SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ उपयुक्तां भूच्छायां श्लोकाभ्यां साधयति—
स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्।।4।।
मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्।
विशोध्य लब्धं सूच्या तु तमो लिप्तास्तु पूर्ववत्।।5।।
स्पष्टचन्द्रस्य गति: भूव्यासेन गुणिता मध्यया चन्द्रगत्या भक्ता फलं सूचीसंज्ञं स्यात्। भूव्यासस्पष्टसूर्यविम्बव्यासयोरन्तरं मध्येन चन्द्रविम्बव्यासेनाशीत्यधिकचतुशतयोजनेन गुणितं मध्येन सूर्यविम्बव्यासेन पञ्चषष्टिशतयोजनेन भक्तं फलं सूच्यां प्राकसिद्धायां न्यूनीकृत्य तुकाराच्छेषं तम:।
भूच्छायारूपं योजनात्मकं भाभावस्तम इति छायायास्तमस्त्वात्। अस्य कलात्मकं मानमाह। लिप्ता इति। त्वन्तस्य पूर्वसम्बन्धानुक्तेरूत्तरत्र सम्बन्धस्तुकारेण सुबोध:। अतएव पूर्ववाक्यसमाप्तिस्थं तम: पदमत्र नान्वेति। पूर्ववत् तिथ्याप्ता मानलिप्तिका इति पूर्वोक्तेन भूच्छायाया: कला: कार्या:।
अत्रोपपत्ति:। भूव्यासहीनं रविविम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम्। भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे।। इति सिद्धान्तशिरोमणौ सूक्ष्मप्रकार उक्त:। अस्योपपत्तिस्तट्टीकायां व्यक्ता। तत्र भूव्यासोनस्यरविविम्बस्य 4900 स्वल्पान्तराङ्गीकारेण स्पष्टगतिभक्तमध्यगतिगुणित
चन्द्रमध्ययोजनकर्णरूपस्पष्टेन्दुयोजनकर्णो गुण:। तादृशसूर्यकर्णो हर:। तत्रैतत् खण्डस्य कलाकरणार्थं त्रिज्यागुणश्चन्द्रकर्ण: तादृशो हर इति चन्द्रस्पष्टमध्यगत्योस्तुल्यगुणहरत्वेन नाशात् त्रिज्यामध्येन्दुयोजनकर्णयोस्त्रिज्यापवर्त्तनेन हर: पञ्चदश पृथगुक्त:।
अग्रेऽवशिष्टौ भूव्यासहीनमध्यार्कविम्बयोजनानां रविस्पष्टमध्यमगती गुणहरौ। चन्द्रसूर्ययो: मध्ययोजनकणावपि क्रमेण गुणहरौ। तत्र कर्णस्थाने लाघवात् तयोर्विम्बयोजनानि गृहीतानि। यद्यपि सूर्यचन्द्रयोर्मध्ययोजन कर्णानुसारित्वाभावाद् विम्बयोजनग्रहणमनुचितम्।
तथापि अल्पान्तराङ्गीकारेण तददोष:। इन्दुव्यासार्कव्यासयोर्भूगोलाध्यायोक्तकक्षाभूकर्णगुणिता महीमण्डलभाजिता तत्कर्ण इति। तत्कक्षाव्यासार्द्धत्वे तु सुतराम्। तत्रापि स्पष्टार्कविम्बयोजनग्रहणे मध्यार्कयोजनविम्बं सूर्यस्पष्टगतिगुणितं सूर्यमध्यगतिभक्तमिति सिद्धम्।
न चोक्तरीत्या सूर्यस्पष्टमध्यगती गुणहरौ भूव्यासमध्यार्कविम्बयोजनान्तरस्योत्पन्नौ न केवलं विम्बस्येति भूव्यासस्तादृशो महीव्यास इत्यनेन कथं सिद्ध इति वाच्यम्। भगवता स्वल्पान्तरेण महीव्यासस्य यथा स्थितस्य एव अङ्गीकारात्। महीव्यासस्फुटार्कश्रवणान्तरमित्युक्त्या मध्यस्थस्फुटपदस्य उभयत्रान्वयेन अर्कश्रवणसन्निधानेन च सूर्यविम्बस्फुटरीत्यैवव महीव्यासस्य स्फुटत्वसिद्धेश्च। अथैतत्खण्डसिद्धंफलं भूव्यासाद् हीनं भूभायोजनानि। तत्र कलाकरणार्थं भूव्यासस्य अपरखण्डस्य त्रिज्या गुण: स्पष्टचन्द्रगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टयोजनकर्णो हर:। तत्र त्रिज्यामध्ययोजनकर्णो गुणहरौ गुणेनापवर्त्य हरस्थाने पञ्चदश चन्द्रस्पष्टमध्यगती गुणहरौ इति सूच्युक्तोपपन्ना। भूभाया: सूच्यनुकारत्वात् प्रथमखण्डं द्वितीयखण्डे हीनं भूभायोजनात्मिका सा पञ्चदशभक्ता कलादिकेत्युक्तमुपपन्नम्। यदि तु भूव्यासहीनं रविविम्बमित्यादौ मध्यविम्बानुक्ते: प्रथममेव स्पष्टार्कविम्बग्रहणं तदा महीव्यासस्य स्पष्टत्वाप्रसिद्धया महीव्यासस्फुटार्कश्रवणान्तरमित्येव यथाश्रुतं सम्यक्। परन्तु तदा भूव्यासो नार्कविम्बस्य सूर्यमध्यस्पष्टगती हरगुणाववशिष्टौ वाच्यौ अपि भगवता स्वल्पान्तरत्वादनुक्तौ। न चानुपाते सूर्यचन्द्रयोर्मध्ययोजनकर्णावेव गृहीतौ न स्फुटाविति मध्यस्फुटगती हरगुणावनुत्पन्नौ नौक्ताविति वाच्यम्। चन्द्रस्पष्टयोजनकर्णस्वरूपग्रहणेनोत्पन्नसूच्या अनुक्तत्वापत्ते:। न च चन्द्रकर्णस्य मध्यत्वेन गृहीते बह्वन्तरमत: स्पष्टत्वेन तस्य ग्रहे सूच्युपपन्ना सूर्यकर्णस्य मध्यत्वेन गृहीतेत्यअल्पान्तरमिति वाच्यम्। मध्यार्कविम्बयोजनग्रहणेन स्फुटार्कश्रवणानुपपत्ते:।
न चोभयत्रागृहीते प्रत्येकम् अल्पान्तरम् अपि बह्वन्तरमत एकत्र सूर्यगतिग्रहणम् उचितमिति वाच्यम्। विनिगमना विरहात्। पूर्वं सूर्यविम्बस्यैव सूर्यस्पष्टमध्यगती गुणहरौ न महीव्यासस्य प्रान्त्ये तूभयोरिति स्थूलसूक्ष्मविनिगमके तु प्रान्त्ये सूर्यगतिग्रहणस्यौचित्याच्च।
अथ महीव्यासस्य प्रथमखण्डस्य चन्द्रगतिग्रहणेन सूच्युक्तावेव द्वितीयखण्डस्य भूव्यासोनस्फुटरविविम्बस्यार्थात् सूर्यगतिग्रहणं सूचितमिति न क्षतिरिति चेन्न। व्याख्याप्रसङ्गे सूर्यगतिग्रहणे मानाभावादुपपत्तेरप्रसङ्गाच्च।
अन्यथा अत्रापि चन्द्रगतिग्रहणापत्तेरिति। एतेन चन्द्रमध्यगत्या भूव्यासस्तदा चन्द्रस्पष्टगत्या क इति भूव्यासरूपं खण्डं स्पष्टं सूचीसंज्ञं सूर्यविम्बप्रमाणेनापरं भूव्यासोनस्फुटरविविम्बखण्डं तदा चन्द्रविम्बप्रमाणेन किमिति स्पष्टं द्वितीयं खण्डं तयो: स्पष्टयो:
अन्तरं स्पष्टा भूभेति सर्वमुपपन्नमिति निरस्तम्। उक्तानुपाताभ्यां तयो: स्पष्टत्वसिद्धौ मानाभावात्। स्पष्टत्वस्य अप्रसङ्गाच्च। चन्द्रसूर्ययोर्मध्यविम्बानुपपत्तेश्च। यत् तु भूव्यासस्य स्पष्टत्वं सूचीरूपमनुपपद्यमानं हृदि ज्ञात्वा भूव्यास एव भूव्यासोनस्पष्टरविविम्बस्य
मध्यकर्णानुपाताभ्यामल्पान्तरेणापवर्तनान्मध्यविम्बे गुणहरावुत्पाद्यद्वितीयखण्डमुभयोरङ्गुलीकरणं चन्द्रमध्यकर्णेन त्रिज्यामिता: कला: तदाभ्यां का इत्यनुपाते प्रमाणफलयो: फलावर्त्तनेन प्रमाणस्थानापन्नपञ्चदशहरेण इति तयोरन्तरं भूभेत्युक्तं ज्ञानराजदैवज्ञै: सिद्धान्तसुन्दरे।
इनावनीव्यासवियोगनिघ्नं शशाङ्कविम्बं रविविम्बभक्तम्। फलोनभूव्याससमा कुभासौ शरेन्दुभक्ता कलिकादिका स्यात्।। इति ग्रन्थेन। अत्र सूर्यव्यास: स्फुटार्कविम्बयोजनात्मको न मध्ययोजनात्मक:। चन्द्रार्कविम्बे गुणहरौ मध्ययोजनात्मकौ न स्फुटविम्बतयोजनात्मकौ
तट्टीकाकृच्चिन्तामण्यभिमतौ। उपजीव्यसूर्यसिद्धान्तविरोधात्। तदुक्तं तदुपपत्यापि तदसिद्धेश्च। अत्र यदपि तट्टीकाकृच्चिन्तामण्युक्तं मध्यमस्य भूभाविम्बस्यानयनं फलविशेषेण मध्यकर्णावेव एवं गुणहरौ प्रकल्प्योक्तविधिना सिद्धस्य मध्यविम्बस्य यदि मध्यगत्यन्तरेणेदं स्फुटगत्यन्तरेण
किमित्यनुपातेन स्फुटत्वं मूलकृदनुक्तमपि कार्यमिति तद्गत्यन्तरवशेन भूभाया अनुत्पत्या न समञ्जसम्। अन्यथा गतिवशेन साधितार्कचन्द्रविम्बवद्गत्यन्तरकलाभ्योऽविकृताभ्य एव भूभाया: साधनापत्तेरिति तदसत्।
स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता। इति सूर्यसिद्धान्तोक्तयुक्तिसिद्धसूच्यनुक्त्या भूव्यासस्यैवाविकृतस्य ग्रहणादित्यलं परदोषगवेषणापल्लवितेन।।4-5।।