SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ स्थित्यर्धविमर्दार्धे च विशेषं श्लोकच्चतुष्टयेन आह—
स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुन:।
ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्।।14।।
प्राक्कपालेऽधिकं मध्याद् भवेत् प्राग्रहणं यदि।
मौक्षिकं लम्बनं हीनं, पश्चार्थे तु विपर्यय:।।15।।
तदा मोक्षस्थितिदले देयं प्राग्ग्रहणे तथा।
हरिजान्तरकं शोध्यं यत्रैतत् स्याद् विपर्यय:।।16।।
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता।
स्वे स्वे स्थितिदले योज्या विमर्दार्धेऽपि चोक्तवत्।।17।।
चन्द्रग्रहणाधिकारोक्तप्रकारेण असकृत् साधितं स्पर्शस्थित्यर्द्धं मोक्षस्थित्यर्द्धं च। तद्यथा। मध्यग्रहणकालिकस्पष्टशरादुक्तरीत्या स्थित्यर्द्धघटिका: ताभि: तिथ्यन्तकालिकग्रहा:। स्पर्शस्थित्यर्द्धनिमित्तं पूर्वं चाल्या:। मोक्षस्थित्यर्द्धनिमित्तमग्रे चाल्या:।
तत्कालयो: प्रत्येकं नतिशरौ प्रसाध्य स्पष्टशर: साध्य:। तत: प्रथमकालिकस्पष्टशरात् स्थित्यर्द्धमनेन पूर्वं तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्द्धं साध्यम्। एवमसकृत्स्पर्शस्थित्यर्द्धम्।
एवमेव द्वितीयकालिकस्पष्टशरात् स्थित्यर्द्धमनेनाग्रे तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्द्धं साध्यम्। एवमसकृन्मोक्षस्थित्यर्द्धमिति। अथाभ्यां स्पर्शमोक्षस्थित्यर्द्धाभ्यां क्रमेण हीनयुताद्दर्शान्तकालात्तु प्राग्वदुक्तरीत्या लम्बनं पुनरसकृद्
ग्रासमोक्षोद्भवं स्पर्शमोक्षकालिकं कार्यम्। तथाहि। स्पर्शस्थित्यर्द्धहीनात् तिथ्यन्तात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम्। तेन स्पर्शस्थित्यर्द्धोनतिथ्यन्तं संस्कृत्य अस्मालम्बनमनेनापि स्पर्शस्थित्यर्द्धोनतिथ्यन्तं संस्कृत्यास्माल्ल्म्बनमेवमसकृत् स्पर्शकालिकं लम्बनम्।
एवमेव मोक्षस्थित्यर्द्धयुतात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम्। तेन मोक्षस्थित्यर्द्धयुततिथ्यन्तं संस्कृत्यास्माल्लम्बनमानेनापि मोक्षस्थित्यर्द्धयुततिथ्यन्तं संस्कृत्यास्माल्लतम्बनमेवमसकृन्मोक्षकालिकं लम्बनमिति।
प्राक्कपाले त्रिभोनलग्नात् पूर्वभागे त्रिभोनलग्नाधिके रवौ मध्यान्मध्यकालिकादग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्वयेन लम्बनात् प्राग्ग्रहणं प्रग्रहणं स्पर्श: स्पर्शकालिकम्। अत्रापि लम्बनमित्यस्यान्वय:। लम्बनं चेदधिकं स्यात्। मौक्षिकं मोक्षकालसम्बन्धिलम्बनं न्यूनं स्यात्।
पश्चार्द्धे त्रिभोनलग्नात्पश्चिामभागे त्रिभोनलग्नाद्धीने रवौ। तुकार: समुच्चयार्थकचकारपर:। विपर्य्यय उक्तवैपरीत्यम्। मध्यकालिकलम्बनात् स्पर्शकालिकं लम्बनं न्यूनं मोक्षकालिकं लम्बनमधिकमित्यर्थ:। तदा तर्हि तन्मध्यहरिजान्तरम्।
तयो: स्पर्श मोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्षस्थित्यर्द्धे योज्यम्। प्राग्ग्रहणे स्पर्शस्थित्यर्द्धे तथा देयम्। मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्द्धे योज्यम्। स्पर्शमध्यकालिकलम्बनयारन्तरं स्पर्शस्थित्यर्द्धे योज्यमित्यर्थ:।
यत्र यस्मिन् काले विपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्यकालिकलम्बनात् स्पर्शकालिकलम्बनं न्यूनं मोक्षकालिकलम्बनमधिकं पश्चिमकपाले तु मध्यकालिकलम्बनात् स्पर्शकालिकलम्बनमधिकं मोक्षकालिकलम्बनं न्यूनं भवतीत्यर्थ:।
तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं लम्बनान्तरं मोक्षस्थित्यर्द्धे मध्यमोक्षकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्द्धे मध्यस्पर्शकालिकलम्बनयोरन्तरमित्यर्थ:। शोध्यं हीनं कुर्यात्। एतत्लम्बनान्तरं योज्यं शोध्यं वा कपालैक्ये द्वयो: स्पर्शमध्ययो र्मध्यमोक्षयोर्वैककपाले
स्वस्वकालिकत्रिभोनलग्नात् स्वस्वकालिकसूर्य उभयत्राधिके न्यूने वा इत्यर्थ:। उक्तं कथितम्। तद्भेदे तयो: स्पर्शमध्यमयोर्मध्यमोक्षयोश्च भेदे कपालभेदे स्पर्शकालिकत्रिभोनलग्नात्तात्कालिकसूर्यस्याधिक्ये मध्यकालिकत्रिभोनलग्नात्
तात्कालिकार्कस्य न्यूनत्वे मध्यकालिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्षकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्व इत्यर्थ:। लम्बनैकता लम्बनैक्यम्।
स्पर्शमध्ययोर्भेदे तात्कालिकलम्बनयोर्योग: मध्यमोक्षयोर्भेदात् तात्कालिकलम्बनयोर्योग इत्यर्थ:। स्वकीये स्वकीये स्थित्यर्द्धे संयुक्ता कार्या। स्पर्शस्थित्यर्द्धे स्पर्शमध्यकालिकलम्बनयोर्योगो योज्य:। मोक्षस्थित्यर्द्धे मोक्षमध्यकालिकलम्बनयोर्योगो योज्य इत्यर्थ:।
स्पर्शस्थित्यर्द्धं मोक्षस्थित्यर्द्धं च स्फुटं भवति। आभ्यां चन्द्रग्रहणोक्तदिशा मध्यग्रहणकालात् पूर्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसिद्धम्। अथोक्तरीत्या विमर्दार्द्धेऽपि स्पष्टत्वमतिदिशति विमर्दार्द्ध इति।
स्पर्शमर्दार्द्धे मोक्षमर्दार्धे चन्द्रग्रहणाधिकारोक्तरीत्या स्पष्टशरेण सकृत् साधिते उक्तव।। स्थित्यर्धेनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुन:। इत्याद्युक्तरीत्या स्थित्यर्धस्थाने ग्रासमोक्षोद्भवमित्यत्र सम्मीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्र
सम्मीलनग्रहणेनमौक्षिकमित्यत्रोन्मीलनग्रहणेन स्फुटे साध्ये। अपि: समुच्चये। चकारात् ताभ्यां सम्मीलनोन्मीलनकालौ मध्यग्रहणकालात् पूर्ववत् साध्यावित्यर्थ:। अत्रोपपत्ति:-स्थित्यर्द्धोनयुतो मध्यग्रहणकाल: स्पर्शमोक्षकाल: मध्यकालिकलम्बनसंस्कारात्
स्पर्शमोक्षकालिकलम्बनसंस्कारस्य अपेक्षितत्वाच्च। न हि य: कालो लम्बनसंस्कृत: स्फुट: स त्वभिन्नकालिकलम्बनसंस्कृत: स्फुट: स्यात् सम्बन्धाभावात्। पूर्वं स्पर्शमोक्षकालयोरज्ञानात् तात्कालिकलम्बनज्ञानाभावाच्च।
अतो मध्यकालज्ञानार्थं यथा तिथ्यान्तादसकृल्लम्बनं तिथ्यन्ते संस्कृत्य मध्यकालस्तथा स्पर्शमोक्षस्थित्यर्धहीनयुक्ततिथ्यन्तकालाभ्यां स्पर्शमोक्षतिथ्यन्तरूपाभ्यां प्रत्येकं लम्बनमसकृत् प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौ स्फुटौ तन्मध्यकालयोरन्तरं स्फुटं स्थित्यर्द्धम्।
तत्रर्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदा मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं च न्यूनं तदा स्पर्शस्थित्यर्द्धोनतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान् न्यूनलम्बनोनितस्य तिथ्यन्तस्य मध्यकालत्वात्तयोरन्तरे तिथे: समत्वेन नाशात् स्पर्शस्थित्यर्द्धं स्पर्शकालिकलम्बनेन
हीनमिति लम्बनयोरन्तरं तत्र धनं योज्यम्। एवं मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य न्यूनलम्बनोनितस्य मोक्षकालत्वान्मरध्यमोक्षकालयोरन्तरे पूर्वरीत्या मध्यमोक्षकालिकयोर्लम्बनयोन्तरं धनं मोक्षस्थित्यर्द्धे योज्यम्। यदा तु मध्यलम्बनाद्धीनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा
न्यूनलम्बहीनस्य स्पर्शकालत्वादधिकं लम्बनम् स्पर्शस्थित्यर्द्धे हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्शस्थित्यर्धयुतं मध्यकालिकसम्भवेन लम्बनान्तरं हीनम्। एवमधिकलम्बनहीनस्य मोक्षकालत्वात् मध्यमोक्षयो: अन्तरे मोक्षस्थित्यर्द्धे लम्बनान्तरं हीनम्।
धनलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्यलम्बनान्यूनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा स्पर्शस्थित्यर्द्धोनतिथ्यन्तस्य न्यूनलम्बनाधिकस्य स्पर्शकालत्वादधिकलम्बनाधिकस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे लम्बनान्तरं स्पर्शस्थित्यर्द्धे योज्यम्।
एवं मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य अधिकलम्बनाधिकस्यमोक्षकालत्वान्म्ध्यमोक्षयोरन्तरे लम्बनान्तरं मोक्षस्थित्यर्द्धे पूर्वरीत्या योज्यम्। यदा तु मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं च न्यूनं तदाप्यनधिकलम्बनाधिकस्य स्पर्शकालत्वाद्धीनलम्बनाधिकस्य
मध्यकालत्वात् तयोरन्तरमुक्तरीत्या स्पर्शस्थित्यर्द्धे लम्बनान्तरं हीनम्। एवं न्यूनलम्बनाकिस्य मोक्षकालत्वात् तन्मध्यकालान्तरे मोक्षस्थित्यर्द्धे लम्बनान्तरं हीनमिति सिद्धम्। नन्वयं लम्बनान्तरहीनपक्षो न सङ्गत:।
वाधात्। तथाहि ऋणलम्बनस्य क्रमेणापचयात् स्पर्शमध्यमोक्षकालानां यथोत्तरं सम्भवाच्च मध्यकालिकलम्बनात् स्पर्शमोक्षकालिक लम्बनयो: क्रमेण न्यूनाधिकत्वमसिद्धम्। एवं धनलम्बनस्य क्रमेणोपचयान्मध्यलम्बनात् स्पर्शमोक्षकालिकलम्बनयो: क्रमेणाधिकन्यूनत्वमसिद्धम्।
न हि कदाचिन्मध्यकालात् स्पर्शमोक्षकालौ क्रमेणाग्रिमपूर्वकालयो: सम्भवतो येनोक्तं युक्तम्। बाधात्। तथा च लम्बनान्तरं योज्यमित्यैको पपन्नत्वे महतैतावता प्रपञ्चेन। “हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्यय:।“ इति सर्वज्ञभगवदुक्तं कथं निर्वहतीति चेत। मैवम्।
लम्बनसंस्कृतस्पर्शमोक्षकालयो: स्फुटयोर्वस्तुभूतयो: सर्वदा मध्यकालात् क्रमेण पूर्वोत्तरावश्यम्भावित्वेऽपि लम्बनासंस्कृतयो: स्थित्यर्द्धोनयुततिथ्यन्तरूपस्पर्शमोक्षकालयो: पारिभाषिकत्वेनावास्तवयो: कदाचित् मध्यकालर्णधनलम्बनाभ्यां
स्पर्शस्थित्यर्द्धमोक्षस्थित्यर्द्धयो: क्रमेण न्यूनत्वे मध्यकालादग्रिमपूर्वकालयो: क्रमेण सम्भवात् स्फुटो निर्वाह:। परन्तु ऋणलम्बने धनलम्बने च मध्यलम्बनात् क्रमेण मोक्षस्पर्शलम्बनयोरधिकत्वासम्भव:। मध्यकालात् पूर्वाग्रिमकालयो: मोक्षस्पर्शयो: पारिभाषिकयो: क्रमेणासम्भवात्।
अत: साक्षात् कण्ठोक्तेरभावाद् विपर्यय इत्यनेन विपर्यय विशेषस्यैव विवक्षितत्वम्। पूर्वं तु साधारण्याच्छब्दस्य साधारण्येन व्याख्यानं कृतमित्यदोष:। ननु तथाप्यसकृल्लम्बनसाधने लम्बनस्य स्पष्टस्पर्शमोक्षकालाभ्यां सिद्धत्वेनर्णलम्बनात् स्पर्शलम्बनं न्यूनं भवत्येव।
धनलम्बने मोक्षलम्बनं न्यूनं न भवत्येव। मध्यकालाद वास्तवस्पर्शमोक्षकालयो: क्रमेणाग्रिमपूर्वकालयो: क्रमेणाग्रिमपूर्वकालयोरसम्भवनिर्णयात्। अन्यथा स्थिरलम्बनासम्भवात्। किञ्चासकृल्लम्बनसाधनेन यत्कालात् स्थिरलम्बनं सिद्धं तत्कालस्य सूक्ष्मस्पर्शमोक्षकालत्वात्
स्फुटस्थित्यसर्द्धसाधनं व्यर्थम्। तस्य तज्ज्ञानार्थमेवावश्यकत्वात्। न च चन्द्रग्रहणरीत्या स्पर्शमोक्षकालयोर्ज्ञानार्थं स्फुटस्थित्यर्द्धोक्तिरिति वाच्यम्। गौरवाद्व्यर्थत्वाद्धरिजान्तरकं शोध्यमित्यस्यानुपपत्तेश्च इति चेन्न। लम्बनयोरसकृत्साधनस्यानङ्गीकारात् सकृत्साधितलम्बनस्य सान्तरत्वेऽपि
भगवता स्वल्पान्तरेणाङ्गीकाराच्च। अत एव लम्बनं पुनरित्यत्र पुनरित्यस्य व्याख्यानं सकृदिति पूर्वमुक्तं न युक्तम्। किन्तु मध्यकालार्थं लम्बनस्य साधनात् स्पर्शमोक्षकालार्थमपि द्वितीयवारं लम्बनं साध्यमिति व्याख्यानम्। पुनरिति वाक्यालङ्करणं वा युक्ततरमिति।
अथ यदा स्थूलस्पर्शकालर्णलम्बने धनलम्बने च मध्यकालस्तदा स्पर्शस्थित्यर्द्धोनतिथ्यन्तस्य लम्बनहीनस्य स्पर्शकालत्वाल्लम्बनाधिकतिथेर्मध्यकालत्वात् तदन्तरे स्पर्शस्थित्यर्द्धं तात्कालिकलम्बनयोर्गोगेन युक्तमित्युक्तरीत्योपपद्यते। एवं यदा मध्यकालर्णलम्बने स्थूलमोक्षकालश्च
धनलम्बने तदा लम्बनहीनतिथ्यन्तस्य मध्यकालत्वात् मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य लम्बनाधिकस्य मोक्षकालत्वात् तदन्तरे मोक्षस्थित्यर्द्धं लम्बनयोगयुक्तमित्युपपन्नं न च असकृल्लम्बनसाधनेन सूक्ष्मस्पर्शमोक्षयो: सिद्धौ सकृल्लम्बनाङ्गीकारेणोक्तरीते: सान्तरत्वात् कथं भगवत:
सर्वज्ञस्यास्यां रीत्यामभिनिवेश इति वाच्यम्। असकृल्लम्बनसाधने प्रयासाधिक्यभयाद्भगवता सर्वज्ञेन स्वल्पान्तराङ्गीकाराल्लाघवाच्च चन्द्रग्रहणोक्तरीत्यानुगमार्थं स्फुटस्थित्यर्द्धसाधनस्यैवोक्तेरिति दिक्। वस्तुतस्तु सूर्योदयाद्यत्र प्राक् स्पर्शोऽनन्तरं मध्यकालस्तदा
मध्यलम्बनात् स्पर्शलम्बनं सत्रिभलग्नचतुर्थभावसाधितं कदाचिन्यूनं भवति। यत्र चोदयात् पूर्वं मध्य: परतो मोक्षस्तत्र कदाचित् सत्रिभलग्नचतुर्भावानीतमध्यकाल लम्बनान्मोक्षकाललम्बनमधिकं भवति। यत्र चास्तात् पूर्वं स्पर्श: परतो मध्यस्तदा मध्यकाललम्बनाद्
रात्रिसम्बन्धात् स्पर्शकाललम्बनं कदाचिदधिकं भवति। यत्र चास्तात् पूर्वं मध्यकाल: परतो मोक्षस्तदापि मध्यकाललम्बनान्मोक्षकाललम्बनं रात्रिसम्बद्धं न्यूनं न भवति। कदाचिदिति।
ग्रस्तोदयग्रस्तास्तयो: कदाचिद्विपर्यसम्भवाहरिजान्तरकं शोध्यमित्यस्य नाप्रसिद्धि:। एतेन लम्बनमस कृन्न साध्यं विपर्यय इति विपर्ययविशेष इति चोक्तं समाधानं निरस्तमिति। तत्त्व म्। विमर्दार्द्धेऽप्युक्तरीतिस्तुल्येति सर्वमुपपन्नम्। भास्कराचार्यैस्तु।
तिथ्यन्ताद्गगणितागतात् स्थितिदलेनोनाधिकाल्लम्बनं तत्कालोत्थनतीषु संस्कृतिभवस्थित्यर्द्धहीनाधिके। दर्शान्ते गणितागते धनमृणं यद्वा विधायासकृत् ज्ञेयौ प्रग्रहमोक्षसंज्ञसमयावेवं क्रमात् प्रस्फुटौ।।
तन्मध्यकालान्तरयो: समाने स्पष्टे भवेतां स्थितिखण्डके च। दर्शान्ततो मर्ददलोनयुक्तात् स्म्मीलनोन्मीलनकाल एवम्। इत्यनेन भगवदुक्तादतिसूक्ष्ममुक्तमित्यलं पल्लवितेन।।14-17।।