-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ छेद्यकाधिकार:-6


परिलेख: Parilekha

अथ मध्यग्रहणं श्लोकाभ्यां परिलेखे दर्शयति—

वलनाग्रात् पुन: सूत्रं मध्यबिन्दुं प्रवेशयेत।
मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत्।।10।।
विक्षेपाग्राल्लिखेद् वृत्तं ग्राहकार्धेन तेन यत्।
वृ ग्राह्य तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत।।11।।

वलनाग्रान्माध्यकालिकवलनाग्रात् पूर्वश्लोकोक्तात् सूत्रं रेखां मध्यबिन्दुं वृत्तमध्यचिह्नं प्रति पुनर्वारान्तरं पूर्वं स्पार्शिकमौक्षिकवलनाग्राभ्यां सूत्ररचना तथैवेत्यर्थ:। प्रवेशयेद्गणक: प्रविष्टं कुर्यात्। मध्यसूत्रेणानेन मध्यकालिकविक्षेपं मध्यवलनाग्राभिमुखं नयेत्। वृत्तमध्य।विन्दोरित्यर्थसिद्धम्। तथा च वृत्तमध्यान्‍मध्यवलनाग्रसूत्रे विक्षेपाङ्गुलानि गणयित्वा तदग्रे विक्षेपाग्रे चिह्नं कुर्यादित्यर्थ:। अस्माद् विक्षेपाग्राद्ग्राहकविम्बमानार्द्धेन वृत्तं गणको लिखेत्। तेन वृत्तेन यद्यन्मितं ग्राह्यवृत्तं समाक्रान्तं व्याप्तम्। यद्ग्राह्यवृत्ताविभागरूपं तमसान्धकाररूपेण-छादकेन ग्रस्तमाच्छादितं स्यात् तन्मितं विभागं मण्यादिना लिप्तं कुर्यादित्यर्थ:। अत्रोपपत्ति:- वृत्ते मध्यसूत्रं कदम्बाभिमुखं तत्र ग्राह्यकेन्द्राच्छरान्तरेण ग्राहककेन्द्रं तस्माद् ग्राहकार्द्धेन वृत्तं ग्राहकविम्बवृत्तं तेन ग्राह्‌यवृत्तं यावदाक्रान्तं तावन्‍मध्यकाले ग्रस्तमिति तद्भागस्य कृत्स्नत्वेनाकाशे दर्शनात् तमसा ग्रस्तमित्युक्तम्।।10-11।।

ननु पूर्वकाले ग्रहणयो: सम्भवे सर्वमुक्तमुपपन्नम्। पश्चिमकपाले ग्रहणसम्भवे परलेखोक्तं वैपरीत्येन भवति। तथाहि। यस्यां दिशि परिलेखे स्पर्शो मोक्षो वा शपरकपाले तस्य पश्चिमाभिमुखत्वेन दर्शने दिग्वैपरीत्यं प्रत्यक्षमित्यत आह—

छेद्यकं लिखता भूमौ फलके वा विपश्चिता।
दिशां विपर्यय: कार्य: पूर्वापरकपालयो:।।12।।

भूमौ फलके काष्ठपट्टिकायामित्यर्थ:। वा विकल्पे भूमौ लिखितस्येतस्ततो नयनासम्भवात् फलक इत्युक्ति:। छेद्यकं प्रागुक्तं लिखता गणकेन विपश्चिता तत्वज्ञेन दिशां पूर्वादिदिशां पूर्वापरकपालयोर्विपर्ययोर्व्यत्यास: कार्य:। यथा पूर्वकपाले सव्यक्रमेण पूर्वादिलेखनं तथा परकपाले सव्यक्रमेण पूर्वादिलेखनं न कार्यम्। किन्तु पश्चिमस्थाने पूर्वा पूर्वस्थाने पश्चिमा। उत्तरदक्षिणदिग्भागे क्रमेणोत्तरदक्षिणे लेख्ये इत्यर्थ:। तेन पश्चिमकपाले ग्रहणसम्भवेऽपि परिलेखोक्तं सम्भवत्येवेति भाव:।

अत्रोपपत्ति: दिग्वैपरीत्यं भवतीति पूर्वमेव वैपरीत्येन दिशां लेखने परिलेखो यथास्थितो भवतीत्युक्तम्। भास्कराचार्यैस्तु नैतदुक्तम्। परिलेखनामुक्यं दिश्यमुकं भवतीति ज्ञानस्यावश्यकत्वेन तस्य तत्राबाधात्। न हि यथाकाशे तथा दर्शनमपेक्षितम्। भूमौ फलके वाकाशदीनां वास्तवानामभावात्। अत एव किञ्चिन्‍न्यूनसादृश्येनादृष्टान्तत्वमिति ध्येयम्।।12।।

अथ अनादेश्यग्रहणमाह—

स्वच्छत्वाद् द्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते।
लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वाच्च विवस्वत:।।13।।

चन्द्रविम्बस्य द्वादशांशो ग्रस्त आच्छादित:। अपिशब्दादाच्छादनेन तेजो हीनतया दृश्यता सम्भावनायामित्यर्थ:। न दृश्यते। हेतुमाह। स्वच्छत्वादिति तदतिरिक्तसम्पूर्णदृश्यभागस्य स्वच्छत्वाज्‍ज्योत्स्नावत्वात्। तथा च तज्ज्योित्स्नाधिक्येन ग्रस्तोऽप्यल्पोऽशं: स्वाकारेण न दृश्यते ज्योत्स्नावत्त्वेन दूरतया भासते। सूर्यस्य लिप्तात्रयं ग्रस्तमपि न दृश्यते। अत्र हेतुमाह। तीक्ष्णत्वादिति। सूर्यस्य तेजस्तैक्ष्ण्याल्‍लोकनयनप्रतिघातार्हत्वाच्चेत्यर्थ:। वृद्धवशिष्ठेन तु। ग्रस्तं शशाङ्कस्य कलाद्वयं चेत् कलात्रयं भानुमतो न लक्ष्यम्। तत्किञ्चदूनं ह्यदयास्तकाले लक्ष्यं यतस्तौ कारगुल्फृहीनौ।। इत्युक्तम्। अत उदयास्तकाले उक्तमदृश्यं दृश्यमिति ध्येयम्।।13।।