-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
चन्द्रग्रहणाधिकार:-4


कलात्मकविम्बविक्षेपादीनामङ्गुलीकरणम् ।
Kalatmakabimwavikhyepadinam

अथ कलात्मकविम्बविक्षेपादीनामङ्गुलीकरणमाह—

सोन्नतं दिनमध्यर्थं दिनार्धाप्तं फलेन तु।
छिन्द्याद् विक्षेपमानानि तान्येषामंगुलानि तु।।26।।

दिनमानमध्यर्द्धमर्द्ध इत्यध्यर्द्धं स्वार्द्धयुक्तमित्यर्थ:। अभीष्टकालिकोन्नतघटीभि: सहितं दिनार्द्धेन भक्तं फलेन। तुकारो यद् ग्रहणं तस्य दिनमानोन्नते ग्राह्ये इत्यर्थक:। विक्षेपग्राह्यग्राहकविम्बामानानि तानि पूर्वोक्तानि कलात्मकानि। ग्रासादिकमपि ध्येयम्। भजेत्। तुकारात् फलमेषां कलात्मकानामङ्लानि भवन्ति। अत्रोपपत्ति:। उदयास्तकाले विम्बकिरणानां भूमिगोलावरुद्धत्वेनाल्पोर्ध्वस्थकिरणानां नयनप्रतिहननार्हत्वाद्विम्बं व्यक्तत्वान्‍महद्भासते। तत्राङ्गुलात्मकं विम्बं कलात्रयात्मकैकाङ्गुलप्रमाणेन भवति। खमध्यस्थे ग्रहे तु विम्बस्य सर्वकिरणावरूद्धत्वान्‍न्‍यूनप्रतिघाताच्च सूक्ष्मं विम्बं भासते। तत्राङ्गुलात्मकं विम्बं कला चतुष्टयात्मकैकाङ्गुप्रमाणेन भवति। तत्रोदयास्तकाले शङ्कोरभावात् खमध्ये तस्य त्रिज्यातुल्यत्वात् त्रिज्यातुल्यशङ्कौ उदयकालिकैकाङ्गुलमानस्य कलात्रयस्य एकाङ्गुलमुपचयो लभ्यते तदेष्टशङ्कौ क इत्यनुपातेनाभीष्टकाले फलं युक्तम्। त्रयमेकाङ्गुलस्य कलात्मकं मानं भवति। अतएव भास्कराचार्यैरूदयास्तकाले सार्द्धद्वयं कलाङ्गुलमानमङ्गीकृत्य गी त्रिज्योद्धृतस्तत्समयोत्थशङ्कु: सार्द्धद्वियुक्तोऽङ्गुललिप्तिका: स्यु:।

इत्युक्तम्। तत्र भगवता लोकानुकम्पया स्वल्पान्तरत्वाच्च मध्याह्नेऽपि कलाचतुष्टयात्मकमेकाङ्गुलमङ्गीकृत्य दिनार्द्धतुल्यपरमोन्नतकाल एकापचयस्तदेष्टोन्नतकाले क इत्यनुपातागतफलयुक्तं त्रयं कला एकाङ्गुलमानमभीष्टकाले। तत्र दिनार्द्धभक्तोन्नतकालस्य फलरूपत्वात् त्रयाणां समच्छेदतया योजने त्रिगुणितं दिनार्द्धं सार्द्धैकगुणदिनमानरूपमुन्नतकालयुक्तं दिनार्द्धभक्तमिति सिद्धम्। तत एतत्कलाभिरेकाङ्गुलं तदेष्टकलाभि: किमित्यनुपातेन कलात्मकानामङ्गुलीकरणमुक्तमुपपन्नम्।।26।।