-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
नक्षत्रग्रहयुत्यधिकार: 8


नक्षत्रध्रुवकज्ञानम्। Nakshyatradhrubakgyanam

अथ प्रसङ्गादारब्धो नक्षत्रग्रहयुत्यधिकारो व्याख्यायते। तत्र प्रथमं नक्षत्राणां ध्रुवकज्ञानमाह—

प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहत:।
भवन्त्यतीत्यधिष्ण्यानां भोगलिप्तायुता ध्रुवा:।।1।।

भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका भोगसंज्ञा: कला: प्रोच्यन्ते समनन्तरमेव कथ्यन्ते। अथानन्तरं स्वभोग: स्वाभीष्टनक्षत्रभोग: कलात्मको वक्ष्यमाणो दशभिर्गुणित: कार्य:। तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ता:। भभोगोऽष्टशती लिप्ता इत्युक्ताष्टशतकला: प्रत्येकं युता:। अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतं युतमित्यर्थ:। ध्रुवा नक्षत्राणां भवन्ति।।1।।

अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह—

अष्टार्णवा: शून्यकृता: पञ्च षष्टिर्नगेषव:।
अष्टार्था अब्धयोऽष्टांगा अङ्गागा मनवस्तथा।।2।।
कृतेषवो युगरसा: शून्यबाणा वियद्रसा:।
खवेदा: सागरनगा गजागा: सागरर्तव:।।3।।
मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम्।
आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थिति:।।4।।
त्रिचतुष्पादयो: सन्धौ श्रविष्ठा श्रवणस्य तु।
स्वभोगतो वियन्नागा: षट्कृतिर्यमलाश्विन:।।5।।
रन्ध्राद्रय: क्रमादेषां विक्षेपा: स्वादपक्रमात्।
दिङ्मासविषया: सौम्ये याम्ये पञ्चदिशो नव।।6।।
सौम्ये रसा: खं याम्येऽगा: सौम्ये खार्कास्त्रयोदश।
दक्षिणे रुद्रयमला: सप्तत्रिंशदथोत्तरे।।7।।
याम्येऽध्यर्धत्रिककृता नव सार्धशरेषव:।
उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशदेव हि।।8।।
दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे।
भागा: षड्-विंशति: खं च दस्रादीनां यथाक्रमम्।।9।।

अश्विन्यादिक्षत्रणाणां क्रमाद्भोगा एते। तत्र अश्विन्यामष्टचत्वारिंशत् कला:। भण्याश्चत्वारिंशत्। कृत्तिकाया: कला: पञ्चषष्टि:। रोहिण्या: सप्तपञ्चाशत्कला:। मृगशिरसोऽष्टपञ्चाशत्। आर्द्रायाश्चत्वार:। अत्राब्धय इत्यत्र गोऽब्धयो गोग्नय इति वा पाठस्तु अयुक्त:। शाकल्यसंहिताविरोधात्। एतेन सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोगाब्धय:कला:। इति नार्मदोक्तं दशकलोनपञ्चदशभागा मिथुने सर्वजनाभिमतध्रुवको दशकलायुतत्रयोदशभागा: पर्वताभिमतध्रुवकश्च निरस्त:। पुनर्वसोरष्टसप्तति:। पुष्यस्य षट्सप्तति:। आश्लेषायारचतुर्दश। तथेति छन्द: पूरणार्थम्। मघाया: चतु:पञ्चाशत्। पूर्वाफाल्गुन्याश्‍चतु:षष्टि:। उत्तराफाल्गुन्या: पञ्चाशत्। हस्तस्य षष्टि:। चित्रायाश्चत्वारिंशत्। स्वात्याश्चचतु:सप्तति:। विशाखाया अष्टसप्तति:। अनुराधायाश्चतु:षष्टि:। ज्येष्ठायाश्चतुर्दश। अनन्तरं मूलस्य षट्। पूर्वाषाढायारचत्वार: उत्तराषाढाया ध्रुवकमाह। वैश्वमिति। उत्तराषाढायोगतारानक्षत्रम्। आप्यार्द्धभोगगम्। आप्यस्य पूर्वाषाढानक्षत्रस्यार्द्धभोग:। धनूराशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम्। अष्टौ राशयो विशंतिभागा उत्तराषाढाया ध्रुव इत्यर्थ:। एतेन पूर्वाषाढायोगताराया: सकाशादुत्तराषाढायोगतारा विशंतिकलोनसप्तभागान्तरिता। तेन पूर्वाषाढाध्रुवकोऽष्टराशयश्चतुर्दशभागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढाया: ध्रुवश्चत्वारिंशत्कलाधि-कोक्तध्रुव इति पर्वतोक्तमपास्तम्। ब्रह्मसिद्धान्तविरोधात्। अभिजिद्ध्रुवकमाह। आप्यस्येति। पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया। चत्वारिंशत्कलाधि-कषड्-विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थ:। एवकारोऽन्ययोगव्यवच्छेदार्थ:। ते संहिता सम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतरचतुर्दशभागादिकनवराशयो निरस्तम्। श्रवणस्य ध्रुवकमाह। वैश्वान्त इति। उत्तराषाढाया अवसाने श्रवणयोगताराया: स्थानं ज्ञेयम्। नवराशयो दशभागा: श्रवणध्रुवक इत्यर्थ:। धनिष्ठाया ध्रुवकमाह। त्रिचतु: पादयोरिति श्रवणस्य तृतीयचतुर्थचरणयो: क्रमेणान्तादिसन्धौ मकरराशेर्विशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया। नवराशयो विशंतिभागा धनिष्ठाध्रुव इत्यर्थ:। तुकारात् क्षेत्रान्तर्गतधनिष्ठा स्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम्। शतताराया भोगमाह। स्वभोगत इति। धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यइर्थ:। शतताराया अशीतिर्भोग:। अत: प्राग्वद्ध्रुवा इति ज्ञापनार्थं स्वभोगत इत्युक्तम्। शतताराया: स्थानं शततारकाध्रुव इति पर्यवसन्नम्। अवशिष्टनक्षत्राणां भोगानाह। षट्कृतिरिति। पूर्वाभाद्रपदाया: षट्त्रिंशत्कलाभोग:। उत्तराभाद्रपदाया: द्वाविंशति:। रेवत्या एकोनाशीति:। अथ ध्रुवकानयनं यथा। अश्विन्या भोग: 48 दशगुणित: 480 अतीतनक्षत्राभावाद्भोगयोजनाभाव:। अतोऽश्विन्या: कलात्मको ध्रुव:480 राश्याद्यस्तु 8 भरण्या भोग:40 दशाहत:400 अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्या: परिभाषया राश्याद्यो ध्रुव: 0,20 एवमार्द्राभोग:4 दशहत:40 अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन 4000 चतु: सहस्रात्मकेन युत: कलाद्यो ध्रुव: 4040 राश्याद्यस्तु 2,7,20 एवं पूर्वाषाढाया दशगुणितो भोग:40 एकोनविंशतिगुणिताष्टशतेन 15200 युत: परिभाषया राश्याद्यो ध्रुव:8,14 शतताराया दशगुणितो भोग: 800 त्रयोविंशतिगुणिताष्टशतेन 18400 युतश्चर्विंशति गुगिताष्टशतरूपो 19।200 जातो ध्रुवो राश्याद्य: 10,20 पूर्वाभाद्रपदाया दशगुणितो भोग:360 चतुर्विशतिगुणिताष्टशतेन 19200 युतो 19560 जातो ध्रुवो राश्याद्य: 10, 26 उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद् भिन्नरीत्याा ध्रुवका उक्ता: स्वादिस्थानाद्योगतारा यदन्तरकलाभिस्थितास्ता लाघवाद् दशापवर्तिता भोगसंज्ञा उक्ता:। तथा च ब्रह्मसिद्धान्ते। अष्टौ विंशतिरर्द्धेन गजाग्निव्यर्द्धखेषव:। त्रितर्का: सत्रिभागाद्रिरसास्त्र्यङ्काश्च षट्शतम्।। नवाशा नवसूर्याश्च वेदेन्द्रा: शरबाणभू:। खात्याष्टि: खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा।। वेदाकृतिर्गोदृग्घस्ता: क्वब्धि-हस्ता युगार्थदृक। खोत्कृतिस्त्रयंशहीनाश्वरसहस्ता: शैलगुणाग्यनय:। खगोऽश्विन: खदन्ता: षड्दन्ता: खहस्तिदृक्। मेषाद्यश्व्यादिमध्यांशा: षडंशोना: खषड्गुणा:। इति। अथ नक्षत्राणां विक्षेपभागानाह। एषामिति। उक्तध्रुवकसम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थ:। स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थ ध्रुवकस्थानादित्यर्थ:। विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति। तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मासविषया: क्रमेण दशद्वादशपञ्चेत्यर्थ:। दक्षिणदिशि रोहिण्यादित्रयाणां पञ्चदश नव। उत्तरस्यां पुनर्वसो: षड्भागा:। पुष्यस्य खं विक्षेपाभाव:। अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्नम दोष:। दक्षिणस्यामाश्लेषाया: सप्त। उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश। दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ। अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत्। दक्षिणस्यां विशाखादीनां षण्णां सार्द्धैक: त्रयं चत्वार:। नव सार्द्धपञ्चपञ्चक्रमेण उत्तरदिशि तथा विक्षेपभागा अभिजित: षष्टि:। श्रवणस्य त्रिंशत्। धनिष्ठाया: षटत्रिंशत्। एवकारो न्यूनाधिकव्यवच्छेदार्थ:। चकार: पूरणार्थ:। दक्षिणस्यां तुकारस्तथा। अर्द्धभाग: शतताराया:। तुकारस्तथा। उत्तरस्यां पूर्वाभाद्रपदायाश्चतुर्विंशति:। तस्यामेव दिशि भागा विक्षेपभागा उत्तराभाद्रपदाया: भा: षडविंशति: रेवत्या विक्षेपाभाव: चकार: पूरणार्थ:।।2-9।।