-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
चन्द्रग्रहणाधिकार:-4


वलनम्। Balanam

अथ वक्ष्यमाणग्रहणपरिलेखोपयुक्तवलनस्यानयनं श्लोकाभ्यामाह—

नतज्याक्षज्याभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्
वलनांशा: सौम्ययाम्या: पूर्वापरकपालयो:।।24।।
राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युता: ।
भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता:।।25।।

यत्कालिकं वलनं कर्त्तुमिष्टं तात्कालिकं नतं चन्द्रग्रहणे चन्द्रस्य सूर्यग्रहणे सूर्यस्य साध्यम्। तद्यथा स्वोदयात् स्वास्ताद्गतशेषघटिका: स्वदिनार्द्धान्तर्गता: स्वदिनार्द्धादूना: क्रमेण पूर्वापरनतघटिका भवन्ति। तन्नतं नवतिगुणं स्वदिनार्द्धभक्तं नतांशास्तेषां ज्या नतज्येत्यर्थ:। स्वदेशाक्षांशज्यया गुणिता त्रिज्यया भक्ता फलस्य धनु: कलात्मकं षष्टिभक्तं पूर्वापरकपालयो:पूर्वापरनतयो: क्रमेण उत्तरदक्षिणवलनांशा भवन्ति। यत्कालिकं वलनं तात्कालिकाद्ग्राह्यात् राशित्रययुतात् सायनांशाद्ये क्रान्त्यंशास्तैर्दक्त्तुल्ययुतास्तेषां ज्याभेदे भिन्नदिक्त्वेऽन्तरात्क्रान्त्यंशवलनांशयो रन्तराज्ज्या सप्तत्यङ्गुलैर्भक्ता शेषदिक्का। अङ्गुलात्मकत्वेन हरस्योद्देशादङ्गुलादिका वलना भवति। अत्रोपपत्ति:। समवृत्तपूर्वापरादिदिग्भ्य: क्रान्तिवृत्तपूर्वापरादिदिशो यावतान्तरेण वलिता उत्तरस्यां दक्षिणस्यां वा वलनांशा:। तदानयनार्थं प्रथमत: समवृत्तानुरूद्धदिग्भ्यो विषुवद्वृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्तरयोस्‍तदाक्षवलनम्। तथाहि। समप्रोतचलवृत्तं ग्रहचिह्नस्थं समविषुवद्वृत्तयोर्यत्र लग्नं तत्प्रदेशान्नवत्यंशान्तरे स्वस्ववृत्ते प्राच्योरन्तरं वलनं तत्तुल्यमेवोत्तरादिशामन्तरं पूर्वकपालस्थग्रहे समवृत्तप्राचीतो विषुवद्वृत्तप्राच्या उत्तरत्वादुत्तरम्।। पश्चिमकपालस्थे तु समवृत्तप्राचीतो विषुवद्वृकृत्तप्राच्या दक्षिणत्वाद्दक्षिणम्। तत्र क्षितिजस्थे ग्रहे तदन्तरम्क्षांशतुल्यम्। याम्योत्तरवृत्तस्थे ग्रहे तदन्तरा भाव:। अतिस्त्रिज्यातुल्यया नतकालज्ययाक्षज्यातुल्याक्षवलनज्या तदेष्टनतज्यया केत्यनुपातागताक्षज्याया धनुराक्षवलनमुक्तमुपपन्नम्। द्वितीयन्तु विषुवद्वृत्तदिग्भ्य: क्रान्तिवृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्तरयोस्‍तदायनं वलनम्। तथाहि ध्रुवप्रोतवृत्तं ग्रहचिह्नस्थं विषुवद्वृत्ते यत्रासन्नं लगति तत् स्थानाच्चतुर्थांशांन्तरे यत् स्थानं तद्विषुवत्प्राची। तस्या ग्रहचिह्नात्त्रिभान्तरितक्रान्तिवृत्तप्राची यदन्तरेण तदायनं वलनम्। तत् तुल्यमेवेतरदिशामन्तरम्। उत्तरायणस्थे ग्रहे उत्तरं दक्षिणायनस्थे ग्रहे दक्षिणम्। तत् तु अयनसन्धौ अभावात्मकम्। गोलसन्धौ परमक्रान्तितुल्यमत: सत्रिभक्रान्तितुल्यं सत्रिभग्रहगोलदिक्कमित्युपपन्नं राशित्रययुताद्ग्राह्यात् क्रान्त्यंशैरिति। द्वयोर्वलनयोरेकदिक्त्वे समवृत्तप्राचीत: क्रान्तिवृत्तप्राची तद्योगरूपस्फुटवलनान्तरेण वलनदिशि भवति। भिन्नदिक्‌त्वे तु वलनान्तररूपस्फुटवलनान्तरेण शेषदिशि भवति। तज्ज्या स्फुटवलनज्या त्रिज्यावृत्ते। अग्रे परिलेख एकोनपञ्चाशन्मितव्यासार्द्धवृत्ते दानार्थं त्रिज्यावृत्त इयं तदा एकोनपञ्चाशन्मितव्यासार्द्धे केत्यनुपाते प्रमाणेच्छयोरिच्छापवर्तनाद्हरस्थानेऽधोवयवत्यागात् सप्तति:। अतो दिक्समैर्युता इत्याद्युपपन्नम्।।24-25।।