SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ ग्रहणे विक्षेपस्य दिग्व्यवस्थां मध्यग्रहणज्ञानार्थं मध्यकालिकवलनदानं च श्लोकाभ्यामाह—
नित्यशोऽर्कस्य विक्षेपा: परिलेखे यथादिशम्।
विपरीता: शशाङ्कस्य तद्वशादथ मध्यमम्।।8।।
वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि।
भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात।।9।।
अर्कस्य ग्रहणे चन्द्रविक्षेपा: परिलेखे ग्रहणभेददर्शनप्रकारे यथादिशं यथास्थितदिशं नित्यं ज्ञेया:। चन्द्रस्य ग्रहणे चन्द्रविक्षेपा विपरीता दक्षिणाश्चेदुत्तरा उत्तराश्चेद् दक्षिणा:। एतदनुरोधेनैव स्पार्शिकमौक्षिकविक्षेपौ देयौ। न यथागतदिशाविति ज्ञेयम्। अथानन्तरं तद्वशान्मध्यग्रहणकालिकविक्षेपदिश: सकाशात् सूर्यग्रहणे मध्यग्रहणकालिकस्पष्टविक्षेपदिक्चिह्नाच्चन्द्रग्रहणे मध्यकालिकविक्षेपदिग्विपरीतं दिक्चिह्नादित्यर्थ:। यदि यर्हीत्यर्थ:। तद्विक्षेपैकता तद्वलनं विक्षेपो मध्यग्रहणकालिकविक्षेप:। अनयोरेकतैक्यं दिक् सम्बन्धेनेति शेष:। एकदिशीत्यिर्थ:। अत्र चन्द्रविक्षेपदिग्यथास्थितैव न विपरीतदिगिति ध्येयम्। प्राङ्मुखं पूर्वंचिह्नसम्मुखम्। वलनाश्रितवृत्तेऽर्द्धज्यावच्चन्द्रस्य मध्यमं वलनं मध्यग्रहणकालिकं स्फुटं वलनं देयम्। भेदे वलनपिक्षेपे दिशोर्भिन्नत्वे पश्चान्मुखम्। वलनाश्रितवृत्तेऽर्द्धज्यावन्मध्यग्रहणकालिकं चन्द्रस्य वलनं पश्चिमचिह्नसम्मुखं देयम्। सूर्यग्रहणे विशेषमाह। भानोरिति। सूर्यस्य वलनं विपर्ययादुक्तवैपरीत्यात्। एकदिशि पश्चिमचिन्ह्नसम्मुखं भिन्नदिशि पश्चिमचिह्नसम्मुखं भिन्नदिशि पूर्वचिह्नसम्मुखं देयमित्यर्थ:। फलितार्थस्तु चन्द्रग्रहणे मध्यकालवलनदिक्तक्तत्कालविक्षेपयथागतदिशोर्दक्षिणत्व उत्तरचिह्नाद् वलनाश्रितवृत्तेऽर्द्धज्यावन्मध्यवलनं पूर्वचिह्नाभिमुखं देयम्। तयोरूत्तरत्वे दक्षिणचिह्नात् पूर्वाभिमुखं वलनं देयम्। यदि दक्षिणवलनमुत्तरविक्षेपस्तदा दक्षिणदिक्चिह्नादर्द्धज्यावत् पश्चिमचिह्नाभिमुखं वलनं देयम्। यद्युत्तरं वलनं दक्षिणविक्षेपस्तदा वलनाश्रितवृत्त उत्तरचिह्नात् पश्चिमचिह्नाभिमुखं वलनमर्द्धज्यावद्देयम्। सूर्यग्रहणे तु द्वयोर्दक्षिणत्वे वलनाश्रितवृत्ते दक्षिणचिह्नात् पश्चिममचिह्नाभिमुखं वलनं देयम्। उत्तरत्वे उत्तरचिह्नात् पश्चिमाभिमुखं देयम्। यदि दक्षिणं वलनमुत्तरविक्षेपस्तदोत्तरचिह्नात् पूर्वाभिमुखम्। यद्युत्तरं वलनं दक्षिणविक्षेपस्तदा दक्षिणचिह्नात् पूर्वाभिमुखं देयमिति। भास्कराचार्यैस्तत्वेतदुक्तफलितं लाघवेन दक्षिणोत्तरवलनं क्रमेण सव्यापसव्यं देयमित्युक्तम्। अत्रोपपत्ति: - प्रथमश्लोकोपपत्ति: स्पार्शिकमौक्षिकशरदानोपपत्तावुक्ता। ग्राह्यविम्बकेन्द्राद् विक्षेपान्तरेण ग्राहकविम्बकेन्द्रं भवति। शरस्य कदम्बाभिमुखत्वेन केन्द्रात् कदम्बाभिमुखं शरदानार्थं कदम्बज्ञानं वलनाश्रितवृत्त आवश्यकमतो वलनान्तरेण स्वदिग्भ्य: क्रान्तिवृत्तदिशां सत्वादुत्तरदक्षिणदिग्भ्यां मध्यवलनान्तरेण क्रान्तिवृत्तयाम्योत्तररूपकदम्बौ दक्षिणोत्तरत इति पूर्वपश्चिमानुरोधेनैतद्दानं युक्ततरम्। यद्यपि चन्द्रग्रहणे शरस्य विपरीतदिक्त्वात् तच्छरदिग्ग्रहणेन सूर्यचन्द्रयोर्मध्यवलनदानमेकदिकत्वे पश्चिमचिह्नाभिमुखं भिन्नदिकत्वे पूर्वाभिमुखमित्येकोक्तलाघवं तथापि सूर्यचन्द्रयोर्ग्रहणभेदादेकोक्तौ मन्दबुद्धीनां भ्रमसम्भवस्तद्वारणार्थं पृथगिवोक्ति: कृता। स्वतन्त्रेच्छस्य नियोगानर्हत्वाच्च।।8-9।।