-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ग्रहयुत्यधिकार:-7


युद्धे पराजितस्य ग्रहस्य लक्षणम्।
Yudhhye parajitasya grahasya lakshyanam

अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह—

अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तिमान्।।20।।
रूक्षो विवर्णो विघ्वस्तो विजितो दक्षिणाश्रित:।

द्वयोर्मध्ये यस्‍तदितरेण विध्वस्तो हत: स विजित: पराजितो ज्ञेय:। हतस्य लक्षणमाह। अपसव्य इति। अपसव्ये युद्धे योऽजितो जयलक्षणैर्विवर्जित:। एतेनोल्लेखादित्रये संज्ञाफलं न पराजितस्य फलमिति सूचितम्। पिहित आच्छातोऽव्यक्त इति यावत्। अणुटरितरग्रहविम्बाद्ल्पविम्ब:। अदीप्तिमान् प्रभारहित:। रूक्षोऽस्निग्ध: विवर्ण: वर्णेन स्ववर्णेन स्वाभाविकेन रहित इत्यर्थ:। दक्षिणाश्रित इतरग्रहापेक्षया दक्षिणदिशि स्थित:। श्यामो वा व्यपगत रश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा। आक्रान्तो विनिपतित: कृतापसव्यो विज्ञेयो हत इति सग्रहो ग्रहेण।। इति भार्गवीयोक्ते: ।।20।।

अथ श्लोकार्द्धेन जयिनो ग्रहस्य लक्षणमाह—

उदक्स्थो दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली।।21।।

इतरग्रहापेक्षयोत्तरदिक्स्थ:। दीप्तिमान् प्रभायुक्त:। स्थूल इतर ग्रहविम्बापेक्षया पृथुविम्ब:। जयी जययुक्त: स्यात्। अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौ न स्त इत्याह। याम्य इति। दक्षिणदिशि यो ग्रहो बली दीप्तिमान् पृथुविम्बो भवति स जयी। अपिशब्द उत्तरदिशा समुच्चयार्थक:। तथा च जयपराजयलक्षणयोर्दिग्दानमनुपयुक्तमिति भाव:।।21।।

अथ युद्धे विशेषमाह—

आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागम:।
स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ।।22।।

उभौ द्वौ। आसन्नावेकभागान्तरगतान्तरितौ। अपि शब्दाद् युद्धलक्षणाक्रान्तौ। दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विताविति समागमलक्षणैकदेशसद्भावात् समागमाख्यं युद्धम्। द्वावपि ग्रहौ स्वल्पौ सूक्ष्मविम्बौ विध्वस्तौ। द्वावपि पराजयलक्षणाक्रान्तौ स्यातां तदा क्रमेण कूटविग्रहसंज्ञकौ युद्धभेदौ स्याताम्।।22।।

अथ उत्सर्गत: शुक्रस्य जयलक्षणाक्रान्तत्वम् अस्तीति वदन् समागम: शशाङ्केन इति प्राक् प्रतिज्ञातसमागम उक्तप्रकारमतिदिशति—

उदक्स्थो दक्षिणस्थो वा भार्गव: प्रायशो जयी।
शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम्।।23।।

इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्यर्थ:। शुक्र: प्रायश उत्सर्गतो जयलक्षणाक्रान्तत्वेन जयी। कदाचित् पराजयलक्षणाक्रान्तो भवति इति तात्पर्यार्थ:। एतेषां भैमादि भौमादिपञ्चताराग्रहाणां चन्द्रेण सह संयोगसाधनं युतिसाधनमेषामुक्तरीत्या गणक: कुर्यात् अत्र विशेषार्थकम्। अवनत्या स्फुटो ज्ञेयो विक्षेप: शीतगोर्युतौ। इत्यर्थ: क्वचित् पुस्तके दृश्यते न सर्वत्र इति क्षिप्तं म्त्वोपेक्षितम्। अधिकारस्य अपूर्णश्लोकत्वापत्तेश्च। एतदुक्त्यान्ययोगे नतिसंस्कार- निषेधस्य सिद्धेस्तस्यायुक्तत्वमिति तदनुक्तौ सूर्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र तद्विशेषोक्तिरर्थासिद्धेरिति ध्येयम्।।23।।

ननु एषां ग्रहाणां दूरान्तरेण सदा उर्ध्वाधरान्तर’सद्भावात् परस्परं योगासम्भवेन कथं युति: सङ्गतेत्यत आह—

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता।
स्वमार्गगा: प्रयान्त्येते दूरमन्योऽन्यमाश्रिता:।।24।।

एते ग्रहा: स्वमार्गगा: स्वस्वकक्षास्था अन्योन्यमाश्रिता युतिकाल ऊर्ध्वाधरान्तराभावेन संयुक्ता: सन्त: प्रयान्ति गच्छन्ति। इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुतिकल्पना कल्पनात्मिका वास्तवा प्रदर्शिता पूर्वोक्तग्रन्थेन कथिता। ननु अवस्तुभूता किमर्थमुक्तेत्यत: प्रयोजनमाह। भावाभावायेति। लोकानां भूस्थप्रणिनां भाव: शुभफलमभावोऽशुभफलं तस्मै शुभाशुभफला देशायावस्तु भूतापि युतिरूक्तेति भाव:।।24।।