिंशदित्यर्थ:। नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियता अनियता वेत्यत आह। गोलमिति । गोलं वक्ष्यमाणं बध्वा वंशशलाकादिभिर्निबध्य स्फुटं विक्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवाभिमुखं ध्रुवकं स्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत। स्वस्वकाले दृग्गोचरसिद्धमङ्गीकुरूत। तथा च क्रान्तिसंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघवार्थमायनदृक्कर्मसंस्कृता ध्रुवा: क्रान्तिसंस्कारयोग्यविक्षेपाश्च नियता उक्ता:। कालान्तरे गोलयन्त्रेण वेधसिद्धा ज्ञेया:। नैत इति भाव:। गोलयन्त्रेण वेधस्तु गोलबन्धोक्तविधिना गोलयन्त्रं कार्यम्। तत्र खगोलस्योपरि भगोलमाधारवृत्तस्योपरि विषुवद्वृत्तम्। तत्र यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा ध्रुवयष्टिकीलयो: प्रोतमन्यच्चलं भवेधवलयम्। तच्च भगणांशाङ्कितं कार्यम्। ततस्‍तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टयाश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्वेधवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च य: सम्पात: स मीनान्तादग्रतो यावद्भिमरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेया:। वेधवलये तस्यैव सम्पातस्य योगतारायाश्च यावन्तोऽन्तरेंऽशास्तविन्तस्य विक्षेपांशा दक्षिणा उत्तरा वा वेद्या:। अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिरा ध्रुवका आयनदृक्कर्मासंस्कृता: परन्तु कदम्बतारयोरमावादशक्यसमिति ध्रुवा: यथोक्तवेधेनैवायनदृक्कर्मसंस्कृता ध्रुवाभिमुखा: स्फुटा: सिद्धा भवन्तीति दिक्।।10-12।।