SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ वलनवृत्ते वलनदानमाह—
यथादिशं प्राग्रहणं वलनं हिमदीधिते:।
मौक्षिकं तु विपर्यस्तं, विपरीतमिदं रवे:।।5।।
चन्द्रस्य ग्राह्यस्य स्पार्शिकं वलनं पूर्वचिह्नाद्यथादिशं दक्षिणं चेत् दक्षिणाभिमुखमुत्तरं चेदुत्तराभिमुखं पूर्वापरसूत्रादर्द्धज्यावद्वलनाश्रितवृत्ते देयम्। अतएव तद्वृत्तं वलनाश्रितसंज्ञम्। मौक्षिकं मोक्षकालिकं तुकाराच्चन्द्रस्य वलनम्। विपर्यस्तं विपरीतं पश्चिमचिह्नात् पूर्वापरसूत्रादर्द्धज्यावद् दक्षिणं चेदुत्तरदिगभिमुखमुत्तरं चेद्दक्षिणदिगभिमुखं देयमित्यर्थ:। सूर्यग्रहणे विशेषमाह। विपरीतमिति। सूर्यस्य ग्राह्यस्येदं स्पार्शिकं मौक्षिकं वलनं विपरीतं व्यस्तम्। मौक्षिकं वलनं पूर्वचिह्नात् पूर्वापरसूत्रार्द्धज्यावद्दक्षिणं चेद्दक्षिणदिगभिमुखमुत्तरं चेदुत्तरदिगभिमुखं स्पार्शिकं वलनं पश्चिामचिह्नात् पूर्वापरसूत्रादर्द्धज्यावद्दक्षिणं चेदुत्तरदिगभिमुखमुत्तरं चेद्दक्षिणदिगभिमुखं देयमित्यर्थ:। अत्रोपपत्ति:। चन्द्रस्य पूर्वभागे स्पर्श इति सममण्डलपूर्वचिह्नाद्वलनान्तरेण स्पर्श इति तद्वृत्ते यथासं स्पार्शिकं वलनं देयम्। पश्चिमोत्तराभिमुखस्य दक्षिणत्वाद्दक्षिणाभिमुखस्योत्तरत्वान्मौक्षिकं वलनं पश्चिमचिह्नाद्विपरीतं देयम्। सूर्यस्य तु पश्चिमभागे स्पर्शात् पश्चि्मचिह्नात् स्पार्शिकं वलनं व्यस्तं देयम्। पूर्वभागे मोक्ष इति मौक्षिकं वलनं पूर्वचिह्नाद् यथांशं देयमिति।।5।।