-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ग्रहयुत्यधिकार:-7


पञ्चताराणां युद्धसमागम:।
Panchanaranam yudhhasamagam

अथ श्लोकाभ्यां पञ्चताराणां प्राक् प्रतिज्ञातौ युद्धसमागमौ आह—

उल्लेखं तारकास्पर्शाद् भेदे भेद: प्रकीर्त्यते ।।18।।
युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्।
अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणु:।।
समागमोंऽशादधिके भवतश्चेद्बलान्वितौ।।19।।

भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शाद् विम्बनेम्यो: स्पर्शमात्रादुल्लेखसंज्ञं युद्धं वदन्ति युतिभेदज्ञा:। इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे भेदे मण्डलभेदे भेदो भेदसंज्ञो युद्धावान्तरभेदो युद्धभेदतत्त्वज्ञै: कथ्यते। अयं भेदो मानैक्यखण्डादूने द्वयोर्याम्योत्तरान्तरे। अत्र भास्कराचार्यैस्तु।

मानैक्यार्द्धाद्द्युचरविवरेऽल्पे भवेद्भेदयोग:। कार्यं सूर्यग्रहवदखिलं लम्बनाद्यं स्फुटार्थम्।।

कल्प्योऽध:स्थ: सुधांशुस्तदुपरिग इनो लम्बनादि प्रसिद्ध्यै। किन्त्वर्कादेव लग्नं ग्रहयुतिसमये कल्पितार्कान्न साध्यम। प्राग्वत् यल्लम्बनेन ग्रहयुतिसमय: संस्कृत: प्रस्फुट: स्यात् खेटौ तौ दृष्टियोग्यौ ग्रहयुतिसमये कार्यमेवं तदैव।। याम्योद्क्स्थद्युचरविवरं भेदयोगे स वाणो ज्ञेय: सूर्याद्भवति च यत: शीतगु: सा शराशा। मन्दाक्रान्तोऽनृजुरपि तदाध: स्थित: स्यात् तदैन्द्रयां स्पर्शो मोक्षोऽपरदिशि तदा पारिलेख्येऽवगम्य:।। इति विशेषोऽभिहित:। भगवता तु सूक्ष्मविम्बयोराकाशे दूरतो विविक्त दर्शनासम्भवाद् व्यर्थप्रयासादुपेक्षितमिति ध्येयम्। युतावन्योऽन्यं किरणयोगे सत्यंशुमर्दाख्यं किरणसंघट्टनसंज्ञं युद्धं स्यात्। द्वयोर्याम्योत्तरान्तरेंऽशात् षष्टिकलात्मकैकभागादूनेऽनधिके सत्यपसव्यसंज्ञं युद्धं भवति। अत्र विशेषमाह। एक इति। अत्र अपसव्ययुद्ध एको द्वयोरन्यतरोऽणुरणुविम्बश्चेत् स्यात् तदापसव्यं युद्धं व्यक्तं स्यात् अन्यथा तु अव्यक्तं युद्धं स्यात्। एषां चतुर्णां फलम्। अपसव्ये विग्रहं ब्रूयात् संग्रामं रश्मिसङ्कुले लेखनेऽमात्यपीडा स्याद्भेदने तु धनक्षय:। इति भार्गवीयोक्तं ज्ञेयम्। युद्धभेदानुक्त्वा समागममाह। समागम इति। द्वयोर्याम्योत्तरान्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगो भवति। अत्रापि विशेषमाह। भवत इति । युतिविषयकौ ग्रहौ बलान्वितौ बलेन। स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता। प्रश्नत्रयेऽथवाप्यस्मिन् स्थौल्यसौक्ष्म्यबले स्मृतम।। इति ब्रह्मसिद्धान्तवचनात्। स्थूलमण्डलतयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थ:। चेत्‍स्तदा समागमस्तयोव्यक्त: स्यात्। अन्यथा तु अव्यक्त: समागम:। द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवत:। अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षघ्नौ।। युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवत:। भुवि भूभृतामपि तथा फलमव्यक्तं विर्निदिष्टम्।। इत्युक्ते:।। भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापर:। ततो योगो भवेदेषामेकांशकसमापनात्। इति काश्यपोक्तेश्च सर्वं निरवद्यम्।।18-19।।