-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ छेद्यकाधिकार:-6


वलनम्। Balanam

तत्र प्रथमं वलनवृत्तं लिखेदित्याह—

सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत्।
सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्।।2।।

आदौ प्रथमं सुसाधितायां जलवत् समीकृतायामवनौ पृथिव्यामभीष्टस्थाने विन्दुं वृत्तमध्यज्ञापकचिह्नं कृत्वा ततश्चिह्नात् सप्तवर्गांगुलेनैकोनपञ्चाशदङ्गुलमितेन व्यासार्द्धेन मण्डलं वृत्तं वलनाश्रितं प्रागुक्तस्फुटवलनमाश्रितं यत्र वलनाश्रयीभूतं वलनदानार्थं वृत्तमित्यर्थ:। लिखेद्ग्रहणभेदज्ञानेच्छुर्गणक उल्लिखेत्। अत्रोपपत्ति: प्रागुक्ता।।2।।

अथ द्वितीयतृतीयवृत्ते आह—

ग्राह्य-ग्राह्यकयोगार्धसम्मितेनाद्वितीयकम्।
मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम्।।3।।

ग्राह्यग्राहकविम्बमानाङ्गुलयोर्योगार्द्धमितेनाङ्गुलात्मकव्यासार्द्धेन द्वितीयमेव द्वितीयकं द्वितीयवृत्तं लिखेत्। तद्वृत्तं समाससंज्ञं योगोत्पन्नत्वात्। तृतीयकं वृत्तं ग्राह्यविम्बाङ्गुलार्द्धमितेन व्यासार्द्धेन लिखेत्। अत्रोपपत्ति:। ग्रहणे शरस्य मानैक्यखण्डन्यूनत्वाद्विक्षेपोमानैक्यखण्डवृत्त इति। विक्षेपदानार्थं मानैक्यखण्डवृत्तलेखनम्। तत् परिधिकेन्द्रग्राहकार्द्धव्यासार्द्धवृत्तेन ग्राह्यवृत्तेऽवश्यं योगात् समाससंज्ञम्। ग्राह्यवृत्तं तु ग्रहणभेदज्ञानार्थमित्युपयुक्तम्। न हि तद्वृत्तं विना तद्भेदज्ञानं सम्भवति।।3।।

अथ तद्वृत्तेषु दिक्साधनातिदेशं स्पर्शमोक्षबलनदानार्थं स्पर्शमोक्षनियमं चाह—

याम्योत्तरा-प्राच्यपरा-साधनं पूर्ववत् दिशाम्।
प्रागिन्दोर्ग्रहणे पश्चान्मोक्षोऽर्कस्य विपर्य्यात।।4।।

दिशामष्टदिशां मध्ये याम्योत्तरा प्राच्यपरासाधनं पूर्ववत्। शिलातलेऽम्बुसंशुद्ध इत्यादित्रिप्रश्नाधिकारोक्तरीत्या कार्यम्। तथाहि। द्वादशाङ्गुलशङ्को: मध्यकेन्द्रस्थापितस्याद्यवृत्ते पूर्वाह्णे छायाप्रवेशोऽपराह्णे छायानिर्गमस्तचिह्नाभ्यां मत्स्यमुत्पाद्य रेखायाम्योत्तरा सा वृत्तबाह्येऽधिका सम्मार्जनीया। तदितरभागो वृत्तमध्ये पूरणी या वृत्ते याम्योत्तरा रेखा भवति । तदग्रमत्स्यात् पूर्वापरा रेखा सोभयतो वृत्तवाह्ये सम्मार्जनीया। सा वृत्ते पूर्वापरा रेखा भवतीति। चन्द्रस्य पूर्वदिशि ग्रहणं ग्रहणारम्भ: स्पर्श इति यावत्। पश्चिवमदिशि मोक्षो ग्रहणान्त:। अर्कस्य विपर्ययात् स्पर्शमुक्तौ ज्ञेयौ। ग्रहणादिरूपस्पर्श: पश्चि।मायां ग्रहणान्तरूपमोक्ष: प्राच्यामित्यर्थ:। अत्रोपपत्ति:- वृत्ते दिक्साधनेन दिश: सममण्डलीयाङ्किता:। एतच्चिह्नाद्वलनान्तरेण क्रान्तिवृत्तदिशां सत्त्वात्। तत्र स्पर्शमोक्षदिङ्नियमार्थं क्रान्तिवृत्तप्राच्यपरानुसारेण चन्द्रसूर्ययो: स्पर्शमोक्षौ निर्णेयौ। ग्रहभोगस्य तद्वृत्तानुसारित्वात्। शीघ्रगश्‍चन्द्र: सूर्यषड्भान्तरितभूच्छायां सूर्यगत्यनुरुद्धगमनां इति पश्चादागत्य मेलनारम्भं करोत्यतश्‍चन्द्रविम्बस्य पूर्वभागे स्पर्श:। भूभामतिक्रम्याग्रे चन्द्रो यदा गच्छति तदा चन्द्रस्य पश्चाद्भागे भूभावियोगोऽत: पश्चान्तमोक्ष:। सूर्यं चन्द्र: पश्चादागत्याच्छादयत्यत: सूर्यस्य पश्चिनमभागे स्पर्श: पूर्वभागे मोक्ष इति।।4।।