-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
चन्द्रग्रहणाधिकार:-4


स्थित्यर्धम्। विमर्दार्धम्। Sthityordham | bimardardham

अथ स्थितिविमर्दयो: स्थूलत्वनिराकरणम्—

स्थित्यर्धनाडिकाऽभ्यस्ता गतय: षष्टिभाजिता:।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुन: पुन:।।14।।
तद्विक्षेपै: स्थितिदलं विमर्दार्धं तथाऽसकृत्।
संसाध्यमन्यथा पाते तल्लिप्तादि फलं स्वकम्।।15।।

सूर्यचन्द्रपातानां गतय: स्थित्यर्द्धघटीभिर्गुणिता: षष्ट्या भक्ता: फलं कलादिप्रग्रहे स्पर्शस्थित्यर्द्धनिमित्तं सूर्यचन्द्रयोर्हीनं मोक्षे मोक्षस्थित्यर्द्धनिमित्तं सूर्यचन्द्रयोर्देयं योज्यम्। चन्द्रपाते तल्लिप्तादिफलं स्थित्यर्द्धघट्यानीतं कलादिपूर्वफलं स्वकं स्वगत्युपपन्नमन्यथा विपरीतं प्रग्रहस्थित्यर्द्धनिमित्तं योज्यं मोक्षस्थित्यर्द्धनिमित्तं हीनमित्यर्थ:। तद् विक्षेपै: तात्कालिक चन्द्रपाताभ्यामानीतशरकलाभि:। कलानां बहुत्वाद्विक्षेपैरिति बहुवचनम्। विक्षेपाभ्याम् इत्यर्थ:। पुन: पुन: स्थितिदलं कार्यम्। अत्रैकं पुन: पदं स्पर्शस्थित्यर्द्धसम्बद्धं द्वितीयं मोक्षस्थित्यर्द्धसम्बद्धं पुन: पदम्। तेनस्पर्शस्थित्यर्द्धार्थसाधितचन्द्रपाताभ्यामानीतशरेण प्रागुक्तप्रकारेण स्पर्शस्थित्यर्द्धं संसाध्यम्। मोक्षस्थित्यर्द्धार्थसाधितचन्द्रपाताभ्यामानीतशरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्द्धं साध्यमित्यर्थ:। तच्चोभयमसकृद्वारं वारं स्पर्शस्थित्यर्द्धानीतचालनेन मध्यकालिकौ चन्द्रपातावुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या स्पर्शस्थित्यर्द्धमस्मादपि उक्तरीत्या स्पर्शस्थित्यर्द्धमेवं यावदविशेष:। एवं मोक्षस्थित्यर्द्धानीतचालनेन मध्य कालिकौ चन्द्रपातावुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्द्धमस्मादप्युक्तरीत्या मोक्षस्थित्यनर्द्धमेवं यावदविशेष इत्यर्थ:। ननु स्थित्यर्द्धविमर्दार्द्धयोरेकमित्युक्ते: कथं विमर्दार्द्धमसकृत् साध्यमिति नोक्तमित्यतआह विमर्दार्धमिति। तथा स्पर्शमोक्षस्थित्यर्धसाधनरीत्या सकृद्यावदविशेषस्तावत् स्पर्शमर्दार्द्धं मोक्षमर्दार्द्धं च संसाध्यम्। यथा हि स्थित्यषर्द्धनाडिकाभ्यस्ता इत्यत्र विमर्दार्द्धनाडिकाग्रहात् स्पर्शमर्दार्द्धमोक्षमर्दार्द्धे साध्ये। आभ्यां प्रत्येकमसकृत् स्पर्शमर्दार्द्धमोक्षमर्दार्द्धे स्फुटे स्त:। अत्रोपपत्ति:। प्रागुक्तं क्षेत्रं स्पर्शमोक्षसम्मीलनोन्मीलनकालिकशरवशादिति तदज्ञानान्‍मध्यकालिकशरग्रहणेन स्थूलं स्थित्यर्द्धं मर्दार्द्धं चातो मध्यकालात् तदन्तरेण पूर्वाग्रिमकालिकयोस्‍तेषां सम्भवात् तत्कालचालितचन्द्रपाताभ्यां विक्षेपस्तात्कालिको भवति परं स्थूल:। स्थूलस्थित्यर्द्धाद्यानीतत्वात्। अतोऽस्मादानीतं स्थित्यर्द्धादि पूर्वापेक्षया सूक्ष्ममपि स्थूलमित्यसकृत्सूक्ष्ममपि। तत्र सम्मीलनोन्मीलनकालयोराका-शस्पर्शमोक्षसम्भवात् स्पर्शमोक्षमर्दार्द्धमिति ध्येयम् ।।14-15।।