-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ सूर्यग्रहणाधिकार:-5


नतिसाधनम्। Natisadhanam

अथ नतिसाधनमाह—

दृक्क्षेप: शीततिग्मांशोर्मध्यभुक्त्यन्तराहत:।
तिथिघ्नस्‍त्रिज्यया भक्तो लब्धं साऽवनतिर्भवेत्।।10।।

दृक्क्षेप: प्रागानीत: शीततिग्मांशोश्‍चन्द्रार्कयोर्मध्यगतीकलात्मके तयोरन्तरेण गुणितया त्रिज्यया भक्त: फलं सा देशकालविशेषाभ्यां या गोले सिद्धा भवति सैवात्र गणिते नतिर्भवेत्। अथवा प्रकारान्तरेण सप्तसप्तकसङ्गुणात् सप्तानां सप्तकं सप्तवारमावृत्तिर्वर्ग एकोनपञ्चाशदित्यर्थ: तेन गुणिताद्दृक्क्षेपात्त्रिज्यया भक्तात् फलं कलादिका नति:। परमास्तु नतिकलाभूगर्भक्षितिजाद्धूपृष्ठक्षितिजस्य भूव्यासार्धान्तरेणोच्छ्रितत्वाद्रतियोजननैर्गत्यन्तरकला लभ्यन्ते तदा भूव्यासार्धयोजनै: का इत्यनुपातेन तत्र मध्यगतियोजनानां भूव्यासार्धस्य च नियतत्वाद्धूव्यासार्धेनापवर्त: कृत:। तेन मध्यगत्यन्तरकलानां स्वल्पान्तरेण पञ्चदशांश: परमा नतिकला:। अतएव षष्टिघटिकानां पञ्चदशांशो घटिकाचतुष्टयं परमं लम्बनं सिद्धम्। आभिस्रिज्रूज्ञत्फल्यदृक्क्षेपे सूर्यशतभूपृष्ठसूत्राच्चन्द्रस्य दक्षिणोत्तरेणावलम्बनं भवति। अतस्रिज्यातुल्यदृक्क्षेपे सूर्यशतभूपृष्ठसूत्राच्चन्द्रस्य दक्षिणोत्तरेणावलम्बनं भवति। अतस्रिज्यातुल्यदृक्क्षेपेण कत्यनुपाते गत्यन्तरगुणो दृक्क्षेपो हरघातेन पञ्चदशगुणितत्रिज्यात्मकेन भक्तो् नतिकला इत्युपपन्नम्।।10।।

अथ प्रकारान्तराभ्यां नतिसाधनं लाघवादाह—

दृक्क्षेपात् सप्ततिहृताद् भवेद्वाऽवनति: फलम्।
अथ वा त्रिज्यया भक्तात् सप्त सप्तकसंगुणात्।।11।।

सप्तत्या भक्ताद्दृक्क्षेपात्फलं कलादिका नति: प्रकारान्तरेण भवेत्। अथवा प्रकारान्तरेण सप्तसप्तकसंगुणात्सप्तानां सप्तकं सप्तवारमावृर्त्तिर्वर्ग एकोनपञ्चादित्यर्थ:। तेन गुणिता दृक्क्षेपात्रिज्यया भक्तात्फलं कलादिका नति:।

अत्रोपपत्ति:—दृक्क्षेपस्य गत्यन्तरकलामित 73 । 27 गुणकपञ्चदशगुणित त्रिज्यामितहरौ 51570 प्रथमप्रकारे गत्यन्तरापवर्तितौ हरस्थाने सप्तति:। द्वितीयप्रकारे पञ्चदशभि पवर्त्य गुणस्थाने स्वल्पान्तरादेकोनपञ्चाशद्धरस्थाने त्रिज्येत्युपपन्नम्।।11।।