SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
लम्बननत्योरभावनिर्णय—
मध्यलग्नसमे भानौ हरिजस्य न सम्भव:।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि।।1।।
सूर्येऽमावास्यान्तकालिके मध्यलग्नसमे सति दिनमध्यस्थान ऊर्ध्वयाम्योत्तरवृत्ते लग्न: क्रान्तिवृत्तप्रद्रेशो मध्यलग्नं त्रिप्रश्नाधिकारोक्तम्। तत्तुल्ये सति मध्याह्न इति फलितम्। हरिजस्य लम्बनस्य भूपृष्ठक्षितिजवशाल्लम्बनोत्पत्तेर्लम्बनस्यापि क्षितिजवाचकहरिजशब्देना भिधानात् सम्भव उत्पत्तिर्न। तत्र लम्बनाभाव इत्यर्थ:। अथ मध्याह्न इति स्फुटोक्त्यपेक्षया मध्यलग्नसम इति वक्रोक्ति: कृपालो: भगवतो नोचितेत्यग्रिमग्रन्थार्थतत्त्वविचारणयापि मध्याह्ने तद्भावानुपपत्ते: साम्प्रदायिकव्याख्यामनादृत्य तत्त्वार्थो व्याख्यायते। लग्नयोरूदयक्षितिजास्तक्षितिजप्रदेशयो: संलग्नक्रान्तिवृत्तप्रदेशयोर्मध्यम ऊर्ध्वमध्यप्रदेशस्त्रियभोनलग्नमित्यर्थ:। प्रयोगस्तु मध्याह्न इतिवत्। तत्तुल्येऽर्के लम्बनस्याभाव इति । दर्शान्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्ये। रवौ तदूनेऽभ्यधिके च तत् स्यादेवं धनर्णं क्रमशश्च वेद्यम्।। इति भास्कराचार्येण स्फुटमुक्तेश्च। नत्यभावस्थानमाह। अक्षेत्यादि। आक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्य क्रान्त्यंशा:। अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वा ग्राह्यमुभयपक्षेऽपि अदोष:। अनयोस्तुल्यत्वेऽवनतेर्नते:। अपिशब्दात् सम्भवो न। अभाव इत्यर्थ:। न तु अपिशब्दाल्लम्बनस्यापि तत्राभाव: उत्तरक्रान्त्यक्षयोस्तुल्यत्वे मध्यलग्नतुल्यार्कत्त्वाभावेऽपि तद्भावापत्ते:। अत्रोपपत्ति:- अमावास्यान्तकाले समौ सूर्यचन्द्रौ। तत्र चन्द्रशराभावे भूगर्भान्नीयमानं सूत्रमर्कस्थानावधि चन्द्रं स्पृशत्येवेति भूगर्भे छादकत्वं चन्द्रस्य सूर्यस्य छाद्यत्वं सम्भवति। तत्र मनुष्याणामसत्वाद्भूपृष्ठे तेषां सत्वाच्च भूपृष्ठान्नीदयमानमर्कोपरि सूत्रं चन्द्रे न लगति। किन्तु चन्द्राधिष्ठानगोले चन्द्रचिह्नादूर्घ्वं लगति। तत्र यदा चन्द्र आयाति तदा भूपृष्ठे सूर्यस्य चन्द्रश्छादको भवति। यदा तु खमध्ये सूर्यस्तदा भूगर्भसूत्रं भूपृष्ठसूत्रं च सूर्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽमान्तकाले चन्द्रश्छादको भवति। अतएव भूगर्भ पृष्ठसूत्रान्तरं लम्बनम्। भूपृष्ठसूत्रात् सूर्योपरिगाच्चन्द्राधिष्ठानाकाशगोले चन्द्रस्य शरसत्वे चन्द्रचिह्नस्य वा लम्बितत्वात्। अत एव भास्कराचार्यैरूक्तम्। दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम्। इति। अथ चन्द्राधिष्ठानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिह्नादूर्ध्वं चन्द्रदृग्वृत्ते यदंशैर्लगति तल्लम्बन द्वृग्वृत्ताकारकक्रान्तिवृत्ते भवति। यदा तु द्वृग्वृत्ताद्भिन्नं क्रान्तिवृत्तं तदा भूपृष्ठसूत्रं चन्द्राधिष्ठानगोले चन्द्रदृग्वृत्ते चन्द्रादूर्ध्वं यत्र लग्नं तत्र चन्द्रगोलस्थक्रान्तिवृत्तयाम्योत्तररूप कदम्बप्रोतवृत्तमानीय चन्द्रगोलस्थक्रान्तिवृत्ते यत्र लग्नं तच्चन्द्रचिह्नयोरन्तरं क्रान्तिवृत्ते पूर्वापरं स्फुटलम्बनकला: कोटि:। चन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात् प्रोतवृत्ते क्रान्तिवृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं नतिर्भुज:। भूगर्भपृष्ठसूत्रान्तरं द्वग्वृत्ते कलात्मकं द्वृग्लम्बनं कर्ण:। द्वृग्वृत्तस्य कदम्प्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तराभावाल्ललम्बनाभाव: याम्योत्तरमन्तरं द्वृग्लम्बनं नतिरेवोत्पन्ना। दृग्वृत्ताकारक्रान्तिवृत्ते तु दृग्लम्बनमेव क्रान्तिवृत्ते तयोन्तरमिति लम्बनमुत्पन्नं नत्यभावश्च। तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽर्को भवति। तद्वृत्तस्य क्रान्तवृत्तयाम्योत्तरत्वेनो उदयास्तलग्नमध्यवर्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात्। न हि क्रान्तिवृत्ताद्याम्योत्तरान्तरज्ञानार्थं समप्रोतवृत्तमङ्गीकार्यम्। येन दशमभावतुल्यार्के लम्बनाभाव उपपन्न: स्यात्। क्रान्तिवृत्तस्य गोलवृत्तत्वेन सम्प्रोतवृत्तस्य देशवृत्तत्वेन सम्बन्धाभावात्। अतएव भगवता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेप: त्रिभोनलग्नस्यैव साधित: दृक्क्षेपाभावे त्रिभोनलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन दशमभावनतांशाभावाद्दृक्क्षेपाभाव:। तदा त्रिभोनलग्नस्य नतांशाभावश्च। नतांशाभावस्त्वक्षांशतुल्योत्तरक्रान्तौ सुखार्थं स्थूलाङ्गीकारे तु दशमभावस्यैव नतांशोन्नतज्ये दृक्क्षेपदृग्गती नतिलम्बनयो: साधनार्थं समनन्तरमेव भगवतोक्तेर्न तु वस्तुरूपे। आयासेन दृक्क्षेपसाधनस्योवक्तस्य वैयर्थ्यापत्तेरिति सर्वं निरवद्यम् ।।1।।