SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ युत्याभासग्रहणनिरूपणेन संस्मृततयारब्धो ग्रहयुत्यधिकारो व्याख्यायते। तत्र युतिभेदानाह—
ताराग्रहाणामन्योऽन्यं स्यातां युद्धसमागमौ।
समागम: शशाङ्केन सूर्येणास्तमनं सह।।1।।
ताराग्रहाणां भौमादिपञ्चग्रहाणां परस्परं योगे युद्धसमागमौ वक्ष्यमाण लक्षणभिन्नौ स्त:। चन्द्रेण सह पञ्चतारान्यतमस्य योग: समागमसंज्ञ:। सूर्येण सह पञ्चताराणामन्यतमस्य चन्द्रस्य वा योग: तदस्तमनं पूर्णास्तङ्गतत्वम्। न त्वस्तमात्रम्। युत्यभावे प्रागपरकाले तस्य सत्त्वात्।।1।।
अथ युतेर्गतैष्यत्वं सार्द्धश्लोकेन आह—
शीघ्रे मन्दाधिकेऽतीत: संयोगो भविताऽन्यथा।
द्वयो: प्रागयायिनोरेवं वक्रिणोस्तु विपर्ययात्।।
प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्य: समागम:।।2।।
ययोर्ग्रहयोर्योगोऽभिमतस्तयोर्ग्रहयोर्मध्ये य: शीघ्रगति: ग्रह: तस्मिन् मन्दाधिके मन्दगतिग्रहादधिके सति तयो: संयोगो युतिसंज्ञो गत: पूर्वं जात इत्यर्थ:। अन्यथा मन्दगतिग्रहे शीघ्रगतिग्रहादधिके सतीत्यर्थ:। तयोर्योगो भविता एष्य:। एवमुक्तं गतैष्यत्वम्। द्वयो: ग्रहयो: प्राग्यायिनो: पूर्वगतिकयोर्भवति। वक्रिणोर्वक्रगतिग्रहयोर्विपर्ययादुक्तवैपरीत्यात्। तुकाराद्गतैष्यो योगो भवति। शीघ्रगतिग्रहे मन्दगतिग्रहादधिक एष्य।: संयोगो मन्दगतिग्रहे शीघ्रगतिग्रहादधिके गत: संयोग इत्यर्थ:। अथैकस्य वक्रत्वे आह। प्राग्ययिनीति। द्वयोर्मध्ये एकतरस्मिन् वक्रिणि सति तदा वक्रगतिग्रहात् पूर्वं गतिग्रहेऽधिके सति गतो योग:। यदा तु पूर्वगतिग्रहाद्वक्रगतिग्रहेऽधिके सति समागमो योग एष्य: स्यात्। अत्रोपपत्ति:। पूर्वगत्योर्ग्रहयोर्मध्ये शीघ्रगत्याधिकत्वेऽग्रे योगासम्भवात् पूर्वयोगो जात:। मन्दगस्याधिकत्वे शीघ्रगस्य न्यूनत्वादग्रे योगो भविष्यति। वक्रिणोस्तु शीघ्रगत्याधिकत्वेऽग्रे तन्न्यूनत्वेन योगसम्भवादेष्यो योगो मन्दगस्याधिकत्वे शीघ्रगस्योत्तरोत्तरं न्यूनत्वसम्भवेन अग्रे योगासम्भवादगतो योग:। अथ वक्रगतिग्रहात् पूर्वगतिग्रहेऽधिक उत्तरोत्तरं योगासम्भवाद्गतो योग:। पूर्वगतिग्रहाद् वक्रगतिग्रहेऽधिके वक्रगतिग्रहस्य न्यूनत्वेनाग्रे योगसम्भवादेष्य: संयोग इति।।2।।
अथ युतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्यदिनाद्यानयनं च सार्द्धश्लोकत्रयेण आह—
ग्रहान्तरकला: स्वस्वभुक्तिलिप्तासमाहता:।।3।।
भुक्त्यन्तरेण विभजेदनुलोमविलोमयो:।
द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत्।।4।।
लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ।
विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ।।5।।
समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ।
विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते।।6।।
युतिसम्बन्धिनो ग्रहयोरभीष्टैककालिकयोरन्तरस्य कला: पृथक् स्वस्वगतिकलाभिर्गुणिता: कर्मद्वयो: ग्रहयो: अनुलोमविलोमयो: मार्गगयो: वक्रगयो: र्वा इत्यर्थ:। स्फुटगत्यन्तरेण गणको भजेत्। विशेषमाह। वक्रिणीति। अथानन्तरं द्वयोर्मध्ये एकतरे वक्रिणि सति तयोर्गतियोगेन भजेत्। फलं कलादि स्वं स्वं गते योगे सति ग्रहयोर्मार्गगयो: शोध्यं भविष्यति। एष्ये योगे सति तयोर्देयं योज्यम्। द्वयोर्वक्रगत्यो: स्वं स्वं फलं विपर्ययादुक्तवैपरीत्यात् कार्यम्। गते योगे योज्यम्। एष्ययोगे हीनमित्यर्थ:। द्वयोर्मध्ये एकतरे तुकाराद्वक्रिणि सति तयोर्ग्रहयोर्वक्रमार्गगयो: स्वस्वकलात्मकफलाङ्कौ धनव्ययौ युतहीनौ कार्यौ। यथाहि। गतयोगे मार्गगग्रहे स्वफलं हीनं वक्रिणि ग्रहे योज्यम्। एष्ययोगे वक्रग्रहे शोध्यम्। मार्गग्रहे योज्यमिति। एवं कृते तौ युतिसम्बन्धिनौ ग्रहौ भगणसंस्थौ भगणे राश्यधिष्ठितचक्रे संस्थितिर्ययोस्तौ राश्याद्यात्मकौ समलिप्तौ समकलौ स्त:। लिप्तापदस्य भगणावयवोपलक्षणत्वेन समौ स्त इत्यर्थ:। अथ युतिकालज्ञानमाह। विवरमिति। अभीष्ट कालिकयोर्युतिसम्बन्धिनोर्ग्रहयोरन्तरं कलात्मकं तद्वत् समकलोपयुक्तफलज्ञानार्थं यथा गतिगुणितमन्तरं गतियोगेन गत्यन्तरेण भक्तं तथेत्यर्थ:। तेन हरेण भक्त्वा फलं दिनादिकं गतैष्ययुतिवशादभीष्टकालाद्गतैष्यमुच्यते। तत्समये तद्युतिकाले तौ ग्रहौ समौ स्त इत्यर्थ:।
अत्रोपपत्ति:। गत्यन्तरेण गतिकलास्तदा ग्रहान्तरकलाभि: का इति फले गतयुतौ ग्रहयो: शोध्ये। एष्ययुतौ योज्ये। द्वयोर्वक्रत्वे गत्यन्तरभक्तफले गतयुतौ ग्रहयोर्योज्ये। एष्ययुतौ शोध्ये। वक्रग्रहस्योत्तरोत्तरं न्यूनत्वात्। अथैको वक्री तदा तयोरन्तरं प्रत्यहं गतियोगेनोपचितम्। अतो गतियोगहरेणागतं फलं गतयोगे मार्गगग्रहे हीनं पूर्वं तस्य न्यूनत्वात्। वक्रग्रहे योज्यम्। पूर्वं तस्य अधिकत्वात्। एष्ययोगमार्गगग्रहे योज्यम्। उत्तरोत्तरमधिकत्वात्। वक्रग्रहे शोध्यम्। तस्य अग्रे न्यूनतत्वात्। गतियोगेन गत्यन्तरेण वा दिनमेकं लभ्यते तदान्तरकलाभि: किमित्यनुपातेन गतैष्यदिनाद्यम्।। 3-6 ।।
दृक्कर्मार्थमुपपकरणानि साध्यानीत्याह—
कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिका:।
नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयो:।।7।।
तयो: समयोर्ग्रहयोर्दिनक्षपामानं प्रत्येकं दिनमानं रात्रिमानं प्रसाध्य विक्षेपकला:। तथा प्रसाध्येत्यर्थ:। अत्र भगवता विक्षेपकला: प्रसाध्येत्यस्य दिनरात्रिमानं प्रसाध्येत्येतदनन्तरमुक्तेर्दिनरात्रिमानं स्पष्टक्रान्तिजचरेण साध्यम्। किन्तु समग्रहीयशरासंस्कृतकेवलक्रान्तिजचरेण साध्यमिति सूचितम्। समग्रहयो: प्रत्येकं नतकालमुन्नतकालं प्रसाध्य। अत्र समुच्चयार्थकं तथेत्यन्वेति। एतदर्थमेव दिनरात्रिमानं प्रसाध्येति पूर्वमुक्तम्। समनन्तरोक्तं दृक्कर्म्मकार्यमिति वाक्यशेष:। ननु नतोन्नतं कथं साध्यं ग्रहोदयाज्ञानात् तदवधिकालमानज्ञानाभावात्। न हि ग्रहस्य दिनरात्रिगतकालज्ञानं विनापि केवलदिनरात्रिमानाभ्यां तत्सिद्धिरत आह। स्वकाल्लग्नवशादिति। यस्मिन् काले समौ ग्रहौ जातौ तात्कालिकलग्नं पूर्वोक्तप्राकारावगतं तद्वशात् तद्ग्रहणादित्यर्थ:। स्वकात् समग्रहात् प्रत्येकमुन्नतनतकालौ साध्यावित्यर्थ:। एतदुक्तं भवति। युतिकालिकलग्नमधिकसंज्ञं प्रकल्प्य समग्रहं न्यूनसंज्ञं प्रकल्प्य। भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च।
सम्पीड्यान्तरलग्नासूनेवं स्यात् कालसाधनम्।। इति त्रिप्रश्नाधिकारोक्त्या ग्रहस्य दिनगतं रात्रिगतं प्रसाध्य दिने दिनगतशेषयो: रात्रौ रात्रिगतशेषयो: यदल्पं तदुन्नतम्। तेनोनं दिनार्द्ध रात्र्यर्द्धं वा ग्रहस्य नतम्। दिनक्षपामानं नतोन्नतमित्येकवचनेन समग्रहयोरभिन्नं दिनमानं रात्रिमानं नतमुन्नतं च इति सूचनादपि नोदयलग्नलग्नाभ्यामन्तरकाल: प्रत्येकं भिन्न: साध्य:। न वा स्पष्टक्रान्तिजचरेण दिनरात्रिमाने प्रत्येकं पूर्वमुदयलग्नस्यैवासिद्धेरिति स्फुटीकृतम्।
अत्रोपपत्ति:। तात्कालिकार्कलग्नाभ्यां यथा सूर्यस्योदयकालगतकालस्तथा तात्कालिक ग्रहलग्नाभ्यां ग्रहोदयगतकाल: सिद्ध्यति। यद्यपि सूर्यस्य क्रान्तवृत्तस्थत्वात् सूर्यस्य युक्त: काल:। ग्रहस्य तु क्रान्तिवृत्तस्थत्वानियमादुक्तरीत्या गतकालस्य क्रान्तिवृत्तस्थ ग्रहचिह्नीयत्वेऽपि ग्रहविम्बीयत्वाभावादयुक्तत्वम्। अतएव वक्ष्यमाणदृक्कर्मसंस्कृत ग्रहादानीतकालो ग्रहविम्बीयस्तथापि वक्ष्यमाणदृक्कर्मार्थं ग्रहचिह्नीयस्यैवापेक्षितत्वान्न न क्षति:।।7।।