SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथाक्षदृक्कर्म तत्संस्कारं च ग्रहस्य श्लोकाभ्यामाह—
विषुवच्छाययाऽभ्यस्ताद् विक्षेपाद् द्वादशोद्धृतात्।
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्।।8।।
लब्धं प्राच्यामृणं सौम्ये विक्षेपे पश्चिमे धनम्। (सौम्याद्विक्षेपात्पश्चिमे इति व.प्र.सं.)
दक्षिणे प्राक्कपाले स्वं पश्चिमे तु विपर्यय:।।9।। (तथा क्षय: इति व0प्र0)
अक्षभया गुणिताद् ग्रहविक्षेपादानीताद्द्वादशभक्ताद्यल्लब्धं तत् स्वनतनाडीघ्नं विक्षेपसम्बन्धिग्रहस्य नतघटीभिर्गुणितं तस्यैव दिनार्द्धेन भक्तं रात्रौ रात्र्यर्द्धेनेत्यर्थसिद्धम्। अत्र समग्रहयो: पूर्वोक्तप्रकारेण दिनमाननतयोरभिन्नत्वात् स्वशब्दोभयत्रानावश्यकोऽपि युतिव्यतिरिक्तदृग्ग्रहाणां प्रयोजनतया साधनवैयधिकरण्यव्यावृत्यर्थं स्वपदं भगवता दत्तम्। वस्तुतस्तु दृग्ग्रहयोस्तुल्यत्वे भगवताग्रे युतेरूक्त्वात् तात्कालिकयो: तुल्यत्वेन वा अतुल्यत्वेन इत्यत्र संदेह:। दृक्कर्मसाधनार्थं नतदिनमानयो: तयोर्भिन्नत्वेन स्वपदं युक्तं प्रयुक्तम्। न तु स्पष्टक्रान्तिजचरोत्पन्नदिनमानयोर्भेदान्नतभेदाच्च स्वमित्युक्तम्। तत्साधनस्य वैयधिकरण्येनाप्रसक्तेरिति ध्येयम्। उक्तरीत्योत्तराद्विक्षेपाल्लब्धतत्कलात्मकं प्राच्यां प्राक्कपाले ग्रहस्य हीनम्। पश्चिमकपाले योज्यम्। दक्षिणे तथा विक्षेपे। तुकारात्तदुत्पन्नं फलं प्राक्कपाले योज्यं पश्चिमकपाले हीनं कार्यम्।।8-9।।