SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ प्रसङ्गादृक्कर्मसंस्कारस्थलान्याह—
नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने।
श्रृंगोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम्।।11।।
अत्र निमित्तसप्तमी। ग्रहनक्षत्राणां बहुत्वाद् बहुवचनम्। नक्षत्रग्रहयोर्युत्यर्थं नक्षत्रग्रहयोरिंद द्वयं दृक्कर्मस्मृतं प्रागुक्तम्। आदौ प्रथमं कार्यम्। ताभ्यामनन्तरं क्रिया कार्येत्यर्थ:। अत्र नक्षत्रध्रुव काणाम् आयनदृक्कर्म संस्कृतानामेवोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम्। ग्रहाणामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौ च। ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि। तयो: साधननिमित्तं ग्रहस्य नक्षत्रस्य वा देयम्। अत्राक्षदृक्कर्मार्थं केवलं शर: साध्य:। न तु दिनमानरात्रिमाननतोन्नते साध्ये। क्षितिजसम्बन्धेन दृग्ग्रहरूपोदयास्तलग्नस्यावश्यकत्वेन क्षितिजातिरिक्तनतपरिणामस्य व्यर्थत्वात्। युतौ तु समप्रोतचलवृत्ते युगपद्दर्शनार्थं तत्परिणामस्य आवश्यकत्वात्। श्रृङ्गोन्नतिनिमित्तं चन्द्रस्य। तुकार: समुच्यार्थकचकारपर:। अत्रापि श्लोके पूर्वार्द्धोक्तमाक्षदृक्कर्मसंस्कार्यमिति ध्येयम्।।11।।
अथ दृक्कर्मसंस्कृत ग्रहयोर्युतिकालं तात्कालिकतद्विक्षेपाभ्यां ग्रहयो: याम्योत्तरान्तरं च आह—
तात्कालिकौ पुन: कार्यौ विक्षेपौ च ततस्तयो:।
दिक्तुल्ये त्वन्तरं भेदे योग: शिष्टं ग्रहान्तरम्।।12।।
पुनर्द्धितीयवारं तादृशग्रहाभ्यां शीघ्रे मन्दाधिकेऽतीत इत्यादिना युतेर्गतैष्यत्वं ज्ञात्वा ग्रहान्तरकला इत्यादिना दृक्कर्मसंस्कृतौ समौ स्वयुतिसमये भवत:। विवरं तद्वदुद्धृत्येत्यादिना समस्पष्टग्रहकालो दृक्कर्मसंस्कृतसमग्रहकालो युत्याख्यो ज्ञेय:। तस्मिन काले साधितौ तौ ग्रहौ स्फुटावसमौ तात्कालिकौ मध्यस्पष्टादिक्रियया कार्यौ। तयो: साधितग्रहयोर्विक्षेपौ। च: समुच्चये। कार्यौ। एतौ ग्रहौ दृक्कर्मसंस्कृतौ समौ भवत इति प्रतीति:। नो चेत् तस्मादपि उक्तरीत्या मुहु:कालं स्थिरं कृत्वा प्रतीतिर्द्रष्टव्या। तत: सूक्ष्मयुतिसमये ग्रहयोर्विक्षेपसाधनानन्तरम्। दिक्तुल्य एकदिक्त्वे तुकाराद्विक्षेपयोरन्तरं कार्यम्। भेदे भिन्नदिक्त्वे विक्षेपयोर्योग:। शिष्टं संस्कारोत्पन्नं ग्रहान्तरम्। युतिसम्बन्धिनो: ग्रहविम्बकेन्द्रयोरन्तरालं याम्योत्तरं भवति। अत्रोपपत्ति:। दृक्कर्मसंस्कृपतग्रहयो: पूर्वापरान्तराभाव: समप्रोतचलवृत्त इति तयो: समत्वम्। विक्षेपाग्रे ग्रहविम्बकेन्द्रत्वादेकदिशि विक्षेपयोरन्तरं ग्रहविम्बकेन्द्रयो: र्याम्योत्तरमन्तरं समप्रोतचलवृत्ते भिन्नदिशि शरयोर्गोग एव ग्रहविम्बकेन्द्रयोर्याम्योत्तरमन्तरं तद्वृत्ते। भास्कराचार्यैस्तु। एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्त: ताभ्यां सूर्यग्रहणवदिषू संस्कृतौ स्वस्वनत्या। तौ च स्पष्टौ तदनु विशिखौ पूर्ववत् संविधेयौ दिक्साम्ये या वियुतिरनयो: संयुतिर्भिन्नदिक्त्वे।। इत्यनेन सूक्ष्ममुक्तम्। भगवता कृपालुना तदुपेक्षितम्। स्वल्पान्तरत्वात्।।12।।