-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ ग्रहयुत्यधिकार:-7


आयनदृक्कर्मसंस्कार:। Ayandrikkarmasanskar

अथ आनयदृक्कर्माह—

सत्रिभग्रहजक्रान्ति-भागघ्ना: क्षेपलिप्तिका:।
विकला: स्वमृणं क्रान्तिर्क्षेपयोर्भिन्नतुल्ययो:।।10।।

विक्षेपकला: पूर्वसाधिता राशित्रयतुतग्रहोत्पन्नक्रान्त्यंशैर्गुणिता विकला भवन्ति। ता अक्षदृक्कर्मसंस्कृतग्रहे विकलास्थाने क्रान्तिक्षेपयो: सत्रिभग्रहस्य क्रान्तिग्रर्हस्य विक्षेप:। अनयोर्भिन्नतुल्ययोर्भिन्नैकदिक्कयो: सतो: क्रमेण स्वमृणं कार्ये:।

अत्रोपपत्ति:। विक्षेपवृत्तस्य ग्रहविम्बोपरि ध्रुवप्रोतश्लथवृत्तं स्पृष्ट्वा क्रान्तिवृत्ते ग्रहासन्ने यत्र लगति तस्य ग्रहचिह्नस्यान्तरे या: क्रान्तिवृत्ते कलास्ता आयनकलास्तदानयनार्थं क्षेत्रं ग्रहशर: कदम्बाभिमुख: कर्ण:। तत्सम्बद्धद्युरात्रवृत्तप्रदेशध्रुवप्रोतश्लथवृत्तसम्पातयोरन्तरे द्युरात्रवृत्ते भुज:। ध्रुवप्रोतवृत्ते स्पष्टशरो ग्रह-विम्बतत्सम्पातान्तरे कोटि:। अतस्त्रिज्याकर्णेऽयनवलनज्या भुजस्तदा शरकर्णे क इत्यनुपातेन द्युरात्रवृत्ते द्युज्याप्रमाणेन भुजकला:। न तु ग्रहचिह्नतद्वृत्तसम्पातान्तरे क्रान्तिवृत्ते भुजकला: क्रान्तिवृत्तस्य तिर्यक्त्वेन तादृशक्रन्तिवृत्तप्रदेशस्य तिर्यक्त्वाद्भुजत्वासम्भवात्। आयनवलनज्या भुजस्त्रिज्याकर्णो यष्टि: कोटिस्तद्वर्गान्तरपदरूपेति क्षेत्रं गोले प्रत्यक्षम्। अतोऽनुपाते न क्षति:। तत्र भगवता लोकानुकम्पया गणितसुखार्थं द्युरात्रवृत्तस्य भुजकला: क्रान्तिवृत्तस्था अङ्गीकृता: स्वल्पान्तरत्वात्। अतोऽयनवलनज्या शरकलाभि: र्गुण्या त्रिज्यया भाज्येति प्राप्ते भगवतायनवलनस्य सत्रिभग्रहक्रान्तिभागत्वेनाङ्गीकारात् तद्भागा अष्ट-पञ्चाशता गुणनीया ज्या भवति। यत: परमाश्च्तुर्विंशत्यंशा अष्टपञ्चाशता गुणिता: पञ्चोना परमक्रान्तिज्या जाता। इयं शरगुणात्रिज्याभक्तायनकलास्तत्र विकलात्मकफलार्थं षष्टिर्गुण इति रात्रिभग्रहक्रान्तिभागगुणितो ग्रहविक्षेपोऽष्टपञ्चाशत्षष्टिघातेन विंशत्यूनेन पञ्चत्रिंशच्छतेन गुण्यस्त्रिज्यया भक्त इति सिद्धम्। अत्रापि लाघवाद्गुणस्य त्रिज्यामितत्वेन स्वल्पान्तरत्वाद्ड्गीकाराद गुणहरयोर्नाश इत्युपपन्नं सत्रिभेत्यादिविकला इत्यन्तम्। भास्कराचार्यैस्तु। आयनं वलनमस्फुटेषुणा सद्गुणं द्युगुणभाजितं हतम्। पूर्णपूर्णधृतिभिर्ग्रहाश्रितव्यक्षभोदयहृदायना: कला:।।

इति सूक्ष्ममस्मादुक्तम्। धनर्णोपपत्तिस्तु मकराद्युत्तरायणे दक्षिणध्रुवाद् दक्षिणकदम्बोऽध:। उत्तरध्रुवादुत्तरकदम्ब ऊर्ध्वम्। तत्र शरो यदा तूत्तरस्तदा ग्रहविम्बस्योत्तरकदम्बोन्मुखत्वेनोत्तर ध्रुवादुन्नतत्वात् क्रान्तिवृत्तस्य ग्रहचिह्नात् क्रान्तिवृत्तध्रुवप्रोतश्लथ वृत्तसम्पात आयनग्रहचिह्नरूप: क्रान्तिवृत्ते पश्चाद्भवत्यत आयनविकला: स्पष्टग्रह ऋणं कृताश्चेद आयनग्रहभोगो ज्ञात: स्यात्। एवं दक्षिणशरे ग्रहविम्बस्य दक्षिणकदम्बोन्मुखत्वेन ध्रुवोन्नतत्वात् क्रान्तिवृत्ते ग्रहचिह्नादायनग्रहचिह्नमग्र एव भवतीति धनमायनविकला:। कर्कादिदक्षिणायने तु दक्षिण ध्रुवात् दक्षिणकदम्ब ऊर्ध्वमुत्तरध्रुवादुत्तरकदम्बोऽध:। तत्र यदि ग्रहशरो दक्षिणस्तदा ग्रहविम्बस्य दक्षिणध्रुवादुन्नतत्वात् क्रान्तिवृत्ते ग्रहचिह्नादायनग्रहचिह्नं पश्चादत ऋणमायनम्। यद्युत्तरशरस्तदा ग्रहविम्बस्य उत्तरध्रुवान्नतत्वाद्ग्रहचिह्नादायनग्रहचिह्नमग्रे क्रान्तिवृत्ते भवतीत्यायनं धनमिति गोलस्थित्यायनशरदिगैक्य ऋणमयनशरदिग्भेदे धनमिति सिद्धम्। तत्र ग्रहायनदिश: सत्रिभग्रहगोलदिक् तुल्यत्वात् सत्रिभग्रहक्रान्तिग्रहशरयोरेकदिक्त्वे ऋणं भिन्नदिक्त्वे धनमित्युपपन्नम्। अथाक्षदृक्कर्मोपपत्ति:। भूगर्भक्षितिजयाम्योत्तरवृत्तसम्पातरूपसमप्रोतचलवृत्ते ग्रहविम्बसक्ते क्रान्तिमण्डलस्य ग्रहासन्नो यत्र सम्पातस्तत्राक्षदृक्कलासंस्कृतो ग्रहस्तस्यायनग्रहस्य चान्तरे क्रान्तिवृत्तप्रदेश आक्षदृक्कलास्ता: क्षितिजस्थग्रहविम्बोपरमान्तरत्वात् परमा याम्योत्तरवृत्तस्थे ग्रहेऽयनग्रहचिह्नमेवाक्षदृक्कलासंस्कृतग्रहचिह्नं भवतीति तदभाव:। अत: क्षितिजस्थे ग्रहविम्बे चलवृत्तं याम्योत्तरक्षितिजसम्पातप्रोतक्षितिजवृत्ताद् भिन्नं तत्र ग्रहविम्बसक्तं ध्रुवप्रोत चलवृत्तक्रान्तिवृत्तसम्पातोऽयनग्रहचिह्नरूप: क्षितिजस्थक्रान्तिवृत्तप्रदेशादूर्ध्वमधो वा याभि: कलाभिरन्तरितस्ता आ क्षदृक्कला:। आसां ज्ञानार्थं तदन्तरप्रदेशीयद्युरात्रवृत्तखण्डप्रदेशस्थासवोऽक्षजा: साधिता:। तथाहि। ध्रुवद्वयप्रोतग्रहविम्बगतचलवृत्ते विषुवद्वृत्तग्रहबिम्बान्तरे स्फुटा क्रान्ति: विषुवद्वृत्तक्रान्तिवृत्तस्यायनग्रहचिह्नान्तरे मध्यमाक्रान्तिरयनग्रहस्यायनग्रहचिह्नग्रह विम्बान्तरे स्फुटशर:। द्वयो: क्रान्त्योरेकदिक्त्वे स्फुटक्रान्तिरधिका। तत्रोत्तरगोलेऽयनग्रहचिह्नं क्षितिजादध: स्वद्युरात्रवृत्तेक्रान्त्योश्चरान्तरासुभिर्भवति। यतोऽयनग्रहचिह्न द्युरात्रवृत्तस्थोन्मण्डलक्षितिजान्तररूप-चराद्ग्रहविम्बीयचरस्याधिकत्वेन मध्यमचरसम्बद्धक्षितिजवृत्त प्रदेशाद्ध्रुवाभिमुखसूत्रं ग्रहविम्बीयसम्बद्धद्युरात्रप्रदेशे यत्र लग्नं तत् क्षितिजान्तराले चरान्तरस्य सत्वेन स्पष्टशरचरान्तराभ्यां कोटिभुजाभुजाभ्यामायतचतुरक्षेत्रस्य तद्द्युरात्रवृत्तद्वयमध्ये स्फुटदर्शनम्। एवं दक्षिणगोलेऽयनग्रहचिह्नं सद्युरात्रवृत्ते क्षितिजादूर्ध्वं क्रान्त्योश्चरान्तरासुभिरिति। क्रान्त्योर्भिन्नदिक्त्वे तु क्षितिजादयनग्रहचिह्नं स्वद्युरात्रवृत्ते क्रान्त्योश्चरयोगतुल्यासुभिरध उर्ध्वम्। मध्यक्रान्तिद्युरात्तमुन्मण्डलात् स्पष्टक्रान्तिचरतुल्यान्तरेण दक्षिणोत्तरगोलयोरध उर्ध्वमयनग्रहचिह्नस्य सत्त्वात। क्षितिजाच्चरान्तरेणोद्वृत्तस्य सत्वाच्चेति। भास्कराचार्यै: स्फुटास्फुटक्रान्तिजयोश्चरार्द्ध: योसामान्यदिक्त्वेऽन्तरयोगजासव:। पलोद्भवाख्या भनभ: सदाम्। इति सुक्ष्ममाक्षदृगसुज्ञानमुक्तम्। भगवता तु पूर्वोक्तरीत्या स्फुटास्फुटक्रान्तिसंस्कारोत्पन्न स्फुटशररूपक्रान्तिखण्डस्य स्वल्पान्तरेण यथागतशरतुल्यस्य चरमाक्षदृगसव इत्यङ्गीकृत्य द्वादशकोटौ पलभा भुजस्तदा विक्षेपरूपक्रान्तिकोटौ क इत्यनुपाताद्विक्षेपज्या फलधनुषोस्त्यागात् स्वल्पान्तरेण कुज्याचरज्ययोरभिन्नत्वेनाङ्गीकाराच्चरासव आक्षासव एता एव कला धृता: स्वल्पान्तरत्वात्। क्षितिजातिरिक्तस्थग्रहविम्बे त्वेता: कला अभीष्टनतकालपरिणता भवन्तीति विषुवच्छाययेत्या।दि स्वदिनार्द्धविभाजितमित्यन्तम्। अत्र ग्रहे आयनं दृक्कर्मसंस्कार्य तस्माद्दिनरात्रिमानादिनतं साधयित्वाक्षदृक्कर्म क्रियते तदा किञ्चित् सूक्ष्ममिति सत्रिभग्रहजेत्यादि श्लोक: सप्तमो यत्पुस्तके तत्र तूक्तं स्वत: सिद्धम्। नतानुपाते स्वपदव्यर्थप्रयोगशङ्कानवकाशश्च समग्रहयोरायनदृक्कर्मसंस्कारेण भिन्नत्वसम्भवात् तयोर्दिनमाननतयोरपि भिन्नत्वसिद्धेरित्यवधेयम्। धनर्णोपपत्तिस्तु समप्रोतचलवृत्तं ग्रहविम्बोपरिगं यत्र क्रान्तिवृत्ते लगति स राश्यादिभोग आक्षदृक्कर्मसंस्कृत इति प्रागुक्तम्। तत्र पूर्वकपाले तस्माद्ग्रहादायनग्रहचिह्नं क्रान्तिवृत्त उत्तरशरेऽग्रिमभागे भवति दक्षिणशरे पश्चाद्भवतीति क्रमेणर्णधनमुक्तम्। पश्चिमकपाले तूत्तरशरे पश्चाद् दक्षिणशरेऽग्रिमभाग इति क्रमेणायनग्रहे धनर्णं दृक्कर्मद्वयसंस्कृतो ग्रहसिद्धो भवतीत्युपपन्नं सर्वम्।।10।।