SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ कल्पमानं विवक्षु: प्रथमं युगमानमन्यदपि श्लोकाभ्यामाह—
तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्।
सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतै:।।15।।
सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया।।16।।
तेषां दिव्यवर्षाणां द्वादशसहस्राणि चतुर्युगम्। चतुर्णां युगानां कृतत्रेताद्वापर-कल्याख्यानां समाहारो योगस्तदात्मकं महायुगमित्यर्थ:। एतद्द्योतनार्थं चतुरित्ययुक्तिरन्यथा युगमित्युक्त्या तद्वैयर्थ्यापत्ते:। मानाभिज्ञैरुक्तम्। अथ सौरमानेन तत्संख्यां विशेषं चाह-सूर्याब्दसंख्ययेति। तद्देवासुरमानेनोक्तं चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं सन्ध्या-सान्ध्यांशसहितम्। युगचरणस्याद्यन्तयो: क्रमेण प्रत्येकं सन्ध्यासन्ध्यांशाभ्यां युक्तं तदेव सन्ध्यासन्ध्यांशौ अन्तर्गतौ न पृथक् यत्र एतादृशम् सौरवर्षप्रमाणेन द्वित्रिसागरै:। अङ्कानां वामतो गतिरित्यनेन द्वात्रिंशदधिकै: चतु:शतमितै:। अयुतेन दशसहस्रेण गुणितै:। खचतुष्कद्वात्रिंशच्चतुर्भि: परिमितं ज्ञेयम् इत्यर्थ:। अथ चतुर्युगान्तर्गतयुगाङ्घ्रीणां विशेषतो मानश्रवणात् समं स्यादश्रुतत्वादिति न्यायेन प्रत्येकं महायुगचतुर्थांशो मानमिति चतुर्युगमित्यनेन फलितं निषेधति। कृतादीनामिति। कृतत्रेताद्वापरकलियुगानाम्। धर्मपादव्यवस्थया धर्मचरणानां स्थित्या। इयं वक्ष्यमाणा व्यवस्था स्थितिर्ज्ञेया न तु समकालप्रमाणंस्थिति: अयमर्थ:। कृतयुगे चतुश्चरणो धर्म इति तस्य मानमधिकम्। तत: त्रेतायां धर्मस्य त्रिपादवत्वात् तदनुरोधेन त्रेतामानं न्यूनम्, एवं द्वापर- कल्योर्धर्मस्य क्रमेण द्वयेकचरणवत्वात्। कृतत्रेतामानाभ्यां क्रमेणोक्तानुरोधान्यूनमानम्। न तु समं मानमिति ।।15-16।।