SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ सम्पूर्णन्यूनग्रहणज्ञानं ग्रहणाभावज्ञानं च आह-
ग्राह्यमानाधिके तस्मिन् सकलं न्यूनमन्यथा।
योगार्धादधिके न स्याद् विक्षेपे ग्रासम्भव:।।11।।
तस्मिन्छन्नमानेऽधिके ग्राह्यमानाधिके यद्यस्मात् कारणात् ग्राह्यमानमस्ति। अत: कारणात् सकलं सम्पूर्णं ग्रहणं भवति। अन्यथा ग्राह्यमानान्न्यूने ग्रासे न्यूनं ग्राह्यमानान्तर्गतं ग्रहणं स्यात्। मानैक्यखण्डाद् विक्षेपेऽधिके सति ग्राससम्भवो ग्रहणं न स्यात्। अत्रोपपत्ति:। ग्राह्यमानादधिके ग्रासे सम्पूर्णग्रहणं न्यूने न्यूनं मानैक्यखण्डादधिके विक्षेपे मण्डलस्पर्शासम्भवाद् ग्रहणाभाव:।।11।।
अथ स्थित्यर्द्धविमर्दार्धे श्लोकाभ्यामाह—
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक्।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे।।12।।
षष्ट्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते।
स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयो:।।13।।
ग्राह्यग्राहकमानयोर्यागान्तरे अर्द्धिते पृथक् स्थानान्तरे स्थाप्ये। अग्रिमक्रियायां कदाचिद्शुद्धत्वसम्भवे पुन: क्रियार्थमेतयोरावश्यकत्वात्। तद्वर्गाभ्यां योगार्द्धान्तरार्द्धयोर्वर्गाभ्यां विक्षेपवर्गेण वर्जिताभ्यामुभे द्वे मूले षष्ट्या गुणयित्वा सूर्यचन्द्रयोर्गत्यन्तरकलाभिर्भक्ते तयो: योगवियोगयो: स्थाने घट्यादि फले क्रमेण स्थित्यर्द्धविमर्दार्द्धे भवत:। अत्रोपपत्ति:। ग्रहणारम्भाद्ग्रहणान्तपर्यन्तं य: काल: स स्थितिसंज्ञ:। तस्य खण्ड एकं ग्रहणारम्भान्म मध्यग्रहणपर्यन्तमपरं मध्यग्रहणाद्ग्रहणान्तपर्यन्तम्। तत्र विम्बनेमिस्पर्शकाले मानैक्यखण्डं कर्ण: स्पर्शमोक्षकालिकशरो भुज: स्पर्शमोक्षान्यतरकालिकशराग्रयोरन्तरं पूर्वापरं कोटिरिति तत् खण्डसाधकं क्षेत्रम्। एवं सम्पूर्णग्रहणे सम्मीलनोन्मीलनकालयोरन्तरकालो मर्दस्तत्र मध्यग्रहणात् सम्मीलनोन्मीलनकालावधिखण्डे तत्साधकं छाद्यच्छादकमण्डलकेन्द्रयोरन्तरं मानार्द्धान्तरतुल्यं कर्णस्तात्कालिकशरो भुज: शराग्रयोरन्तरं विक्षेपवृत्ते पूर्वापरं कोटिरिति क्षेत्रम्। सम्मीलनं छाद्यमण्डलस्याच्छादनसमाप्ति: उन्मीलनं तु छादकमण्डलादाच्छादित सम्पूर्णच्छाद्यमण्डलस्य नि: सरणारम्भ:। तत्र स्पर्शमोक्षसम्मीलनोन्मीलनकालानामज्ञानान्मध्यकालिकविक्षेपग्रहणम्। भुजकर्णवर्गान्तरपदं कोटिरिति पूर्वश्लोकोक्तमुपपन्नम्। छाद्यच्छादक मण्डलकेन्द्रयो: पूर्वापरान्तराभावे मध्यग्रहणसम्भवाच्छाद्यच्छादकयुतिर्गत्यन्तरकलाभि: षष्टिघटिकास्तदानीतकोटिकलाभि: का इत्यनुपातेन स्थिलतिमर्दखण्डे। तत्र चन्द्रग्रहणे भूभागते: सूर्यगत्यनुरोधात् सूर्यगतित्वमिति उपपन्नं द्वितीयश्लोकोक्तम्।।12-13।।