-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
अथ सूर्यग्रहणाधिकार:-5


लम्बनसाधनम् | Lamwansadhanam

अथ लम्बनोपयुक्तच्छेदकथनपूर्वकं लम्बनानयनं सार्द्धश्लोकेन आह—

एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया।।7।।
मध्यलग्नार्क विश्लेषज्या छेदेन विभाजिता।।
रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चात् घटिकादिकम्।।8।।

एकराशिज्याया वर्गाद्दृग्गतिजीवया प्रागुक्तदृग्गत्या। दृग्गते: त्रिशङ्कुरूपत्वेन ज्यारूपत्वाज्‍जीवयेति स्वरूपप्रतिपादनम्। भागहरणेन लब्धं छेदसंज्ञं स्यात्। अथ मध्यमलग्नम्। त्रिभोनलग्नं दर्शान्तकालिकं न तु दशमभाव:। तात्कालिक: सूर्य:। अनयोरन्तरस्य त्रिभादधिकस्य ज्या छेदेन प्राक्साधितेन भक्ता घटिकादिकं प्राक् पश्चात् त्रिभोनलग्नरूपमध्यलग्नस्थानात् पूर्वापरविभागयो: सूर्यचन्द्रयोस्‍तुल्यं लम्बनं ज्ञेयम्।

अत्रोपपत्ति:- त्रिभोनलग्नार्क विशेषशिज्जिनी कृताहता व्यासदलेन भाजिता। हतात् फलाद्वित्रिभलग्नशङ्कुना त्रिजीवयाप्तं घटिकादिलम्बनम्।।

इति सिद्धान्तशिरोमणौ सूक्ष्मं लम्बनानयनमुक्तम्। तस्योपपत्तिस्तट्टीकायां सुप्रसिद्धा। मध्यलग्नस्य त्रिभोनपरत्वेन व्याख्यानान् मध्यलग्नार्कविश्लेषज्या त्रिभोनलग्नार्क विश्लेषशिन्जिनीरूपा जाता। इयं चतुर्गुणा त्रिभोनलग्नशङ्कुरूपदृग्गत्या च गुण्या त्रिज्यावर्गेण भाज्येति लम्बनानयनप्रकारेण सिद्धम्। तत्र चतुस्त्रिज्यावर्गयोर्गुणहरयोर्गुणापवर्त्तनेन हरस्थान एकोराशिज्यायावर्ग: सिद्ध:। अत्रापि दृग्गत्येकराशिज्यावर्गो गुणहरौ गुणेनापवर्त्य हरस्थान एकज्यावर्ग इत्यादिना छेद उपपन्न:। हरस्य छेदाभिधानात्। अतो मध्यलग्नार्केत्याद्युक्तमुपपन्नम्। लम्बनघटीभिरूभयोश्चालनं वक्ष्यमाणगणितं आवश्यकमिति सूचनार्थं रवीन्द्वोर्लम्बनमित्युक्तम्। अन्यथा दर्शान्तकाले सूर्यगतभूपृष्ठसूत्राच्‍चन्द्रकक्षायां चन्द्रचिह्नस्य तद्द्यटीभिर्लम्बितत्वाद्द्वयोरुक्त्यनुपपत्ति:। त्रिभोनलग्नसमेऽर्के लम्बनाभावात् पूर्वापरविभागे सूर्ये सति लम्बनं भवतीति प्राक् पश्चादित्युक्तम्। अत्रेदमवधेयम्। लम्बनानयने मध्यलग्नस्य त्रिभोनलग्नेत्यर्थे छेद: पूर्वसाधितसूक्ष्मदृग्गत्या सूक्ष्मो नतांशेत्यादि गृहीतस्थूलदृग्गत्या स्थूल इति। एवं मध्यलग्नेत्यस्य दशमभावार्थे तु विपरीतमिति। एतेन मध्यलग्नेत्यस्य दशमभावार्थ:। तत्र प्रयाससाधित सूक्ष्मदृग्गत्या सूक्ष्मं लम्बनम्। नतांशेत्याद्युक्तस्थूलदृग्गत्या स्थूललम्बनमिति। सम्प्रदायिकोक्तं निरस्तम् युक्त्यभावात्। न चात्र मध्यलग्नरूपदशमभावगृहेऽपि गोलयुक्त्या प्रतिपादनस्य सत्वात् कथमादित्योक्तं मध्यलग्नमिति पदं सार्वजनीनदशमभावप्रत्यायकं त्रिभोनलग्नपरतया हठाद् व्याख्यातुं युक्तम्। नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती। इत्यत्र स्फुटे इत्यनेन भगवतस्तदाशयस्य व्यक्तीकृतत्वात् इति वाच्यम्। तथापि गौरवसाधितदृक्क्षेपोक्तिर्भगवदाशयस्थितत्रिभोनलग्नग्रहणं व्यनक्ति। अन्यथा प्रयास साधितदृकक्षेपस्य वैयर्थ्यापत्तेरिति सुधियावलोक्यमित्यलं विस्तरेण ।।7-8।।

अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बिनसस्कारं तदसकृत् साध्यमिति चाह—

मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत्।
धनमूनेऽसकृत् कर्म यावत् सर्वं स्थिरीभवेत्।।9।।

सूर्ये मध्यलग्नं त्रिभोनलग्नं तस्माद् अधिके सति तिथ्यन्ताद्दर्शतिथ्यन्तकालादागतं लम्बनं शोधयेत्। सूर्ये त्रिभोनलग्नान्‍न्यूने सति तिथ्यन्तकाले लम्बनं धनं युतं कार्यम्। एवं कर्म गणितमसकृन्मुहु: कार्यम्। अयमर्थ:। तिथ्यन्तकालिक: सूर्यो लम्बनघटीभि: क्रमेण पूर्वाग्रिमकाले चाल्पो लम्बनसंस्कृततिथ्यन्तेऽर्को भवति। तस्माल्‍लम्बनसंस्कृततिथ्यन्तकाले लग्नदशमभावौ प्रसाध्य पूर्वोक्तरीत्या लम्बनं साध्यम्। इदमपि केवलं तिथ्यन्ते संस्कार्योक्तरीत्या लम्बनं केवलं तिथ्यन्ते संस्कार्यम्। अस्मादपि लम्बनं तिथ्यन्ते संस्कार्यमिति असकृदिति। गणितावधिमाह। यावदिति। सर्वं गणितं लम्बनादि यावत् यत्परिवर्तावधिस्थिरीभवेत्। अविलक्षणं यावदविशेष इत्यर्थ:। अत्रोपपत्ति:।

दर्शान्तकाले रविगतभूपृष्ठसूत्रात् चन्द्रस्याधोलम्बितत्वेन त्रिभोनलग्नादूने रवौ क्रान्तिवृत्ते पूर्वापरान्तराभावेनैकसूत्रस्थितत्वरूपयुतिर्दर्शान्तकालाल्‍लम्बनकालेनाग्रे भवति। शीघ्रगचन्द्रस्य मन्दगरवित:पृष्ठे स्थितत्वात्। अधिके रवौ चन्द्रस्य पुर:स्थितत्वेन दर्शान्तकालाल्‍लम्बनकालेन पूर्वं युतिर्भवति। अतो दर्शान्तकालो लम्बनसंस्कृतो मध्यग्रहणकाल: स्यात्। युतिकालस्य मध्यग्रहणकालत्वात्। परन्तु तावता लम्ब्नकालेन सूर्यस्यापि क्रान्तिवृत्ते चलनाल्‍लम्बनसंस्कृतदर्शान्तकाले रविगतभूपृष्ठसूत्राच्चन्द्रस्य लम्बितत्वं स्यादेवेति मध्यग्रहणकालस्तु असिद्ध:। न हि सूर्यो धनलम्बनऋणलम्बने चन्द्रश्च लम्बनकाले स्थिरा येन तयोर्युति: सङ्गता स्यात्। अतस्‍तादृशकालात् पुनस्तात्कालिकं लम्बनं प्रसाध्‍य दर्शान्ते पुन: संस्कार्यम्। मध्यकाल: स्यात्। एवं तादृशलम्बनसंस्कृतदर्शान्तेऽपितयोर्भूपृष्ठसूत्रस्थत्वाभावात् पुनर्लम्बनं साध्यम्। तत् संस्कृतो दर्शान्तो मध्यग्रह इत्यसकृद्विधिना यदा लम्बनं पूर्वलम्बनतुल्यं सिध्यति तदावश्यं तादृशलम्बनसंस्कृतदर्शान्तरूपमध्यग्रहणकाले भूपृष्ठसूत्रे तयो: सन्निवेश:। यतस्तदा सूर्यगतभूपृष्ठ सूत्रचन्द्रयोरअन्तराभावेन पूर्वागतलम्बनतुल्यलम्बनस्य पुन: सिद्धे:। अन्यथा तुल्यलम्बनानुपपत्ते:। तस्मान्मध्यकालोऽसकृद्यावदविशेष: साध्य इत्युपपन्नं मध्यलग्नेत्यादि।।9।।