-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ग्रहयुत्यधिकार:-7


पञ्चताराणां विम्बमानकलानयनम्।
Panchataranam bimwamankalanayam

अथ पञ्चताराणां विम्बमानकलानयनं श्लोकाभ्यामाह—

कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिता:।
विष्कम्भाश्चन्द्र कक्षायां भृगो: षष्टिरुदाहृता।।13।।
त्रिचतु: कर्णयुत्याप्तास्ते द्विध्नास्त्रि।ज्यया हता:।
स्फुटा स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिका:।।14।।

त्रिंशदर्द्धार्द्धवर्द्धितास्त्रिंशतोऽर्द्धं पञ्चदश तदर्द्धं सार्धसप्त तैरूत्तरोत्तरं युक्तास्त्रिंशत्क्रमेण भौमशनिबुधबृहस्पतीनां चन्द्रकक्षायां चन्द्र काशगोले चन्द्रकक्षा प्रमाणेन न स्वकक्षाप्रमाणेन इत्यर्थ:। विष्कम्भा विम्बव्यासा योजनात्मका उक्ता:। भौमस्य त्रिंशत्। शने: सार्द्धंसप्तत्रिंशत्। बुधस्य पञ्चचत्वारिंशत्। गुरो: सार्द्धद्विपञ्चाशत्। अनेनैव क्रमेण शुक्रस्य षष्टि:। भृगो: षष्टिरित्यनेनार्द्धार्द्धेत्यस्य प्रत्येकमर्द्धयुक्ता इत्यर्धो निरस्त: स्वाभिमतार्थो व्यक्तीकृतश्च। ते उक्ता विष्कम्भा द्विगुणास्‍त्रिज्यया गुणितास्त्रिचतुष्‍कर्णयुक्त्याप्ता:। तृतीयकर्मणि चतुर्थ कर्मणि च यौ कर्णौ मन्दकर्णशीघ्रकर्णौ तयोर्योगेन भक्ता इति साम्प्रदायिकव्याख्यानम्। नव्यास्तु तृतीयकर्मर्णि कर्णानुपातानुक्तेस्‍तृतीयकर्णस्य मन्दकर्णस्याप्रसिद्धेरूपपत्तिविरोधाच्च पूर्वव्याख्यामुपेक्ष्य त्रिशब्देन त्रिज्या चतुष्‍कर्णश्चतुर्थ कर्मणि शीघ्रकर्णस्तयोर्गोगेन भक्ता इत्यर्थं कुर्वन्ति। स्पष्टा: स्वकर्णा: स्वविम्बव्यासा भवन्ति। पञ्चदशभक्ता विम्बमानकला भवेयु:। अत्रोपपत्ति:। स्वस्वकक्षायां स्थितां: पञ्चताराग्रहा दूरत्वात्ल्लोगकैश्‍चन्द्राकाशस्थिता इव दृश्यन्ते। अतस्तेषां वास्तवविम्बव्यासयोजनानि स्वयं ज्ञातानि। यथा सूर्यविम्बव्यासयोजनानि उक्तानि चन्द्रग्रहणाधिकारे रवे: स्वभगणाभ्यस्त इत्यादिना चन्द्रकक्षायां साधितानि तथा स्वभगणानुसारेण उक्तप्रकारेण चन्द्रकक्षायां साधितानि। तथा च शाकल्यसंहितायाम्। अन्तरुन्नतवृक्षांश्च वनप्रान्ते स्थिता इव। दूरत्वाच्चन्द्रकक्षायां दृश्यन्ते सकला ग्रहा:।। व्यर्द्धाष्टवर्द्धितास्त्रिंशद्विष्कम्भा: शास्त्रदृष्टत:। इत्येतानि त्रिज्यातुल्यशीघ्रकर्ण उक्तानि। अत: शीघ्रकर्णेऽधिके न्यूनं विम्बग्रहस्य उच्चासन्नत्वादल्पे तु नीचासन्नत्वादधिकं विम्बमिति त्रिज्ययोक्तानि विम्बानि तदेष्टशीघ्रकर्णेन कानीति व्यस्तानुपातेन युक्तमपि भगवतोपलब्धा त्रिज्यातोऽधिकन्यूनकर्णयो: क्रमेण व्यस्तानुपातागतादधिकं न्यूनं च विम्बं दृष्टमत: कर्ण एव त्रिज्याशीघ्रकर्णयोगार्द्धमित: क्रमेण न्यूनाधिको गृहीत:। अत्र छेदं लवं च परिवर्त्य हरस्येत्यादिना द्विघ्नास्त्रिज्यागुणिता विष्कम्भास्त्रिज्या शीघ्रकर्णयोगभक्ता इत्युपपन्नम्। त्रिचतुष्‍कर्णयोगार्द्धं स्फुटकर्णोऽय मस्तके। त्रिज्याघ्ना स्फुटकर्णाप्ता विष्कम्भास्ते स्फुटा: स्मृता।।

इति शाकल्योक्तेश्च। अत एव विम्बस्य द्राङ्नीचोच्चमण्डलस्थत्वेन शीघ्रकर्णस्यैव भूगर्भाद् विम्बे सम्बन्धान्‍मन्दकर्णसम्बन्धस्तु अयुक्त:। न हि छेद्यके मन्दकर्णार्द्धाच्छीशीघ्रकर्णार्द्धे ग्रहविम्बमस्तीति प्रतिपादितम्। येन मन्दशीघ्रकर्णयोर्योगार्द्धं कर्ण: सूपपन्न:। शीघ्रफलानयनेथा अङ्गीकारापत्ते: भास्कराचायैस्तु। व्यङ्घ्रीषव: सचरणा ऋतवस्त्रिभागयुक्ताद्रयो नव च सत्रिलवेषवश्च। स्युर्मध्यमास्तनुकला: क्षितिजादिकानां त्रिज्यासुकर्णविवरेण पृथग्विनिघ्ना:।। त्रिघ्न्या निजान्त्यफलमौर्विकया विभक्ता:। लब्धेर्न युक्तरहिता: क्रमश: पृथक्स्था:। ऊनाधिके त्रिभगुणाच्छ्रवणे स्फुटा: स्यु:।। इत्युपलब्ध्योक्तम्। भास्करानुवर्तिनस्तु त्रिचतुष्‍कर्णयुक्त्याप्ता इत्यस्य त्रिज्याशीघ्रकर्णयो र्योगार्द्धेन भक्ता इत्यर्थं वदन्ति।।13-14।।

अथ युतिसम्बन्धिनौ ग्रहौ युतिसमये दर्शनीयौ इत्याह—

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत्।
ग्रह: स्वदर्पणान्त:स्थ: शङ्क्वग्रे सम्प्रदृश्यते।।15।।

छायाभूमौ छायादानार्थं योग्यायां जलवत् समीकृतायां पृथिव्याम्। विपर्यस्ते वैपरीत्येन दत्ते स्वच्छायाग्रे ग्रहच्छायाग्रस्थाने। तुकारोऽन्ययोगव्यवच्छेदार्थैवकारपर:। स्वदर्पणान्तस्थ: स्वस्य यो दर्पण आदर्शस्तत्र स्थापितस्‍तन्मध्यस्थितो ग्रहो ग्रहप्रतिविम्ब: स्यात्। तद्गणक: शिष्याय दर्शयेत्। एतदुक्तं भवति। समभूमौ दिक्साधनं कृत्वा दिक्सम्पातस्थानाद्युतिकालिकच्छायाङ्गुलानि पूर्वापरसूत्राद्भुजविपरीतदिशि भुजान्तरेण ग्रहाधिष्ठितपूर्वापरकपालदिशि दत्वा तत्र आदर्श: स्थाप्य: तत्र प्रतिविम्बं ग्रहस्य दिक्सम्पातस्थो गणक: शिष्याय दर्शयेदिति। अत्रोपपत्ति:। ग्रहविम्बादअवलम्बसूत्रं महाशङ्कुरूपं यत्र भूमौ पतति तत्र ग्रहविम्बप्रतिविम्बो भवति तज्ज्ञानं तु खमध्याद्ग्रहविम्बपर्यन्तं नतांशा आकाशे तथा भूमौ दिक्सम्पातस्थान्महाशङ्कुकोटौ दृग्ज्याभुजस्तदा द्वादशाङ्गुलशङ्कुकोटौ को भुज इत्यनुपातानीतच्छायामितान्तरेण ग्रहाधिष्ठितकपाले भवति। यथा दृक्सम्पातस्थ द्वादशाङ्गुलशङ्कोश्छाया ग्रहाधिष्ठितकपाले भवति। तथा ग्रह प्रतिविम्बस्थानद्वादशाङ्गुलशङ्कोश्छाया दिक्सम्पाते भवति। अतो दिक्सम्पातस्थानाच्छायाग्रहाधिष्ठितकपाले दत्ता तदग्रे ग्रहप्रतिविम्बस्थानं ज्ञातं भवतीत्युपपन्नं छायाभूमावित्यादि स्वदर्पणान्तस्थ इत्यन्तम्। अथ ग्रहाधिष्ठिकपालान्यकपाले छायासद्भावनियमाद् ग्रहाधिष्ठितकपाले कथं छायादानं युक्तं व्याघातादिति मन्दाशङ्का स्वरसादाह। शङ्क्वग्र इति। दिक्सम्पातस्थापितशङ्कोरग्रे मस्तक आकाशे ग्रहो दृश्यते गणकेन इति शेष:।।15।।

ननु कथं दृश्यत् इत्यत: प्रकृतग्रहयो: युतिसम्बन्धिनोर्दर्शनप्रकारं सार्द्धश्लोकाभ्यामाह—

पञ्चहस्तोच्छ्रितौ शड्कू यथा दिग्भ्रमसंस्थितौ।
ग्रहान्तरेण विक्षिप्तावधो हस्तनिखातगौ।।16।।
छायाकर्णौ ततो दद्याच्छायाग्राच्छंकुमूर्धगौ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत्।।
स्वशंकुमूर्धगौ व्योम्नि ग्रहौ दृक्‌तुल्यतामितौ।।17।।

ग्रहयुतिसम्बन्धिनो: ग्रहयो: आयनदृक्कलाश्लोकपूर्वार्धोक्ताक्षदृक्कलाभ्यां संस्कृतयोस्तुल्येऽल्पान्तरेण आसन्ने वोदयलग्ने स्त:। षड्भयुतयो: ग्रहयो: आयनाक्षदृक्कला संस्कृतयोस्तुल्ये स्वल्पान्तरेण आसन्ने वास्तलग्ने भवत:। यस्मिन् काले ग्रहौ द्रष्टुमभिमतौ तात्कालिकलग्नादरात्रौ यदुदयास्तलग्ने क्रमेण न्यूनाधिके यदि भवत: तौ सूर्यसान्निध्य जनितास्ताभावे दर्शनयोग्यौ। तदा पञ्च हस्तोच्छ्रितौ। चतुर्विंशत्यङ्गुलो हस्त:। एवं पञ्चहस्तप्रमाणदीर्धौ शङ्कू काष्ठघटितसरलदण्डौ यथादिग्भ्रमसंस्थितौ युतिकाले ग्रहयोर्यादृशं दिग्भ्रमणम्। ग्रहौ प्रवहभ्रमेण पूर्वकपाले पश्चिमकपाले वा यत्र संस्थितौ स्वाधिष्ठितस्थानाद्ग्रहाधिष्ठितकपालदिशि स्थाप्यौ न ग्रहानधिष्ठितकपालदिशि। ग्रहान्तरेण दिक् तुल्ये तु अन्तरं भेदे योग इत्यादिना ज्ञातयाम्योत्तरग्रहान्तरेण कलात्मकेन विक्षिप्तौ याम्योत्तरान्तरितौ स्थाप्यौ। अत्र सोन्नतमित्यादिना ग्रहविक्षेपौ अङ्गुलात्मकौ कृत्वा दिक्तुल्ये तु अन्तरमित्यादिना ग्रहान्तरं ज्ञेयम्। अधो भूमेरन्त:। हस्तनिखातगौ हस्तवेधप्रमाणा या गर्ता तत्र स्थितौ भूम्यां शङ्कोर्हस्तमात्रं रोपयित्वा भूमेरूर्द्ध्वं शङ्कू चतुर्हस्तप्रमाणदीर्घौ स्यातामित्यर्थ:। तत: शङ्कुमूलाभ्यां प्रत्येकं यच्छायाग्रं ग्रहानधिष्ठितकपालदिशि तस्मात् प्रत्येकमित्यर्थ:। छायाकर्णौ स्वकीयौ शङ्कुमूर्द्धगौ निजशङ्क्वग्ररूपमस्तकप्रापिणौ गणको दद्यात्। एतदुक्तं भवति। युतिसमये लग्नं कृत्वा तात्कालिकोदयलग्नेष्टलग्नाभ्यां पूर्ववदन्तरकालो ग्रहोदयाद्गतकाल: सावन:। एवं ग्रहयोर्युतिसमये स्वदिनगतात् त्रिप्रश्नाधिकारोक्तविधिना स्पष्टक्रान्त्या छाया साध्या।। ततो यो ग्रहो दक्षिणोत्तरयोर्मध्ये यद्दिशि तच्छाया तद्दिक्स्था शङ्कोर्मूलाद्ग्रहानधिष्ठितकपालदिशि पूर्वापरसूत्राद्भुजान्तरेण भुजदिशि देया। परमानीतच्छाया द्वादशाङ्गुलशङ्कोरिति चतुर्हस्तशंकुप्रमाणेन प्रसाध्य रेखा तन्मिता समभूमौ शङ्कुमूलात् कार्या। रेखाग्रे छायाग्रे ज्ञापकं चिह्नं कार्यम्। तत्र कीलादिना सूत्रं बध्वा शङ्क्वग्रसक्तं प्रसार्यमिति। छायाकर्णाग्रसंयोगे छायाग्रं कर्णस्य मूलरूपमग्रं तयो: सम्पाते संस्थितस्य छायाग्रस्थानकृतगर्त्तोपविष्टशिष्यस्य गणको ग्रहावाकाशे स्वशङ्कुमूर्द्धगौ निजशङ्क्वग्ररूपमस्तकसमसूत्रस्थितौ दृकतुल्यतां दृष्टिगोचरतामितौ प्राप्तौ प्रदर्शयेत् सन्दर्शयेत्। अत्रोपपत्ति:। उच्चतया दर्शनार्थं पञ्चहस्त प्रमाणौ शङ्कू कृतौ। तत्र एकहस्तस्य भूमिगुप्तत्वं शङ्कुदृढत्वार्थं कृतम्। बहि: पुरुषप्रमाणौ चतुर्मितहस्तावशिष्टौ शड्को: पुरुषपर्यायेणाभिधानाच्च। शङ्कुसूत्रस्य ग्रहविम्बसक्तत्वाद्यथा दिग्भ्रमसंस्थितावित्युक्तम्। शड्क्वग्रसमसूत्रेण ग्रहविम्बावस्थान नियमाद्ग्रहान्तरेण याम्योत्तरान्तरितौ स्थापितौ। अत्र यद्यपि स्वस्वस्पष्टक्रान्त्यग्रां प्रसाध्य तत: कर्णाग्रां प्रसाध्योक्तदिशा पलभासंस्कारेण स्वस्वभुजं प्रसाध्य ताभ्याम्। दिक्तुल्येत्वन्तरं भेदे योग: शिष्टं ग्रहान्तरम्। इत्युक्तरीत्या ग्रहान्तरं शङ्कोरन्तरं युक्तं तथापि भगवता स्वल्पान्तरेण गणितश्रमापनोदार्थमाकशस्थितदृष्टान्तरमेव धृतम्। शङ्कोश्छायाग्राच्छायाकर्णसूत्रं ग्रहविम्बदर्शनसूत्रमत: कर्णमूलदृशा पुरुषेण ग्रहविम्बं द्रष्टव्यमेवेति दिक्।।16-17।।