-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
चन्द्रग्रहणाधिकार:-4


मध्यग्रहणम्। स्पर्श:। मोक्ष:।
Madhyagrahanam | Sparsha|Mokshya

अथ मध्यग्रहणस्पर्शमोक्षकालानाह—

स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्।
स्थित्यर्धनाडिकाहीने स्पर्शो मोक्षस्तु संयुते।।16।।

स्पष्टतिथ्यन्तकाले तुकारात् तत्पूर्वापरकालनिरास:। मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत्। मध्यग्रहणसम्बन्धेन मध्यसूर्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भव इति कस्यचिद्भ्रमस्‍तद्वारणार्थं स्फुटेति। स्थित्यर्द्धघटिकाभिरूने तिथ्यन्तकाले ग्रास: स्पर्श:। संयुते स्थित्यर्द्धघटीभिर्युते तिथ्यन्तकाले मोक्ष:। तुकार: स्पर्शमोक्षस्थित्यर्द्धाभ्यां स्पर्शमोक्षकालौ इति विषयव्यवस्थार्थक:। अत्रोपपत्ति:। तिथ्यन्तकाले छाद्यच्छादकयो: पूर्वापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति तत: पूर्वाग्रिमकालयोर्न्यून एव अतोऽत्र मध्यग्रहणकाल:। केचित् तु। पर्वान्त: किल साधितो भवलये सूर्येन्दुचिह्नान्तरात् तस्मिन् विम्बसमागमो न हि यतश्चन्द्र: शराग्रे स्थित:। तस्मादायनदृष्टि संस्कृतविधोरानीत-तिथ्यन्तके विम्बैक्यं भवतीति किं न विहितं पूर्वैर्न विद्मो वयम्।। इत्यनेनात्र मध्यग्रहणं खण्डयन्ति। तन्न। पूर्वापरान्तराभावे योगसत्वेन कदम्बसूत्रस्थयोर्याम्योत्तरान्तरस्यैव सत्वेन तत्र मध्यग्रहणस्योचितत्वात्। अन्यथा ध्रुवसूत्रे समसूत्रे वा योगाभ्युपगमे विनिगमनाविरहापत्ते:। यथागतग्रहयो: कदम्बसूत्रेणैव योगाभ्युपगमात्। दृष्टिप्रत्ययार्थं दृक्कर्मोक्ते:। ग्रहणद्वयस्य स्वत एव दृग्गोचरत्वात्। ग्रहद्वयादर्शनाच्चेत्यादिसंक्षेप:। मध्यग्रहणकालात् पूर्वं स्पर्शस्थित्यर्द्धघटीभिस्पर्श:। अग्रिमकाले मोक्षस्थित्यर्द्धघटीभिर्मोक्ष:। स्थित्यर्द्धयोस्तदन्तररूपत्वेन सिद्धे:।।16।।